________________
मूलं - १२४
१७९
वृ. 'उग्गही' इत्यादि, अवग्रहः - अर्थावग्रही नैयिक एकसमयं यावद्भवति, समय: परमनिकृष्टः कालविभागः स च प्रवचनप्रतिपादितादुत्पलपत्रशतव्यतिभेदोदाहरणात्, जरत्पट्टशाटिकापाटनदृष्टान्तच्चावसेयः, व्यञ्जनावग्रहविशेषसामान्यार्थावग्रहौ तु पृथक् र अन्तर्मुहूर्तप्रमाणौ ज्ञातव्या, ईहा चापायश्च ईहापायी मुहूर्त्तार्द्ध ज्ञातव्या, मुहुत्तों घटिकाद्वयप्रमाणः कालविशेषः तस्यार्द्ध मुहूर्त्तार्द्ध, तुशब्दो विशेषणार्थः, स चैतद्विशिनष्टि - व्यवहारापेक्षया एतन्मुहूर्त्तार्द्धमित्युच्यते, परमार्थतः पुनरन्तर्मुहूर्त्तमवसेयं, अन्ये पुनरेवं पठन्ति - "मुहुत्तमंतं तु" तत्र मकारोऽलाक्षणिकः, तत एवं द्रष्टव्यं - मुहृतन्त:- मुहूर्त्तस्यान्तः - मध्यं मुहृतन्त:, अन्तर्मुहूर्त्तमित्यर्थः, इह 'पारे मध्येऽग्रेऽन्तः पष्ठया वे 'ति विकल्पेनान्तः शब्दस्य प्रा निपाती भवति, ततः सूत्रे ऽन्तः शब्दस्य प्राग्निपातो न विहितः, तथा धारणा कालमसङ्ख्य-पल्योपमादिलक्षणं सङ्ख्येयं च-वर्षादिरूपं यावद्भवति ज्ञातव्या, धारणा चेह वासनारूपा द्रष्टव्या, अविच्युतिस्मृति तु प्रत्येकमन्तुर्मुहूर्त्तप्रमाणे वंदितव्ये ।
मू. ( १२५ )
पुटुं सुणेड़ सद्दं रूवं पुण पासड़ अपुट्ठे तु । गंध रसं च फासं च बद्धपुङ्कं वियागरे ।।
वृ. तदेवमवग्रहादीनां स्वरूपमभिधाय श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिपुराह-'पुठ्ठे सुणेइ' इत्यादि, इह श्रोत्रेन्द्रियेण शब्दं शृणोति स्पृष्टं स्पृष्टमात्रं स्पृष्टं नाम आलिङ्गितं यथा तन रेणुसङ्घातः, अथ कथं स्पृष्टमात्रमेव शब्दं शृणोति ?, उच्यते, इह शेषेन्द्रियगणापेक्षया श्रोत्रेन्द्रियमतिशयेन पटु, तथा गन्धादिद्रव्यापेक्षया शब्दद्रव्याणि सूक्ष्माणि प्रभूतानि भावुकानि च. अत एव सर्वतस्तदिन्द्रियं प्राप्नुवन्ति, ततस्तानि स्पृष्टमात्राण्यपि श्रोत्रेन्द्रियेण गृहीतं शक्यन्ते, रूपं पुनः पश्यति अस्पृष्टमेव, तुरेवकारार्थः, अप्राप्यकारित्वाच्चक्षुयः, तथा गन्धं रसं च स्पर्श च. चशब्द समुच्चयार्थी, बद्धस्पृष्टं घ्राणादिभिरिन्द्रयैर्विनिश्चिनोतीति व्यागृणीयात् इह बद्धस्पृष्टमिति स्पृष्टबद्धमिति विज्ञेयं, प्राकृतशैल्या चान्यथा सूत्रे उपन्यासः, तत्र स्पृष्टमित्यानाऽऽलिङ्गितं बद्धं तोयवदात्मप्रदेशैरात्मीकृतं आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतमित्यर्थः ।
7
इह शब्दमुत्कर्पतो द्वादशयोजनेभ्य आगतं शृणोति त परतः, शेषाणि तु गन्धादिद्रव्याणि प्रत्येकं नवभ्यो २ योजनेभ्य आगतानि घ्राणादिभिरन्द्रियैर्गृह्णाति जीवो, न परतः परतः समागतानां द्रव्याणां मन्दपरिणामतया इन्द्रियग्राह्यत्वासम्भवात् जघन्यतस्तु शब्दादिद्रव्याणि अंगुलासङ्घयेयभागादागतानि, चक्षुषस्तु जघन्यतो योग्यो विषयोऽगुलसङ्ख्येयभागवत्ती वेदितव्यः, उत्कर्षतस्त्वात्मांगुलेन सातिरेको योजनलक्षः, एतदपि चाभासुरद्रव्यमधिकृत्योच्यते, भासुरं तु द्रव्यमेकविंशतियोजनलक्षेभ्योऽपि परतः पश्यंति, यथा पुष्करवरद्वीपार्द्ध मानुपोत्तरनगप्रत्यासन्नवर्त्तिनः कर्कसंक्रान्तौ सूर्यबिम्बं तथा चोक्तम्
“लक्खेहिं एगवीसाए सातिरेगेहिं पुक्खरर्द्धमि । उदए पेच्छंति नरा सूरं उक्कोसए दिवसे ॥"
अत्राह - ननु स्पृष्टं शृणोति शब्दमित्यक्तं, तत्र शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति उतान्यान्येव तद्भावितानि आहोश्चिन्मिश्राणीति ?, उच्यते, न तावत्केवलानि, यतो वासकानि शब्दद्रव्याणि शब्दयोग्यानि च द्रव्याणि सकललोकव्यापीनि ततोऽवश्यं तद्वासितानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org