SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० शृणोति मिश्राणि वा, न केवलान्येवोत्सृष्टानि, तथा चाह मू. ( १२६ ) भासासमसेढीओ सद्दं जं सुणइ मीसियं सुणइ । वीसेढी पुन सद्द सुणेइ नियमा पराघाए । } वृ. 'भासासमे 'त्यादि, भाष्यत इति भाषा - वाक् शब्दरूपतया उत्सृज्यमाना द्रव्यसन्ततिः सा वर्णात्मिका भेरी भाङ्कारादिरूपा वा द्रष्टव्या तस्याः समाः श्रेणयः श्रेणयो नाम क्षेत्र प्रदेशपंक्तयोऽभिधीयन्तं ताश्च सर्वस्यैव भाषामाणस्य षट्सु दिक्षु विद्यन्ते यासूत्सृष्टा सती भाषा प्रथमसमय एव लोकान्तमनुधावति, भाषासम श्रेणयः, समश्रेणिग्रहणं विश्रेणिव्यवच्छेदार्थ, भाषासम श्रेणी: इती-गतः प्राप्तो भाषासम श्रेणीतः, भाषासम श्रेणिव्यवस्थित इत्यर्थः, यं शब्दं पुरुषादिसम्बन्धिनं भर्यादिसम्बन्धिनं वा शृणोति यत्तदोर्नित्याभिसम्बन्धात्तं मिश्र शृणोति, उत्सृष्टशब्दद्रव्य भावितापान्तरालस्थद्रव्यमिश्रं शृणोतीति भावार्थ: । 'वीसढी' त्यादि, अत्रेत इति वर्त्तते, ततोऽयमर्थः --विश्रेणि पुनरितः प्राप्तो, विश्रेणिव्यवस्थितः पुनरित्यर्थः, अथवा विश्रेणिस्थितो वि श्रेणिरित्युच्यते, शब्दं शृणोति नियमात्पराधाते सति नान्यथा, किमुक्तं भवति ? - उत्सृष्टशब्दद्रव्यशब्दा (शब्दाद्रव्या) भिघातेन यानि वासितानि शब्दद्रव्याणि तान्येव केवलानि शृणोति, न कदाचिदपि उत्सृष्टानि, कुत इति चेद्, उच्यते, तेषामनुश्रेणिगमनात्प्रतिघाताभावाच्च । सम्प्रति विनेयजनसुखप्रतिपत्तये मतिज्ञानस्य पर्यायशब्दानिभिधित्सुहारमू. ( १२७ ) ईहा अपोह वीमंसा, मग्गणा य गवेसणा । सन्ना सई मई पन्ना, सव्वं अभिनिबोहिअं || वृ. 'ईह'त्यादि, एते ईहादयः शब्दा सर्वेऽपि परमार्थतो मतिवाचकाः पर्यायशब्दाः, परं विनेयजनबुद्धिप्रकाशनाय किञ्चिद्भेदाद् भेदोऽमीषां प्रदर्श्यते ईहनमीहा सदर्थपर्यालोचनं अपोहनमपोह: निश्चय इत्यर्थः, विमर्शनं विमर्शः - अपायादवांगीहायाः परिणामविशेष:, मार्गण मार्गणा-अन्वयधर्मान्विषणं, चः समुच्चये, गवेषणं गवेषणा-व्यतिरेकधर्मालोचनं, तथा संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः तथा स्मरणं स्मृतिः -पूर्वानुभूतालम्बनः प्रत्ययविशेष:, मननं मति-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्म्मालोचनरूपा बुद्धिः, प्रज्ञापनं प्रज्ञा - विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संवित्, सर्वमिदमाभिनिबोधिकं मतिज्ञानामित्यर्थः, मू. ( १२८ ) वृ. 'से तमि' त्यादि, तदेतदाभिनिबोधिकज्ञानं । सेतं आभिनिबोहिअनाणपरोक्खं ॥ Jain Education International - नन्दी - चूलिकासूत्रं For Private & Personal Use Only साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासया शिष्यः प्रश्नयतिमू. ( १२९ ) से किं तं सुयनाणपरोक्खं ?, सुयनाणपरोक्खं चोद्दसविहं पन्नत्तं, तंजहाअक्खरसुयं १ अनक्खरसुयं २ सण्णिसुयं ३ असण्णिसुअं४ सम्मसुअं५ मिच्छसुअं६ साइअं ७ अनाइअं ८ सपज्जवसिअं ९ अपज्जवसिअं १० गमिअं ११ अगमिअं १२ अंगपविट्टं १३ अनंगपविट्टं १४ । वृ. अथ किं तच्छ्रुतज्ञानं ?, आचार्य आह- श्रुतज्ञानं चतुर्द्दशविधं प्रज्ञप्तं, तद्यथा - अक्षरश्रुतमनक्षरश्रुतं संज्ञिश्रुतमसंज्ञि श्रुतं सम्यक् श्रुतं मिथ्या श्रुतं सादि अनादि सपर्यवसितमपर्यवसितं -7 www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy