________________
१९४
नन्दी-चूलिकासूत्रं त्मकस्याकारस्य तत्त्वतो ज्ञातत्वायोगादिति, आह च भाष्यकृत्
"जेसु अनाएसु तओ न नज्जए नज्जए य नाएसुं।
कह तस्य ते न धम्मा?,घडस्सरूवाइधम्मव्य ।।" तस्माद् घटादिपर्याया अपि अकारस्य सम्बन्धिन इति स्वपरपर्यायापेक्षयाऽकारः सर्वद्रव्यपर्यायपरिमाणः, एवमाकारादयोऽपि वर्णाः सर्वे प्रत्येकं सर्वद्रव्यपर्यायपरिमाणा वेदितव्याः, एवं घटादिकमपि प्रत्येकं सर्वं वस्तुजातं परिभावनीयं, न्यायस्य समानत्वात्, न चैतदनार्ष, यत उक्तमाचाराङ्गे-"जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ" अस्यायमर्थ:यएकं वस्तूपलभत सर्वपर्यायैः स नियमात्सर्वमुपलभते, सर्वोपलब्धिमन्तरेण विवक्षितस्यैकस्य स्वपरपर्यायभेदभिन्नतया सर्वात्मनाऽवगन्तुमशक्यत्वात्, यश्च सर्वं सर्वात्मना साक्षादपलभते स एकं स्वपरपर्यायभेदभिन्नं जानाति, तथाऽन्यत्राप्युक्तम्
"एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः ।
सर्वे भावाः सर्वथा येन दृष्टा, एको भाव: सर्वथा तेन दृष्टः॥" तदेवमकारादिकमपि वर्णजातं केवलज्ञानमिव सर्वद्रव्यपर्यायपरिणाममिति न कश्चिद्विरोधः । अपिच-केवलज्ञानमपि स्वपरपर्यायभेदभिन्नं, यतस्तदात्मस्वभावरूपं नघटादिवस्तुस्वभावात्मकं, ततो ये घटादिस्वपर्यायस्ते तस्य परपर्यायाः, ये तु परिच्छेदकत्वस्वभावास्ते स्वपर्यायाः, परपर्याया अपी च पूर्वोक्तयुक्तेस्तस्य सम्बन्धिन इति स्वपरपर्यायभेदभित्रं, तथा चाह भाष्यकृत्
"वत्थुसहावं पइ तंपि सपरपज्जायभेदभिन्नं तु।
तंजेन जीयभावो भिन्ना यतओ घडाईया।" ततः पर्यायपरिमाणचिन्तायां परमार्थतो न कश्चिदकारादिश्रुतकेवलज्ञानयोविशेषः, अयं तु विशेष:-केवलज्ञानं स्वपर्यायैरपि सर्वद्रव्यपर्यायपरिमाणतुल्यमकारादिकं तु स्वपरपर्यायैरेव, तथाहि-अकायस्य स्वपर्यायाः सर्वद्रव्यपर्यायाणामनन्ततमभागकल्पाः, परपर्यायास्तुस्वपर्यायरूपानन्ततमभागोनाः सर्वद्रव्यपर्यायाः, ततः स्वपरपर्यायैरेव सर्वद्रव्यपर्यायपरिमाणमकारादिकं भवति, आह च भाष्यकृत्
__"सय पज्जाएहि उ केवलेन तुलं न होइन परेहि।
सयपरपज्जाएहिं तु तं तुलं केवलेनेव॥" यथा चाकारादिकं सर्वद्रव्यपर्यायपरिमाणं तथा मत्यादीन्यपि ज्ञानानि द्रष्टव्यानि, न्यायस्य समानत्वात्, इह यद्यपि सर्वं ज्ञानमविशेषेणाक्षरमुच्यते सर्वद्रव्यपर्यायपरिमाणं च भवति तथापि श्रुताधिकारादिहाक्षरश्रुतज्ञानमक्सेयं, श्रुतज्ञानं च मतिज्ञानाविनाभूतं ततो मतिज्ञानमपि, तदेवं यतः श्रुतज्ञानमकारादिकं चोत्कर्षतः सर्वद्रव्यपर्यायपरिमाणं तच्च सर्वोत्कृष्टश्रुतकेवलिनो द्वादशाङ्गविदः सङ्गच्छते, नशेषस्य, ततोऽनादिभावः श्रुतस्य जन्तूनां जघन्यो मध्यमो वा द्रष्टव्यो, न तूतकृष्ट इति स्थितम्।
अपरआह-नन्वनादिभाव एव श्रुतस्य कथमुपपद्यते?, यावता याद प्रबल श्रुतज्ञानावरणस्त्यानर्द्धिनिद्रारूपदर्शनावरणादयः सम्भवन्ति तदा सम्भाव्यते साकल्येन श्रुतस्यावरणं, यथाऽव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org