________________
मूलं - १२९
१८१
गमिकमरामिकङ्गप्रविष्टमनङ्गप्रविष्टं च । ननु अक्षरश्रुतानक्षरश्रुतरूप एवं भेदद्वये अन्तर्भवन्ति र्तात्कमर्थं तेषां भेदोपन्यासः ?, उच्यते, इहाव्युत्पन्नमतीनां विशेषावगमसम्पादनाय महात्मनां शास्त्रारम्भप्रयासो, न चाश्क्षरश्रुतानक्षरश्रुतरूपभेदद्वयापन्यासमात्रादव्युत्पन्नमतयः शेपभेदानवगन्तुमीशते, ततोऽव्युत्पन्नमतिविनेयजनानुग्रहाय शेपभेदोपन्यास इति ।
साम्प्रतमुपन्यस्ताना भेदानां स्वरूपमनवगच्छन् आद्यं भेदमधिकृत्य शिष्यः प्रश्नं करोतिमू. ( १३० ) से किं तं अक्खरसुअं? अक्खरसुअंतिविहं पन्नत्तं, तंजहा- सन्नक्खरं वंजणक्खरं लद्धिअक्खरं, से किं तं सन्नक्खरं ? २ अक्खरस्स संठाणागिई, संत्तं सन्नक्खरं । से किं तं वंज-णक्खरं?, वंजणक्खरं अक्खरस्स वंजणाभिलावां, से तं वंजणक्खरं। से किं तं लद्धिअक्खरं?. लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पज्जइ, तंजहा- सोइंदिअलद्धिअक्बरं चक्खिदियलद्धिअक्खरं रसनिदियलद्धिअक्खरं फासिंदियलद्धि अक्खरं नोइंदियलद्धि अक्खरं सं तं लद्धिअक्खरं, से तं अक्खरसुअं । से किं तं अनक्खरसुअं ?, अनक्खरसूअं अनेगविहं पत्रतं, तंजहा
-
वृ. अथ किं तदक्षरश्रुतं ? सूरिराह- अक्षरश्रुतं त्रिविधं प्रज्ञप्तं, तद्यथा-सञ्ज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरंच, तत्र ‘क्षरसञ्चलने 'न क्षरति न चलतीत्यक्षरं ज्ञानं तद्धि जीवास्वाभाव्यादनुपयो - गेsपि तत्त्वतो न प्रच्यते, यद्यपि च सर्वं ज्ञानमविशेषेणाक्षरं प्राप्नोति तथाऽपीह श्रुतज्ञानस्य प्रस्तावादक्षरं श्रुतज्ञानमेव द्रष्टव्यं, न शेषं. इत्थम्भूतभावाक्षरकारणं वाऽकारादि वर्णजातं ततस्तदप्युपचारादक्षरमुच्यतेप ततश्चाक्षरं च तच्छ्रुतं च श्रुतज्ञानं च अक्षरश्रुतं, भावश्रुतमित्यर्थ:, तच्च लब्ध्यक्षरं वेदितव्यं तथाऽक्षरात्मकमकारादिवर्णात्मकं श्रुतमक्षरश्रुतं द्रव्यश्रुतमित्यर्थः, तच्च सञ्ज्ञाक्षरं व्यञ्जनाक्षरं च द्रष्टव्यं,
अथ किं तत्सञ्ज्ञाक्षरं ?, अक्षरस्याकारादेः, संस्थानाकृतिः - संस्थानाकार:, तथाहिसञ्ज्ञायते ऽनयेति सञ्ज्ञा नाम तन्निबन्धनं तत्कारणमक्षरं संज्ञाक्षरं संज्ञाक्षरं संज्ञायाश्च निबन्धनमाकृतिविशेषः, आकृतिविशेष एव नाम्न: करणाद्वयवहरणाच्च ततोऽक्षरस्य पट्टिकादी संस्थापितस्य संस्थानाकृतिः संज्ञाक्षरमुच्यते तच्च ब्राह्म्यादिलिपिभेदतोऽनेकप्रकारं, तत्र नागरीं लिपिमधिकृत्य किञ्चित्प्रदर्श्यते मध्ये स्फाटितचुल्लीसन्निवेशसदृशो रेखासन्निवेशो मकारो वक्रीभृतश्चपुच्छसन्निवंशसदृशो ढकार इत्यादि, 'से तामि' त्यादि, तदेतत् संज्ञाक्षरं ।
अथ किं तद्वयञ्जनाक्षरं ?, आचार्य आह- व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलाप:, तथाहिव्यज्यतेऽनेनार्थ: प्रदीपेनेव घटइति व्यञ्जनं-भाष्यमाणमकारादिकं वर्णजातं, तस्य विवक्षितार्थाभिव्यञ्जकत्वात्, व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरं ततो युक्तमुक्तं व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलाप:, अक्षरस्याकारदेर्वर्णजातस्य व्यञ्जनेन - अत्र भावे अनव्यञ्जकत्वेनाभिलापः - उच्चारणं, अर्थव्यञ्जकत्वेनोच्चार्यमाणमकारादिवर्णजातमित्यर्थः ।
'से किं तमित्यादि, अथ किं तल्लब्ध्यक्षरं ?, लब्धि: - उपयोगः स चेह प्रस्तावात् शब्दार्थपर्यालोचनानुसारी गृह्यते, लब्धिरूपमक्षरं लब्ध्यक्षरं, भावश्रुतमित्यर्थः, 'अक्खरलद्धियस्से' त्यादि, अक्षरे - अक्षरस्योच्चारणेऽवगमे वा लब्धिर्यस्य सोऽक्षरलब्धिकः तस्य, अकाराद्यक्षरानुविद्ध श्रुतलब्धिसमन्वितस्येत्यर्थः, लब्ध्यक्षरं भावश्रुतं समुत्पद्यते, शब्दादिग्रहणसम
For Private & Personal Use Only
Jain Education International
-
-
-
www.jainelibrary.org