Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 181
________________ १७८ नन्दी-चूलिकासृन शब्दार्थपरिज्ञानरूपत्वादथ च मतिज्ञानमभिधीयमानं वर्तत तत्कथमादेश इति सत्रादेशो व्या. ख्यातः?, तदयुक्तं, सम्यगवस्तुतत्वापारज्ञानात्, इह हि श्रुतभावितमतः श्रुतोपलब्धेष्यपि अर्थपु सूत्रानुसारमात्रेण येऽवग्रहहापायादयो बुद्धिविशेषाः प्रादुन्ति ते मतिज्ञानमंव, न श्रुतज्ञानं, सूत्रानुसारनिपेक्षत्वात, आह च भाष्यकृत "आदेसात्ति व सुत्तं ओवलद्धेसु तस्स मइनाणं। पसरइ तब्भावणया विणावि सुत्तानुसारेणं ।।" एवं क्षेत्रादिप्वपि वाच्यं, नवरं तान् सर्वथा न पश्यति, तत्र क्षेत्रं लोकालोकात्मकं, काल: सर्वाद्धारूपोऽतीतानागनवर्तमानरूपी वा, भावाश्च पञ्चसङ्ख्या औयिकादयः, तथा चाहभाष्यकृत् "आएसोत्ति पगारो आघाएसेण सव्वदव्वाई। धम्मत्थिकाइआई जाणइ न उसव्वभावेणं ॥१॥ खत्तं लोकालोकं कालं संवुद्धमहव तिविहं वा। पंचोदइयाईए भावे जं नेयमेवइयं ।।२।।" सम्प्रति संग्रहगाथां प्रतिपादयतिमू.(१२२) लगह ईहाऽवाओ य धारणा एव हुँति चत्तारि। आभिनिबोहियनाणस्स भेयवत्थू समासेणं। वृ.'उग्गहो' इत्यादि अवग्रह:-प्राग्निरूपितशब्दार्थस्तथा ईहा अपायश्च, चशब्दः पृथगवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादयः परस्परं पर्याया न भवन्तीति भावार्थः, अथवा चशब्दः समुच्चये, तस्य च व्यवहितः प्रयागो धारणा चेत्येवं द्रष्टव्यः, एवकार: क्रमप्रदर्शनार्थः. 'एवम' एतेन क्रमेण 'समासन' संक्षेपणा चत्वारि आभिनिवोधिकज्ञानस्य भिद्यन्ते इति भदा विकल्प अंशा इत्यर्थः त एव वस्तुनि भवन्ति, तथाहि-नानवगृहीतमीह्यते नानीहितं निश्चीयते नानिश्चित्तं धार्यते इति । इदानीमेतेयामवग्रहादीनां स्वरूपं प्रतिपिपादयिपुराहमृ.(१२३) अत्थाणं उम्हणमि उग्रहो तह विआलणे ईहा। ववसायंमि अवाओ धरणं पुन धारणबिति ।। वृ. अत्थाण'मित्यादि, अर्थानां- रूपादीनामवग्रहणंचशब्दोऽवग्रहणस्य अव्यक्तत्वसामान्यमात्रसामान्यविशेपविपयत्वापेक्षया स्वगतभेदबाहल्यसूचकः, अवग्रहं ब्रवते इति योगः, 'तथे'त्यानन्तर्ये विचारणं-पर्यालोचनमर्थानामिति वर्तते ईहा ब्रुवते, तथा विविधोऽवसायो व्यवसायोनिर्णयस्तं चार्थानामिति वर्तत अपायं ब्रुवते इति संसर्गः, धरणं पुनरर्थानामविच्युतिस्मृतिवासनारूपांधारणां ब्रवते तीर्थकरगणधराः, अनेन स्वमनीषिकाव्यदासमाह___ अन्ये त्वेवं पठन्ति-"अस्थाणं' उग्गहणंमि उग्गहो" इत्यादि, तरैवं व्याख्यानम्-अर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेषो भवतीत्येवं ब्रुवते, एवमीहादिप्वपि योजना कार्या, भावार्थः प्राग्वदेव! इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराहमू.(१२४) उग्गह इक्कं समयं ईहावाया मुहुत्तमद्धंतु। कालमसंखं संखं च धारणा होइ नायव्वा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265