________________
२१२
नन्दी-चूलिकासूत्रं क्तो, यतः समयादिरूपे परिणामिनि कालेऽविशिष्टेऽपि फलवैचित्र्यमुपलभ्यते, तथाहिसमकालमारभ्यमाणाऽपि मुद्गपक्तिरविकला कस्यचिद् दृश्यते अपरस्य तु कालान्तरेऽपिन, ता समकालमंकस्मिन्नेव राजनि सेव्यमाने सेवकस्यैकस्य फलमचिराद् भवति अपरस्य तु कालान्तरेऽपि न, तथा समकालमपि क्रियमाणे कृष्यादिकर्मण्येकस्य परिपूर्णा धान्यसम्पदुपजायते अन्यस्य तु खण्डस्फुटिता न वा किञ्चिदपि, ततो यदि काल एव केवल: कारण भवेत् तर्हिसर्वेषामपि सममेव मुद्गपक्त्यादि फलं भवेत् न च भवति तस्मात्र कालमात्रकृतं विश्ववैचित्र्यं, किन्तु कालादिसामग्रीसापेक्षं तत्तत्कर्मनिबन्धनमिति स्थान।
यदपि चेश्वरवादिनो ब्रुवते-ईश्वरकृतं जगदि'ति, तदप्यसमीचीनं, ईश्वरग्राहकप्रमाणाभावात्, अथास्ति तद्ग्राहकं प्रमाणमनुमानं, तथाहि-यत्स्थित्वा स्थित्वाऽभिमतफलसम्पादनाय प्रवर्तते तद्बुद्धिमत्कारणाधिष्ठितं, यथा वास्यादि द्वैधीकरणादौ, प्रवर्तते च स्थित्वा स्थित्वा सकलमपि विश्वं स्वफलसाधनायेति, न खलु वास्यादयः, स्वयमेव प्रवर्त्तन्ते, तेषामचे तनत्वात्, स्वभावत एव चेत्प्रवर्तन्ते तहि सदैव तेषां प्रवर्तनं भवेत्, न च भवति, तस्मादवश्यं स्थित्वा स्थित्वा प्रवर्त्तने केनचित्प्रेक्षावता प्रवर्तकेन भवितव्यं, सकलस्यापि च जगत: स्थित्वा २ फलं साधयतः प्रवर्तक: ईश्वर एवोपपद्यते, नान्य इतीश्वरसिद्धिः,
तथाऽपरमनुमानं-यत्पारिमण्डल्यादिलक्षणसन्निवेशविशेषभाक् तच्चेतनावत्कृतं, यथा घटादि, पारिमण्डल्यादिलक्षणसन्निवेशविशेषभाक्च भूभूधरादिकमिति, तदेतदयुक्तं, सिद्धसाधनेन पक्षस्य प्रसिद्धसम्बन्धत्वात्, तथाहि-सकलमपीदं विश्ववैचित्र्यं वयं कर्मनिबन्धनमिच्छामो, यतोऽमी वैताढ्यहिमवदादयः पर्वता भरतैरावतविदेहान्तद्वीपादीनि क्षेत्राणि तथा तथा प्राणिनां सुखदुःखादिहेतुतया यत्परिणमन्ते तत्र तथापरिणमने तत्तन्निवासिनामेव तेषां जन्तूनां कर्म कारणमवसेयं, नान्यत्, तथा च दृश्यन्ते एव पुण्यवति राज्यमनुशासति भूपतौ तत्कर्मप्रभावतः सुभिक्षादयः प्रवर्त्तमानाः, कर्म च जीवाश्रितं, जीवाश्च बुद्धिमन्तश्चेतनावत्त्वात्, ततो बुद्धिमत्कारणाधिष्ठितत्वे चेतनावत्कृतत्वे च साध्यमाने सिद्धसाधनं, अथ बुद्धिमान् चेतनावान् वा विशिष्ट एवेश्वरः कश्चित्साध्यते तेन न सिद्धसाधनं, तहि दृष्टान्तस्य साध्यविकलता, वास्यादौ नघटादौ चेश्वरस्याधिष्ठायकत्वेन कारणत्वेन वाव्याप्रियमाणस्यानुपलभ्यमानत्वाद्, वार्द्धकिकुम्भकारादीनामेव तत्रान्वयतो व्यतिरेकतो वा व्याप्रियमाणान निश्चीयमानत्वात्, अथ वार्द्धक्यादयोऽपि ईश्वरप्रेरिता एव तत्र २ कर्मणि प्रवर्त्तन्ते न स्वतः ततो न दृष्टान्तस्य साध्यविकलता नन्वेवंतर्हिईश्वरोऽप्यन्येनेश्वरेणप्रेरितः स्वकर्मणिप्रवर्तते, नस्वतो, विशेषाभावात्, सोऽप्यन्येनेश्वरेण प्रेरित इति विकालसन्ध्यायां तमःसन्ततिरिवादृष्टपर्यन्ता ध्यान्थ्यमापादयन्ती प्रसरत्वनवस्था, अथ मन्येथा वार्धक्यादिको जन्तुः सर्वोऽपि स्वरूपेणाज्ञस्ततः स प्रेरित एव स्वकर्मणि प्रवर्त्तते भगवांस्त्वीश्वरः सकलपदर्थज्ञाता ततो नासौ स्वकर्मण्यन्सं स्वप्रेरकमपेक्षते तेन नानवस्था, तदप्यसत्, इतरेतराश्रयदोषप्रसङ्गात, तथाहि
सकलपदार्थयथाऽवस्थितस्वरूपज्ञातृत्वेसिद्ध सत्यन्याप्रेरितत्वासिद्धिः, अन्याप्रेरितत्वसिद्धौ चसकलजगत्करणत: सर्वज्ञत्वसिद्धिरित्येकासिद्धावन्यतरस्याप्यसिद्धिः, अपिच-यद्यसौ सर्वज्ञो वीतरागश्च तत्किमर्थमन्यं जनमसद्व्यवहारे प्रवर्त्तयति?, मध्यस्था हि विवेकिन: सद्व्यवहार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org