________________
मूलं-१३६ सम्बन्धेन सम्बद्धाः अत एव च ते परपर्याया इतिव्यपदिश्यन्ते, अन्यथा तेषामपि तत्रास्तित्वसंभवात् स्वपर्याया एव ते भवेयुः, ननु ये यत्र न विद्यन्ते ते कथं तस्येति व्यपदिश्यन्ते?, न खलु धनं दरिद्रस्य न विद्यते इति तत्तस्य सम्बन्धि व्यपदेष्टुं शक्यं, मा प्रापत् लोकव्यवहारातिक्रमः, तदेतत् महामोहमूढमनस्कतासूचकं, यतो यदि नाम ते नास्तित्वसम्बन्धमधिकृत्य तस्येति न व्यपदिश्यन्ते तहि सामान्यतो न सन्तीति प्राप्त, तथा च स्वरूपेणापि न भवेयुः,न चैतदृष्टमिष्टं वा, तस्मादवश्यं ते नास्तित्वसम्बन्धमङ्गीकृत्य तस्येति व्यपदेश्याः, धनमपि च नास्तित्वसम्बन्धमधिकृत्य दरिद्रस्येति व्यपदिश्यत एव,
तथा च लोके वक्तारो-धनमस्य दरिद्रस्य न विद्यते इति, यदपि चोक्तं-'न तत्तस्येति व्यदेष्टुं शक्य'मिति तत्रापि तदस्तित्वेन तस्येति व्यपदेष्टुं न शक्यं, न पुनर्नास्तित्वेनापि, ततो न कश्चिलौकिकव्यवहारातिक्रमः, ननु नास्तित्वमभावः अभावश्च तुच्छरूपः तुच्छत्वेन च सह कथं सम्बन्धः?, तुच्छस्य सकलशक्तिविकलतया सम्बन्धशक्तेरप्यभावात्, अन्यच्च-यदि परपर्यायाणां तत्र नास्तित्वं तीं नास्तित्वेन सह सम्बन्धो भवतु, परपर्यायैस्तु सह कथं?, न खलु घटः पटाभावेन सम्बद्धः पटेनापि सह सम्बद्धौ भवितुमर्हति, तथाप्रतीतेरभावात्, तदेतदसमीचीनं, सम्यक्वस्तुतत्त्वापरिज्ञानात्, तथाहि-नास्तित्वं नाम तेन तेन रूपेणाभवनमिष्यते, तच्च तेन तेन रूपेणाभवनं वस्तुनो धर्मः, ततो नैकान्तेन तत्तुच्छरूपमिति न तेन सह सम्बन्धाभावः, तदपि च तेन तेन रूपेणाभवनं तं तं पर्यायमपेक्ष्य भवति, नान्यथा तथाहि
यो यो घटादिगतः पर्यायस्तेन तेन रूपेण मया न भवितव्यमिति सामर्थ्यात्तं तं पर्यायमपेक्षते इति सुप्रतीतमेतत्, ततस्तेन तेन पर्यायेणाभवनस्यतंततं पर्यायमपेक्ष्य सम्भवात्तेऽपि परपर्यायस्तस्योपगोगिन इति तस्येति व्यपदिश्यन्ते, एवंरूपायां च विवक्षायां पटोऽपि घटस्य सम्बन्धी भवत्येव, पटमपेक्ष्य घटे पटरूपेणाभवनस्य भावात्. तथा चलौकिका अपि घटपटादीन् परस्परमितरेतराभावमधिकृत्य सम्बद्धान् व्यवहरन्तीत्यविगीतमेतत्, इतश्च ते परपर्यायास्तस्येति व्यपदिश्यन्ते-स्वपर्यायविशेषणत्वेन तेषामुपयोगात्, इहये यस्य स्वपर्यायविशेषणत्वेनोपयुज्यन्ते ते तस्य पर्याया यथा घटस्य रूपादयः पर्याया: परस्परविशेषकाः, उपयुज्यन्ते चाकारास्य पर्यायाणां विशेषकतया घयदिपर्यायास्तानन्तरेण तेषां स्वपर्यायव्यपदेशासम्भवात्, तथाहि-यदिते परपर्याया न भवेयुस्तयकारस्य स्वपर्यायाः स्वपर्याया इत्येवं न व्यपदिश्येरन्, परापेक्षया स्वस्वपदेशस्य भावात्, ततः स्वपर्यायव्यपदेशकारणतया तेऽपि परपर्यायाः तस्योपयोगिन इति तस्येति व्यपदिश्यन्ते, अपिच
सर्ववस्तु प्रतिनियतस्वभावं, सा च प्रतिनियतस्वभावता प्रतियोग्यभावात्मकतोपनिबन्धना, ततो यावत्र प्रतियोगिविज्ञानं भवति तावन्नाधिकृतं वस्तु तदभावात्मकं तत्त्वतो ज्ञातुं शक्यते, तथा च सति घटदिपर्यायाणामपि अकारस्य प्रतियोगित्वात्तदपरिज्ञाने नाकारो याथात्म्येनावगन्तुं शक्यते इति घटादिपर्याया अपि अकारस्य पर्यायाः, तथा चात्र प्रयोगः-यदनुपलब्धौ यस्यानुपलब्धिः स तस्य सम्बन्धी, यथा घटस्य रूपादयः, घटादिपर्यायानुपलब्धौ चाकारस्य न याथात्म्येनोपलब्धिरिति ते तस्य सम्बन्धिनः, न चायमसिद्धो हेतुः, घयदिपर्यायरूपप्रतियोग्यपरिज्ञाने तदभावा - 30/13
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org