Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 207
________________ नन्दी - चूलिकासूत्रं तानिध्ययनमध्ययनं प्रति प्रवर्त्तन्ते, अध्ययनानि च सङ्ख्येयानीतिकृत्वा, तथा सङ्घयेया वेढा, वेढो नाम छन्दोविशेष:, तथा सङ्घयेयाः श्लोका:- सुप्रतीताः तथा सङ्घयेया निर्युक्तयः, तथा सङ्ख्येया: प्रतिपत्तयः, प्रतिपत्तयो नाम द्रव्यादिपदार्थाभ्युपगमा: प्रतिमाद्यभिग्रहविशेषा वा ताः सूत्रनिबद्धाः सङ्ख्येयाः, आह च चूष्णिकृत- "दव्वाइपयत्थब्भुवगमा पडिमादिभिग्गहविसेसा वा पडवत्तीओ सुत्तपडिबद्धा संखेज्ज" त्ति' से ण' मित्यादि, स आचारो 'ण'मिति वाक्यालङ्कारे अङ्गार्थतयाअङ्गार्थत्वेन, अर्थग्रहणं परलोकचिन्तायां सूत्रादर्थस्य गरीयस्त्वख्यापनार्थं, अथवा सूत्रार्थो भयरूप आचार इति ख्यापनार्थं, प्रथममङ्गम्, एकारान्तता सर्वत्र मागधभाषालक्षणानुसरणाद्वेदितव्या स्थापनामधिकृत्य प्रमणमङ्गमित्यर्थः, २०४ तथा द्वा श्रुतस्कन्ध-अध्ययनसमुदायरूपौ, पञ्चविंशतिरध्ययनानि, तद्यथा"सत्थपरिना (१) लोगविजओ (२) सीओसणिज्ज (३) संमत्तं (४) 1 आवंति (५) धुय (६) विमोहो (७) महापरिनो (८) वहाणसुयं (९) ।।" एतानि नवाध्ययनानि प्रथम श्रुतस्कन्धे "पिंडसण (१) सेज्जि (२) रिया (३) भासज्जाया (४) य वत्थ (५) पाएसा (६) । उग्गहपडिमा (७) सत्तसत्तिक्कया (१४) य भावन (१५) विमुत्ती (१६) ।। " अत्र 'सेज्जिरिय'त्ति शय्याऽध्ययनमीर्याऽध्ययनं च 'वत्थपाएस'त्ति वस्त्रेपणाध्ययनं पात्रैषणाध्ययनं च, अमूनि षोडशाध्ययनानि द्वितीय श्रुतस्कन्धे, एवमेतानि निशीथवज्र्जानि पञ्चविंशतिरध्ययनानि भवन्ति, तथा पञ्चाशीतरुद्देशनकाला:, कथमिति चेत् ?, उच्यते, इहाङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैक एवोद्देशनकाल:, एवं शस्त्रपरिज्ञायां सप्तोद्देशनकाला: लोकविजये षट् शीतोष्णीयाध्ययने चत्वारः सम्यक्त्वाध्ययने चत्वारः लोकसाराध्ययने पट् धुताध्ययने पञ्च विमोहाध्ययनेऽष्टौ महापरिज्ञायां सप्त उपधान श्रुते चत्वारः पिण्डैषणायामेकादश शय्यैषणाध्ययने त्रयः ईर्याध्ययने त्रयः भाषाध्ययने द्वौ वस्त्रैषणाध्ययने द्वौ पात्रेषणाध्ययने द्वौ अवग्रहप्रतिमाध्ययने द्वौ सप्त सप्तकिकाऽध्ययनेषु भावनायमेको विमुक्तावेकश्च, एवमेते सर्वेऽपि पिण्डिताः पञ्चाशीतिर्व भन्ति, अत्र संग्रहगाथा "सत्त य छ चउ चउरो य छ पंच अट्ठेव सत्त चउरो य । एक्कार त्तिय तिय दो तिय दो सत्ते क्को (क) एको य !! " एवं समुद्देशनकाला अपि पञ्चाशीतिर्भावनीयाः, तथा पदाग्रहण- पदपरिमाणेनाष्टादश पदसहस्राणि, इह यत्रार्थोपलब्धिस्तत्पदं, अत्र पर आह- यदाऽऽचारे द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि पदाग्रेण चाष्टादश पदसहस्राणि तर्हि यद् भणितं - "नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ" इति तद्विरुध्यते, अत्र ही नवब्रह्मचर्याध्ययनमात्र एवाष्टादशपदसहस्त्रप्रमाण आचार उक्तः, अस्मिंस्त्वध्ययने श्रुतस्कन्धद्वयात्मकः पञ्चविंशत्यध्ययनरूपोऽष्टादशपदसहस्त्रप्रमाण इति, ततः कथं न परस्परविरोधः ?, तदयुक्तं, अभिप्रायायरिज्ञानात् । इह द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि एतत्समग्रस्याचारस्य परिमाणयुक्तं, अष्टादश पदसहस्राणि पुनः प्रथमश्रुतस्कन्धस्य नवब्रह्मचर्याध्ययनस्य, विचित्रार्थनिबद्धानि हि सूत्राणि भवन्ति, अत एव चैषां सम्यगर्थावगमो गुरूपदेशतो भवति, नान्यथा, तथा चाह चूर्णिकृत् - "दो For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265