Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२०८
नन्दी-चूलिकासूत्रं लभ्यते, तस्माद्यद्यद्भावे भवति यदभावे च न भवति तत्तदन्वयव्यतिरेकानुविधायि तत्कृतमिति स्वभावकृता मुद्गपक्तिरप्येष्टव्या, ततः सकलमेवेदं वस्तुजातं स्वभावहेतुकमवसेयमिति।
तत एवं स्वत इति पदेन लब्धाः पञ्च विकल्पाः , एवं परत इत्यनेनापि पञ्च लभ्यन्ते, परत इति-परेभ्यो व्यावृत्तेन रूपेण विद्यते खल्वयमात्मेत्यर्थः, एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः, एवमनित्यपदेनापि दश, सर्वे मिलिता विंशति, एते च जीवपदार्थेन लब्धाः, एवमजीवादिष्वष्टसु पदार्थेषु प्रत्येकं विंशतिविंशतिर्विकल्पालभ्यन्ते, ततो विंशतिर्नवगुणिताः शतमशीत्युत्तरं क्रियावादिनां भवति।
तथा न कस्यचित्प्रतिक्षणमनवस्थितस्य पदार्थस्य क्रिया सम्भवति उत्पत्त्यनन्तरमेव विनाशादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुः एके
"क्षणिकाः सर्वसंस्कारा, अस्थिराणां कुतः क्रिया?।
भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते ।।" एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतीसङ्घया द्रष्टव्याः, पुण्यापुण्यवजितशेषजीवाजीवादिपदार्थसप्तकन्यासस्तथैव च जीवादिसप्तकस्याधः प्रत्येकं स्वपरविकल्पोपादानं, असत्त्वादात्मनो नित्यानित्यविकल्पौ न स्तः, कालादीनां च पञ्चानामधस्तात्षष्ठी यदृच्छा न्यस्यते, इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिन एव न केचिदपि क्रियावादिनः ततः प्राक् यदृच्छा नोपन्यस्ता, तत एवं विकल्पाभिलाप:-नास्ति जीवः स्वतः कालत इति इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छापर्यन्तैः, सर्वे मिलिताः षड् विकल्पाः, अमीषां च विकल्पानामार्थः प्राग्वद्भावनीयः, नवरं यदृच्छात इति यदृच्छावादिनां मते, अथ के ते यदृच्छावादिनः?, उच्यते, इह ये भावानां सन्तानापेक्षया न प्रतिनियतं कार्यकारणभावमिच्छन्ति किन्तु यदृच्छया ते यदृच्छावादिनः, तथा च ते एवमाहुः___ "न खलु प्रतिनियतो वस्तूनां कार्यकारणभावः, तथाप्रमाणेनाग्रहणात्, तथाहि-शालूकादपि जायते शालूको गोमयादपि जायते शालूक: वढेरपि वह्निरुपजायते अरणिकाष्ठादपि धूमादपि जायते धूमोऽग्नीन्धनसम्पर्कादपिजायते कन्दादपि जायते कदली बीजादपिवटादयो बीजादुपजायन्ते शाखैकदेशादपि, ततो न प्रतिनियतः क्वचिदपि कार्यकारणभाव इति यदृच्छातः क्वचित्किञ्चिद्भवतीति प्रतिपत्तव्यं, न खल्वन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिक्लेशयन्तीति, यथा च स्वतः, षड्विकल्पा लब्धाः तथा नास्ति परतः कालत इत्येवमपि पड्विकल्पा लभ्यन्ते, सर्वेऽपि मिलिता द्वादश विकल्पा जीवपदे लब्धाः, एवमजीवादिषु षट्सु पदार्थेषु प्रत्येकं द्वादश २ विकल्पालभ्यन्ते ततो द्वादशभिः सप्त गुणिताश्चतुरशीतिर्भवन्ति अक्रियावादिनां विकल्पाः। __ तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति अज्ञानिकाः, 'अतोऽनेकस्वारा'दिति मत्वर्थीत एकप्रत्ययः, अथवाऽज्ञानेन चरन्तीति अज्ञानिका:-असञ्चिन्त्यकृतबन्धवैफल्यादिप्रतिपत्तिलक्षणाः, तथाहि ते एवमाहु:- न ज्ञानं श्रेयः, तस्मिन् सति परस्परं विवादयोगतश्चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्तेः, तथाहि-केनचित्पुरुषेणान्यथादेशिते सति वस्तुनि विवक्षितो ज्ञानी ज्ञानगर्वाध्मातरमानसस्तस्योपरि कलुषचित्तस्तेन सह विवादमारमते, विवादे च क्रियमाणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265