SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १७६ नन्दी-चूलिकासूत्रं नियमात्तद्वस्तु निश्चिनोति, यदि पुनर्वस्तु दुर्बोधं न च तथाविधो विशिष्टो मतिज्ञानावरणक्षयोपशमस्मत ईहोपयोगदच्युतः पुनरप्यन्तर्मुहूर्त्तकालमीहते, एवमीहोपयोगविच्छेदेन प्रभृतान्यन्तर्मुहत्तानि यावदीहते तत ईहानन्तरं जानाति-अमुक एपोऽर्थः शब्द इति, इदं च ज्ञानमत्रायरूपं, ततोऽस्मिन् ज्ञान प्रादुर्भवति 'ण'मिति वाक्यालङ्कारेऽपायं प्रविशति, ततः 'से' तस्य उपगतम्अविच्युत्या सामीप्येनात्मनि परिणतं भवति, ततो धारणां-वासनारूपा प्रविशति, सङ्ख्येयसङ्खयेयं वा कालम्। ___ 'एवम्' अनेन क्रमप्रकारेण एतेन पूर्वदर्शितेनाभिलापेन शेपेप्वपि चक्षुरादिष्विन्द्रियेषु अवग्रहादयो वाच्याः, नवरं अभिलापविषये अवत्तं सदं सुणेञ्जा' इत्यस्य स्थाने 'अवत्तं रूवं पासेज्जा' इति वक्तव्यं, उपलक्षणमेतत् तेन सर्वत्रापि शब्दस्थाने रूपमिति वक्तव्यं, तद्यथा'तेणं रूवित्ति उग्गहिए नो चेवणं जाणइ केवेस रूवित्ति?. ततो ईहं पविसइ, ततो जाणइ अमुगे एस रूवेत्ति, ततो अवायं पविसई' इत्यादि तदवस्थमेव, नवरमिह व्यञ्जनावग्रहो न व्याख्येयः, अप्राप्यकारित्वाच्चक्षुषः, घ्राणेन्द्रियादिषु तु व्याख्येयः, एवं तु प्राणेन्द्रियविषये-'अव्वत्तं गंधं अग्धाइज्जा' इत्यादि वक्तव्यं, जिह्वेन्द्रियविषये अव्वत्तं रसं आसाइज्जा' इत्यादि, स्पर्शनेन्द्रियविषये 'अव्वत्तं फासं पडिसंवेइज्जा' इत्यादि, यथा च शब्द इति निश्चिते तदुत्तरकालमुत्तरधर्मजिज्ञासायां किं शाङ्कः ? किं वा शाङ्गः? इत्येवंरूपा ईहा प्रवर्तते तथा रूपमिति निश्चिते तदुत्तरकालमुत्तरधर्मजिज्ञासायां स्थाणुः किं वा पुरुषः ? इत्यादिरूपा(सा) प्रवर्तते, एवं घ्राणेन्द्रियादिष्वपि समानगन्धादीनि वस्तूनि ईहाऽऽलम्बनानि वेदितव्यानि, आह च भाष्यकृत "सेसेसुविरूवाइसुविसएसु होतिरूवलक्खाई। पायं पच्चासनत्तणेण ईहाए वत्थूणि ॥१॥ थाणुपुरिसाइ कुट्ठप्पलादि संभियकरिल्लमसाइ। सप्पुप्पलनालाइ व समाणरूवाइ विसयाई॥२॥" 'से जहानामए'त्यादि, स यधानामकः कोऽपि पुरुषोऽव्यक्तं स्वप्नं प्रतिसंवेदयेत्, व्यक्तं नाम सकलविशेषविकलनिर्देश्यमितियावत् स्वप्नमिति प्रज्ञापक: सूत्रकारो वदति, सतु प्रतिपत्ता स्वप्नादिव्यक्तिविकलं किञ्चिदनिर्देश्यमेव तदानीं गृह्णाति, तथाऽनेन प्रतिपन्त्रा 'सुविणोत्ति उपगहिए'त्ति स्वप्नमिति अवगृहीतं, अत्रापि स्वप्न इति प्रज्ञापको वदति, स तु प्रतिपत्ता अशेषविशेषवियुक्तमेवावगृहीतवान्, तथा चाह-न पुनरेवं जानाति-क एषस्वप्न इति?, स्वप्न इत्यपि तमर्थं न जानातीति भावः, तत ईहां प्रविशतीत्यादि प्राग्वत्, एवं स्वप्नमधिकृत्य नोइन्द्रियस्यार्थावग्रहादयः प्रतिपादिताः।। __ अनेन चोल्लेखेनान्यत्रापि विषये वेदितव्याः, तदेवं मल्लकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणां कुर्वता प्रसङ्गतोऽष्टविंशतिसङ्घया अपि मतिज्ञानस्य भेदाः सप्रपञ्चमुक्ताः, सम्प्रति मल्लकदृष्टान्तमुपसंहरति-'सेत्तं मल्लगदिटुंतेश' एवं मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा । एते चावग्रहादयोऽष्टविंशतिभेदाः प्रत्येकं बह्वादिभिः सेतरैः सर्वसङ्घयया द्वादशसङ्घयैर्भेदेभिद्यमाना यदा विवक्षयन्ते तदा षट्त्रिंशदधिकं भेदानां शतत्रयं भवति, तत्र बह्वादय: शब्दमधिकृत्य भाव्यन्ते-शङ्खपटहादिनानाशब्दसमूहपृथगेकैकं यदाऽवगृह्णाति तथा बह्ववग्रहः, यदा त्वेकमेव कञ्चिच्छब्दमवगृह्णाति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy