Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 184
________________ मूलं - १२९ १८१ गमिकमरामिकङ्गप्रविष्टमनङ्गप्रविष्टं च । ननु अक्षरश्रुतानक्षरश्रुतरूप एवं भेदद्वये अन्तर्भवन्ति र्तात्कमर्थं तेषां भेदोपन्यासः ?, उच्यते, इहाव्युत्पन्नमतीनां विशेषावगमसम्पादनाय महात्मनां शास्त्रारम्भप्रयासो, न चाश्क्षरश्रुतानक्षरश्रुतरूपभेदद्वयापन्यासमात्रादव्युत्पन्नमतयः शेपभेदानवगन्तुमीशते, ततोऽव्युत्पन्नमतिविनेयजनानुग्रहाय शेपभेदोपन्यास इति । साम्प्रतमुपन्यस्ताना भेदानां स्वरूपमनवगच्छन् आद्यं भेदमधिकृत्य शिष्यः प्रश्नं करोतिमू. ( १३० ) से किं तं अक्खरसुअं? अक्खरसुअंतिविहं पन्नत्तं, तंजहा- सन्नक्खरं वंजणक्खरं लद्धिअक्खरं, से किं तं सन्नक्खरं ? २ अक्खरस्स संठाणागिई, संत्तं सन्नक्खरं । से किं तं वंज-णक्खरं?, वंजणक्खरं अक्खरस्स वंजणाभिलावां, से तं वंजणक्खरं। से किं तं लद्धिअक्खरं?. लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पज्जइ, तंजहा- सोइंदिअलद्धिअक्बरं चक्खिदियलद्धिअक्खरं रसनिदियलद्धिअक्खरं फासिंदियलद्धि अक्खरं नोइंदियलद्धि अक्खरं सं तं लद्धिअक्खरं, से तं अक्खरसुअं । से किं तं अनक्खरसुअं ?, अनक्खरसूअं अनेगविहं पत्रतं, तंजहा - वृ. अथ किं तदक्षरश्रुतं ? सूरिराह- अक्षरश्रुतं त्रिविधं प्रज्ञप्तं, तद्यथा-सञ्ज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरंच, तत्र ‘क्षरसञ्चलने 'न क्षरति न चलतीत्यक्षरं ज्ञानं तद्धि जीवास्वाभाव्यादनुपयो - गेsपि तत्त्वतो न प्रच्यते, यद्यपि च सर्वं ज्ञानमविशेषेणाक्षरं प्राप्नोति तथाऽपीह श्रुतज्ञानस्य प्रस्तावादक्षरं श्रुतज्ञानमेव द्रष्टव्यं, न शेषं. इत्थम्भूतभावाक्षरकारणं वाऽकारादि वर्णजातं ततस्तदप्युपचारादक्षरमुच्यतेप ततश्चाक्षरं च तच्छ्रुतं च श्रुतज्ञानं च अक्षरश्रुतं, भावश्रुतमित्यर्थ:, तच्च लब्ध्यक्षरं वेदितव्यं तथाऽक्षरात्मकमकारादिवर्णात्मकं श्रुतमक्षरश्रुतं द्रव्यश्रुतमित्यर्थः, तच्च सञ्ज्ञाक्षरं व्यञ्जनाक्षरं च द्रष्टव्यं, अथ किं तत्सञ्ज्ञाक्षरं ?, अक्षरस्याकारादेः, संस्थानाकृतिः - संस्थानाकार:, तथाहिसञ्ज्ञायते ऽनयेति सञ्ज्ञा नाम तन्निबन्धनं तत्कारणमक्षरं संज्ञाक्षरं संज्ञाक्षरं संज्ञायाश्च निबन्धनमाकृतिविशेषः, आकृतिविशेष एव नाम्न: करणाद्वयवहरणाच्च ततोऽक्षरस्य पट्टिकादी संस्थापितस्य संस्थानाकृतिः संज्ञाक्षरमुच्यते तच्च ब्राह्म्यादिलिपिभेदतोऽनेकप्रकारं, तत्र नागरीं लिपिमधिकृत्य किञ्चित्प्रदर्श्यते मध्ये स्फाटितचुल्लीसन्निवेशसदृशो रेखासन्निवेशो मकारो वक्रीभृतश्चपुच्छसन्निवंशसदृशो ढकार इत्यादि, 'से तामि' त्यादि, तदेतत् संज्ञाक्षरं । अथ किं तद्वयञ्जनाक्षरं ?, आचार्य आह- व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलाप:, तथाहिव्यज्यतेऽनेनार्थ: प्रदीपेनेव घटइति व्यञ्जनं-भाष्यमाणमकारादिकं वर्णजातं, तस्य विवक्षितार्थाभिव्यञ्जकत्वात्, व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरं ततो युक्तमुक्तं व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलाप:, अक्षरस्याकारदेर्वर्णजातस्य व्यञ्जनेन - अत्र भावे अनव्यञ्जकत्वेनाभिलापः - उच्चारणं, अर्थव्यञ्जकत्वेनोच्चार्यमाणमकारादिवर्णजातमित्यर्थः । 'से किं तमित्यादि, अथ किं तल्लब्ध्यक्षरं ?, लब्धि: - उपयोगः स चेह प्रस्तावात् शब्दार्थपर्यालोचनानुसारी गृह्यते, लब्धिरूपमक्षरं लब्ध्यक्षरं, भावश्रुतमित्यर्थः, 'अक्खरलद्धियस्से' त्यादि, अक्षरे - अक्षरस्योच्चारणेऽवगमे वा लब्धिर्यस्य सोऽक्षरलब्धिकः तस्य, अकाराद्यक्षरानुविद्ध श्रुतलब्धिसमन्वितस्येत्यर्थः, लब्ध्यक्षरं भावश्रुतं समुत्पद्यते, शब्दादिग्रहणसम For Private & Personal Use Only Jain Education International - - - www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265