Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 112
________________ मूलं-८५ सो मनजोगी भण्णइ मन्नइ नेयं जओ तेणं॥" ततः सह योगेन वर्त्तन्ते ये ते सयोगा: योगा:-मनोवाक्या: त यथासम्भवमस्य विद्यन्ते इति सयोगी, सयोगी चासो भवस्थश्च सयोगिभवस्थस्तस्य केवलज्ञानं सयोगिभवस्थकवलजानं । तथा योगा अस्य विद्यन्ते इति योगी न योगी अयोगी अयोगी चासो भवस्थश्च अयोगिभवस्थः, शैलेश्यवस्थामपागत इत्यर्थः, तस्य केवलज्ञानमयोगिभवस्थकेवलज्ञानं ।।। अथ कि तत् सयोगिभवस्थकेवलज्ञानं?,सयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथाप्रथसमयसयोगिभवस्थकेवलज्ञानम् अप्रथमसमयसयोगिवभवस्थकेवलज्ञानं च, तह प्रथमसमयः केवलज्ञानोत्पत्तिसमयः, उ प्रथमसमयः केवलोत्पत्तिसमयादृक् द्वितीयादिकः सर्वोऽपि समया गावत्सयोगित्वचरमसमयः। अथवति प्रकारान्तर, एष एवार्थ: समयविकल्पनेनान्यथा प्रतिपाद्यते इत्यर्थः, 'चरमसमये त्वादि, तत्र चरमसमयः-सयोग्यवस्थान्तिमसयमः, न चरमसमयः अचरमसमयः-सयोग्यवस्थाचरमसमयादाक्तन: सर्वोऽप्याकेवलप्राप्तेः । सेत्तमि'त्यादि निगमनं सुगम। अथ किं तद् अयोगिभवस्थकवलज्ञानं?, अयोगिभवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथाप्रथमसमयायोगिभवस्थकेवलज्ञानं अप्रथमसमयायोगिभवस्थकेवलज्ञानं च, अत्र प्रथमसमयोऽयोगित्वोत्पत्तिसमयो वेदितव्यः, शैलेश्यवस्थाप्रतिपत्तिसमय इत्यर्थः, प्रथमसमयादन्यः सर्वोऽप्यप्रथमसमयो यावच्छैलेश्यवस्थाचरमसमयः । अथवेति प्रकान्तरे"चरमसमये'त्यादि, इह चरमसमय: शैलेश्यवस्थान्तिमसमयः, चरमसमयादन्यः सर्वोऽप्यचरमसमयो यावच्छेलेश्यवस्थाप्रथमसमय: 'सेत्तं अयोगिभवत्थकेवलज्ञाणं' तदेतदयोगिभवस्थकेवलज्ञानम्। मू.(८६)से किं तं सिद्धके वलनाणं, सिद्धके वलनाणं दुविहं पन्नातं, तंजहाअनंतरसिद्धकेवलनाणं च परंपरसिद्धकेवलनाणं च। वृ.अथ किंतत्सिद्धकेवलज्ञानं?, सिद्धकेवलज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा-अनन्तरसिद्धकेवलज्ञानं च परम्परसिद्धकेवलज्ञानं च, तत्र न विद्यते अन्तरं-समयेन व्यधानं यस्य सोऽनन्तरः सचासौ सिद्धश्चानन्तरसिद्धः, सिद्धत्वप्रथमसमये वर्तमान इत्यर्थः, तस्य केवलज्ञानमनन्तरसिद्धकेवलज्ञानं, चशब्दः स्वगतानेकभेदसूचकः, तथा विवक्षिते प्रथमसमये यः सिद्धः तस्य यो द्वितीयसमयसिद्धः स परः तस्यापि यः तृतीयसमयसिद्धः स परः एवमन्येऽपि वाच्याः परेच परे चेति वीप्सायां पृषोदरादय इति परम्परशब्दनिष्पत्तिः परम्परे च ते सिद्धाश्च परम्परसिद्धाः, विवक्षितसिद्धत्वप्रथमसमयात्प्राक् द्वितीयादिषु समयेष्वनन्ता अतीताद्धां यावद्वर्तमाना इत्यर्थः, तेषां के वलज्ञानं परम्परसिद्धकेवलज्ञानम्, अत्रापि चशब्दः स्वगतानेकभेदसूचकः । इहानन्तरसिद्धाः सत्पद प्ररूपणा १ द्रव्यप्रमाण २ क्षेत्र ३ स्पर्शना ४ कला ५ ऽन्तर ६ भावा ७ ल्पबहुत्व ८ रूपैरष्टभिरनुयोगद्वारैः परम्परसिद्धाः सत्पदप्ररूपणाद्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभावाल्पबहुत्वसन्निकर्षरूपैर्नवभिरनुयोगद्वारैः क्षेत्रादिषु पञ्चदशसु द्वारेषु सिद्धप्राभृते चिन्तिता: ततस्तदनुसारेण वयमपि विनेयजनानुग्रहार्थं लेशतश्चिन्तयामः। क्षेत्रादीनि च पञ्चदश द्वाराण्यमुनि "खेत्ते १ काले २ गइ ३ वेय ४ तित्थ ५ लिंगे ६ चरित ७ बुद्ध ८ य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265