________________
१७८
नन्दी-चूलिकासृन शब्दार्थपरिज्ञानरूपत्वादथ च मतिज्ञानमभिधीयमानं वर्तत तत्कथमादेश इति सत्रादेशो व्या. ख्यातः?, तदयुक्तं, सम्यगवस्तुतत्वापारज्ञानात्, इह हि श्रुतभावितमतः श्रुतोपलब्धेष्यपि अर्थपु सूत्रानुसारमात्रेण येऽवग्रहहापायादयो बुद्धिविशेषाः प्रादुन्ति ते मतिज्ञानमंव, न श्रुतज्ञानं, सूत्रानुसारनिपेक्षत्वात, आह च भाष्यकृत
"आदेसात्ति व सुत्तं ओवलद्धेसु तस्स मइनाणं।
पसरइ तब्भावणया विणावि सुत्तानुसारेणं ।।" एवं क्षेत्रादिप्वपि वाच्यं, नवरं तान् सर्वथा न पश्यति, तत्र क्षेत्रं लोकालोकात्मकं, काल: सर्वाद्धारूपोऽतीतानागनवर्तमानरूपी वा, भावाश्च पञ्चसङ्ख्या औयिकादयः, तथा चाहभाष्यकृत्
"आएसोत्ति पगारो आघाएसेण सव्वदव्वाई। धम्मत्थिकाइआई जाणइ न उसव्वभावेणं ॥१॥ खत्तं लोकालोकं कालं संवुद्धमहव तिविहं वा।
पंचोदइयाईए भावे जं नेयमेवइयं ।।२।।" सम्प्रति संग्रहगाथां प्रतिपादयतिमू.(१२२) लगह ईहाऽवाओ य धारणा एव हुँति चत्तारि।
आभिनिबोहियनाणस्स भेयवत्थू समासेणं। वृ.'उग्गहो' इत्यादि अवग्रह:-प्राग्निरूपितशब्दार्थस्तथा ईहा अपायश्च, चशब्दः पृथगवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादयः परस्परं पर्याया न भवन्तीति भावार्थः, अथवा चशब्दः समुच्चये, तस्य च व्यवहितः प्रयागो धारणा चेत्येवं द्रष्टव्यः, एवकार: क्रमप्रदर्शनार्थः. 'एवम' एतेन क्रमेण 'समासन' संक्षेपणा चत्वारि आभिनिवोधिकज्ञानस्य भिद्यन्ते इति भदा विकल्प अंशा इत्यर्थः त एव वस्तुनि भवन्ति, तथाहि-नानवगृहीतमीह्यते नानीहितं निश्चीयते नानिश्चित्तं धार्यते इति । इदानीमेतेयामवग्रहादीनां स्वरूपं प्रतिपिपादयिपुराहमृ.(१२३) अत्थाणं उम्हणमि उग्रहो तह विआलणे ईहा।
ववसायंमि अवाओ धरणं पुन धारणबिति ।। वृ. अत्थाण'मित्यादि, अर्थानां- रूपादीनामवग्रहणंचशब्दोऽवग्रहणस्य अव्यक्तत्वसामान्यमात्रसामान्यविशेपविपयत्वापेक्षया स्वगतभेदबाहल्यसूचकः, अवग्रहं ब्रवते इति योगः, 'तथे'त्यानन्तर्ये विचारणं-पर्यालोचनमर्थानामिति वर्तते ईहा ब्रुवते, तथा विविधोऽवसायो व्यवसायोनिर्णयस्तं चार्थानामिति वर्तत अपायं ब्रुवते इति संसर्गः, धरणं पुनरर्थानामविच्युतिस्मृतिवासनारूपांधारणां ब्रवते तीर्थकरगणधराः, अनेन स्वमनीषिकाव्यदासमाह___ अन्ये त्वेवं पठन्ति-"अस्थाणं' उग्गहणंमि उग्गहो" इत्यादि, तरैवं व्याख्यानम्-अर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेषो भवतीत्येवं ब्रुवते, एवमीहादिप्वपि योजना कार्या, भावार्थः प्राग्वदेव! इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराहमू.(१२४) उग्गह इक्कं समयं ईहावाया मुहुत्तमद्धंतु।
कालमसंखं संखं च धारणा होइ नायव्वा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org