________________
मूलं-१२०
१७७ तदाऽबहवग्रहः, तथा शङ्गपटहादिनानाशब्दसमूहमध्ये एकैकं शब्दमनक: पर्यायः स्निग्धगाम्भीयादिभिविष्टं यथास्थितं यदाऽवगृह्णाति तदा स बहुविधावग्रहः, यदा त्वेकमनेकं वा शब्दमेकपर्यायविशिष्टमवगृह्णाति तदा सोऽबहुविधावग्रह:, यदा तु अचिरा जानाति तदा स क्षिप्रावग्रहः, यदा तुचिरण तदाऽक्षिप्रावग्रहः, तमेव शब्दं स्त्ररूपेण यदा जानाति न लिङ्गपरिग्रहात् तदाऽनिश्रितावग्रह:, लिङ्गपरिग्रहेण त्ववगच्छतो निश्रितावग्रहः. अथवा परधर्मविमिश्रितं यद्ग्रहणं तन्मिश्रितावग्रहः, यत्पुनः परधर्मेरमिश्रितस्य ग्रहणं तदमिश्रितावग्रहः, तथा निश्चितमवगणतो निश्चितावग्रहः, सन्दिग्धमवगृह्णत: सन्दिाधावग्रह:. सर्वदैव वह्वदिरूपेणावगृह्णतो ध्रुवावग्रहः, कदाचिदेव पुनबह्वादिरूपेणावगृह्णतोऽध्रुवावग्रह:, एप च बहुबहुविधादिरूपोऽवग्रहो विशेषसामान्यावग्रहरूपे द्रष्टव्यः, नैश्चयिकस्यावग्रहस्य सकलविशेपनीरपेक्षानिर्देश्यसामान्यमात्रग्राहिण एकसामायिकस्य बहुविधादिविशेपग्राहकत्वासम्भवात, बह्लादीनामनन्तरीक्तं व्याख्यानं भाष्यकारोऽपिंप्रमाणयति
"नाणासद्दसमूहं बहुविहं सुणेइ भिन्नजातीयं ।
बहुविहमनेगभूयं एक्के कं निद्धमहराइ ।।१।। खिप्पमचिरेण तं चिय सरूवओ जमनिस्सियमलिंग।
निच्छियमसंसयं जं धुवमच्चंतं न उकयाइ ।।२।। एत्तो च्चिय पडिवखं साहेज्जा निस्सिए विसेसोऽयं ।
परधम्मेहि विमिस्सं मिस्सियमविमिस्सियं इयरं।।३।। यदा पुनरालोकस्य मन्दमन्दतरमन्दतमस्पष्टस्यष्टतरस्पष्टतमत्वादिभेदतो विषयस्याल्पत्य - महत्त्वसन्त्रिकर्षादिभेदतः क्षयोपशमस्य च तारतम्यभेदतो भिद्यमानं मतिज्ञानं चिन्त्यते तदा तदनन्तभेदं प्रतिपत्तव्यम्।।
सम्प्रति पुनद्रव्यादिभेदतश्चतुःप्रकारतामाह -
मू. (१२१)तं समासओ चउब्विहं पन्नत्तं, तंजहा-दब्बओ खित्तओ कालओ भावओ, तत्थादव्यओ णं आभिनिबोहिअनाणी आएसेणं सव्वाइंदब्वाई जाणइ न पासइ, खेत्तओ णं आभिनिबोहिनाणी आएसेणं सव्वं खेत्तं जाणइ न पासइ, कालओ णं आभिनिबोहिअनाणी आएसेणं सव्वकालं जाणइ न पासइ, भावओ णं आभिनिबोहिअनाणी आएसेणं सच्चे भावे जाणइ न पास।
वृ. 'तं समासओ' इत्यादि, 'तत्' मतिज्ञानं 'समासतः' संक्षेपेण चतुर्विधं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'ण'मिति वाक्यालङ्काकरे, आभिनिबोधिकज्ञानी आदेसेणं'ति आदेशः-प्रकारः, सच द्विधा-सामान्यरूपोविशेषरूपश्च, तत्रेह सामान्यरूपो ग्राह्यः, तत आदेशेनद्रव्यजातिरूपसामान्यादेशेन सर्वद्रव्याणि-धर्मास्तिकायादीनी जानाति किञ्चिद्विशेषतोऽपि, यथा धर्मास्तिकायो धर्मास्तिकायस्य प्रदेशः तथा धर्मास्तिकायो गत्युपष्टम्भहेतुरमृतॊ लोकाकाशप्रमाण इत्यादि, न पश्यति-सर्वात्मना धर्मास्तिकायादीन पश्यति, घटादींस्तु योग्यदेशावस्थितान् पश्यत्यपि, अथवा आदश इति-सूत्रादेशस्तस्मात्सुत्रादेशात्सर्वव्याणि धर्मास्तिकायादीनि जानाति, न तु साक्षात् सर्वाणि पश्यति, ननु यत्सूत्रादेशतो ज्ञानमुपजायते तच्छृतज्ञानं भवति तस्य [30/12
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org