Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 214
________________ मूलं - १४० २११ सन्नित्येको विकल्पः, न कश्चिदपि जानाति, तद्ग्राहप्रमाणाभावादिती भाव:, ज्ञातेन वा किं तेन प्रयोजनं ?, ज्ञानस्याभिनिवेशहेतुतया लोके प्रतिपन्थित्वात्, एवमसदादयाऽपि विकल्पा भावनीयाः, उत्पत्तिरिपि किं सतोऽसतः सदसतोऽवाच्यस्य वेति को जानाति ?, ज्ञातेन वा किं ?, न कश्चिदपि प्रयोजनमिति ।। तथा विनयेन चरन्तीति वैनयिकाः एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः, ते च द्वात्रिंशत्सङ्ख्या अमुनोपायेन दृष्टव्याः सुरनृपतियतिज्ञातिस्थविराधममातृपितृरूपेष्वष्टसु स्थानेषु कायेन वाचा मनसा दानेन देशकालोपपत्रेत विनयः कार्य इति चत्वारः कायादयः स्थाप्यन्ते, चत्वारश्चाष्टभिर्गुणिना जाता द्वात्रिंशत् ॥ एतेषां च त्रयाणां त्रिपष्टयधिकानां पाखण्डिकशतानां प्रतिक्षेपः सूत्रकृताङ्गे शेषेषु च प्रकरणेषु पूर्वाचार्यैरनेकधा युक्तिभिः कृतस्ततो वयमपि स्थानाशून्यार्थं पूर्वाचार्यकृतं तेषां प्रतिक्षेपं संक्षेपतो दर्शयाम:-तत्र ये कालवदानि: सर्वं कालवादिनः सर्वं कालकृतं मन्यन्ते तान् प्रति ब्रूमः कालो नाम किमेवस्वभावो नित्यो व्यापी ? किंवा समयादिरूपतया परिणामि ?, तत्र यद्याद्यः पक्षः तदयुक्तं तथाभूतकालग्राहक प्रमाणाभावात्, न खलु तथाभूतं कालं प्रत्यक्षेणोपलभामाहे, नाप्यनुमानेन तदविनाभाविलिङ्गगाभावात्, अथ कथं तदविनाभाविलिङ्गाभावो ?, यावता दृश्यते भरतमादिषु पूर्वापरव्यवहार:, स च न वस्तुस्वरूपमात्रनिमित्तो, वर्तमानो च काले वस्तुस्वरूप विद्यमानतया तथाव्यवहारप्रवृत्तिप्रसक्तेः, ततो यन्निमित्तोऽयं भरतरामादिषु पूर्वाव्यवहारः स काल इति, तथाहि - पूर्वकालयोगी पूर्वो भारत चक्रवर्ती अपरकालयोगी चापरो रामादिरिति, ननु यदि भरतरामादिषु पूर्वापरकालयोगतः पूर्वापरव्यवहारस्तर्हि कालस्यैव कथं स्वयं पूर्वापरव्यवहारः ?, तदन्यकालयोगादिति चेत्, न, तत्रापि स एव प्रसङ्ग इत्यनवस्था, अथ मा भूदेव दोप इति तस्य स्वयमेव पूर्वत्वमपरत्वं चेष्यते नान्यकालयोगादिति, तथा चोक्तम्"पूर्वकालादियोगी यः, स पूर्वाद्यपदेशभाक् । पूर्वापरत्वं तस्यापी, स्वरूपादेव नान्यतः ॥' तदप्यकण्ठपीतासवप्रलापदेशीयं, यत एकान्तेनैको व्यापी नित्यः कालोऽभ्युपगम्यते, ततः कथं तस्य पूर्वादित्वसम्भव: ?, अथ सहचारिसम्पर्कवशादेकस्यापि तथात्वकल्पना, तथाहिसहचारिणां भरतादयः पूर्वाः अपरे च रामादयो ऽपरास्ततस्तत्सम्पर्क वशात्कालस्यापि पूर्वापरव्यपदेशः, भवति च सहचारिणो व्यपदेशो यथा मञ्चाः क्रोशन्तीति, तदेतदपि बालिशजल्पितम्, इतरेतराश्रयदोषपसङ्गात्, तथाहि सहचारिणां भरतादीनां पूर्वादित्वं कालगत-पूर्वादित्वयोगात् कालस्य च पूर्वादित्यं सहचारिभरतादिगतपूर्वादित्ययोगतः, तत एकासिद्धावन्यतरस्याप्यसिद्धिः, उक्तं च - Jain Education International " एकत्वव्यापितायां हि, पूर्वादित्वं कथं भवेत् ? 1 सहचारिवशात्तच्चेदन्योऽन्याश्रयताऽऽगमः ॥ १ ॥ सहचारिणां हि पूर्वत्वं, पूर्वकालसमागमात् । कालस्य पूर्वादित्वं च, सहचार्यवियोगतः ॥ २॥ " प्रागसिद्धावेकस्य कथमन्यस्य सिद्धिरिति तन्नायं पक्षः श्रेयान्, अथ द्वितीयः, पक्षः, सोऽप्यु For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265