________________
मूलं-१४०
२१३ एव प्रवर्त्तयन्ति, नासदव्यवहारे, स तु विपर्ययमपि करोती, ततः कथमसौ सर्वज्ञो वीतरागो वा?, अथोच्येत-सद्व्यवहारविषयमेव भगवानुपदेशाां ददाति तेन सर्वज्ञो वीतरागश्च, यस्त्वधर्मकारी जनसमूहस्तं फलमसदनुभावयति येन न तस्माधर्माद् व्यावर्त्तते, तद् उचितफलदायित्वाद्विवेकवानेव भगवानीति न कश्चिदोषः, तदप्यसमीक्षिताभिधानं, यतः पापेऽपि प्रथमं स एव प्रवर्त्तयति नान्यो, न च स्वयं प्रवर्त्तते, तस्याज्ञत्वेन पापे धर्मे वा स्वयंप्रवृत्तरेयोगात्, ततः पूर्व पापे प्रवर्त्य तत्फलमनुभाव्य पश्चाद्धम्र्मे प्रवर्तयतीति केयमीशश्वरस्य प्रेक्षापूर्वकारिता?, अथ पापेऽपि प्रथमं प्रवर्तयति तत्कर्माधिष्ठित एव, तथाहि___ तदेव तेन जन्तुना कृतं कर्म यद्वशात्पाए एव प्रवर्तते, ईश्वरोऽपि च भगवान् सर्वज्ञस्तथारूपं तत्कर्म साक्षात् ज्ञात्वा तं पाप एव प्रवर्त्तयति, तत्र उचितफलदायित्वान्नाप्रेक्षापूर्वकारीति, ननु तदपि कर्म तेनैव कारितं. ततस्तदपि कस्मात्प्रथमं कारयतीति स एवाप्रेक्षापूर्वकारिताप्रसङ्गः, अथाधर्ममसौ न कारयति, किन्तु स्वत एवासौ अधर्ममाचरति, अधर्मकारिणं तु तं तत्फलमसदनुभावयति, तदन्येश्वरवत्, तथाहि-तदन्ये ईश्वरा राजादयो नाधर्मे जनं प्रवर्त्तयन्ति अधर्मफलं तु प्रेष्यादिकमनुभावयन्ति तद्वद्भगवानीश्ववरोऽपि, तदप्ययुक्तं, अन्ये हि ईश्वरा न पापप्रतिपे, कारयितुमीशाः, न हि नाम राजानोऽपि उग्रशासनाः पाप मनोवाक्यनिमित्ते (प्रवृत्त) सर्वथा प्रतिषेधयितुं प्रभविष्णवः, स तु भगवान् धर्माधर्मविधिप्रतिषेधविधापनसमर्थ इप्यते ततः कथं पापे प्रवृत्तं न प्रतिषेधयति ?, अप्रतिषेधतश्च परमार्थतः स एव कारयति, तत्फलशश्च(स्य) पश्चादनुभावनादिति तदवस्थ एव दोषः, अथ पापे प्रवर्त्तमानं प्रतिषेधयितुमशक्त इष्यते तर्हि नैवोच्चकैरिदमभिधातव्यं-सर्वमीश्वरेण कृतमिति, अपिच-यद्यसौ स्वयमधर्म करोति तथा धर्ममपि करिष्यति फलं च स्वयमेव भोक्ष्यते ततः किमीश्वरकल्पनया विधेयमिति?,
"स्वश्क्त्याऽन्येश्वराः पापप्रतिपेधं न कुर्वते। स त्वत्यन्तमशक्तेभ्यो, व्यावृत्तमतिरिप्यते ॥१॥ अथाप्यशक्त एवासौ, तथा सति परिस्फुटम्। नेश्वरेण कृतं सर्वमिति वक्तव्यमुच्चकैः॥२॥
पापवस्त्वर्जकारित्वाद्धर्मादिरपि किं ततः" ।। इति, अथ ब्रवीथाः-स्वयमसौ धमाधम्मौ करोति, तत्फलं त्वीश्वर एव भोजयति, तस्य धर्माधर्मफलभोगे स्वयमशक्तत्वादिति, तदप्यसत्, यतो यो नाम स्वयं धर्माधर्मों विधातुमलं स कथं तत्फलं स्वयमेव न भोक्तुमीश:?, न हि पक्तुमोदनं समर्थो न भोक्तुमिति लोके प्रतीतं, अथवा भवत्वेतदपि तथाऽप्यसौ धर्मफलमुन्यत्तदेवाङ्गनासंस्पर्शादिरूपमनुभावयतु, तस्येष्टत्वात्, अधर्मफलं तु नरक प्रपातादिरूपुकस्मादनुभावयति?, न हि मध्यस्थभावमवलम्बमाना: परमकरुणापरितचेतसः, प्रेक्षावन्तो निरर्थके परपीडाहेतौ कर्मणि प्रवर्तन्ते, क्रीडार्था भगवतस्तथा प्रवृत्तिरिति चेत्, यद्येवं तर्हि कथमसौ प्रेक्षावान्?, तस्य हि प्रवर्त्तने क्रीडामात्रमेव फलं, ते पुनः प्राणिनः स्थाने २ प्राणैर्वियुज्यन्ते, उक्तं च
"क्रीडार्था तस्य वृत्तिश्चेत्, प्रेक्षापूर्वक्रिया कुत:? एकस्य क्षणिका तृप्तिरन्यः प्राणैर्विमुच्यते॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org