Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 197
________________ १९४ नन्दी-चूलिकासूत्रं त्मकस्याकारस्य तत्त्वतो ज्ञातत्वायोगादिति, आह च भाष्यकृत् "जेसु अनाएसु तओ न नज्जए नज्जए य नाएसुं। कह तस्य ते न धम्मा?,घडस्सरूवाइधम्मव्य ।।" तस्माद् घटादिपर्याया अपि अकारस्य सम्बन्धिन इति स्वपरपर्यायापेक्षयाऽकारः सर्वद्रव्यपर्यायपरिमाणः, एवमाकारादयोऽपि वर्णाः सर्वे प्रत्येकं सर्वद्रव्यपर्यायपरिमाणा वेदितव्याः, एवं घटादिकमपि प्रत्येकं सर्वं वस्तुजातं परिभावनीयं, न्यायस्य समानत्वात्, न चैतदनार्ष, यत उक्तमाचाराङ्गे-"जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ" अस्यायमर्थ:यएकं वस्तूपलभत सर्वपर्यायैः स नियमात्सर्वमुपलभते, सर्वोपलब्धिमन्तरेण विवक्षितस्यैकस्य स्वपरपर्यायभेदभिन्नतया सर्वात्मनाऽवगन्तुमशक्यत्वात्, यश्च सर्वं सर्वात्मना साक्षादपलभते स एकं स्वपरपर्यायभेदभिन्नं जानाति, तथाऽन्यत्राप्युक्तम् "एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा, एको भाव: सर्वथा तेन दृष्टः॥" तदेवमकारादिकमपि वर्णजातं केवलज्ञानमिव सर्वद्रव्यपर्यायपरिणाममिति न कश्चिद्विरोधः । अपिच-केवलज्ञानमपि स्वपरपर्यायभेदभिन्नं, यतस्तदात्मस्वभावरूपं नघटादिवस्तुस्वभावात्मकं, ततो ये घटादिस्वपर्यायस्ते तस्य परपर्यायाः, ये तु परिच्छेदकत्वस्वभावास्ते स्वपर्यायाः, परपर्याया अपी च पूर्वोक्तयुक्तेस्तस्य सम्बन्धिन इति स्वपरपर्यायभेदभित्रं, तथा चाह भाष्यकृत् "वत्थुसहावं पइ तंपि सपरपज्जायभेदभिन्नं तु। तंजेन जीयभावो भिन्ना यतओ घडाईया।" ततः पर्यायपरिमाणचिन्तायां परमार्थतो न कश्चिदकारादिश्रुतकेवलज्ञानयोविशेषः, अयं तु विशेष:-केवलज्ञानं स्वपर्यायैरपि सर्वद्रव्यपर्यायपरिमाणतुल्यमकारादिकं तु स्वपरपर्यायैरेव, तथाहि-अकायस्य स्वपर्यायाः सर्वद्रव्यपर्यायाणामनन्ततमभागकल्पाः, परपर्यायास्तुस्वपर्यायरूपानन्ततमभागोनाः सर्वद्रव्यपर्यायाः, ततः स्वपरपर्यायैरेव सर्वद्रव्यपर्यायपरिमाणमकारादिकं भवति, आह च भाष्यकृत् __"सय पज्जाएहि उ केवलेन तुलं न होइन परेहि। सयपरपज्जाएहिं तु तं तुलं केवलेनेव॥" यथा चाकारादिकं सर्वद्रव्यपर्यायपरिमाणं तथा मत्यादीन्यपि ज्ञानानि द्रष्टव्यानि, न्यायस्य समानत्वात्, इह यद्यपि सर्वं ज्ञानमविशेषेणाक्षरमुच्यते सर्वद्रव्यपर्यायपरिमाणं च भवति तथापि श्रुताधिकारादिहाक्षरश्रुतज्ञानमक्सेयं, श्रुतज्ञानं च मतिज्ञानाविनाभूतं ततो मतिज्ञानमपि, तदेवं यतः श्रुतज्ञानमकारादिकं चोत्कर्षतः सर्वद्रव्यपर्यायपरिमाणं तच्च सर्वोत्कृष्टश्रुतकेवलिनो द्वादशाङ्गविदः सङ्गच्छते, नशेषस्य, ततोऽनादिभावः श्रुतस्य जन्तूनां जघन्यो मध्यमो वा द्रष्टव्यो, न तूतकृष्ट इति स्थितम्। अपरआह-नन्वनादिभाव एव श्रुतस्य कथमुपपद्यते?, यावता याद प्रबल श्रुतज्ञानावरणस्त्यानर्द्धिनिद्रारूपदर्शनावरणादयः सम्भवन्ति तदा सम्भाव्यते साकल्येन श्रुतस्यावरणं, यथाऽव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265