________________
नन्दी-चूलिकासून एतावत्प्रमाणं चाक्षरं भवति, इह स्तोकत्वाद्धर्मास्तिकायादयः साक्षात्सूत्र नोक्ताः, परमार्थतस्तु तेऽपि गृहीतद्रष्टव्याः, ततोऽयमर्थ:-सर्वद्रव्यप्रदेशाग्रं सर्वद्रव्यप्रदशैरनन्तशो गणितं यावत्परिमाणं भवति तावत्प्रमाणं-सवंद्रव्यपर्यायपरिमाणं, एतावत्परिमाणं चाक्षरं भवति, ___ तदपि चाक्षरं द्विधा ज्ञानमकारादिवर्णजातं च, उभयत्रापि अक्षरशब्दप्रवृत्ते रूढत्वात्, द्विविधमपि चेहगृह्यते, विरोधाभावात्, ननु ज्ञानं सर्वद्रव्यपर्यायपरिमाणं सम्भवतु, यतो ज्ञानमिहाविशंपोक्तौ सर्वद्रव्य पर्यायपरिमाणतुल्यताऽभिधानात्, प्रकमादा केवलज्ञानं गृहीप्यते, तच्च सर्वद्रव्यपर्यायपरिमाणं घटत एव, तथाहि-यावन्तो जगति रूपिद्रव्याणां ये गुरुलघुपर्याया ये च रूपिद्रमाणामरूपिद्रव्याणां वाऽगरुलधुपर्यायास्तान् सर्वानपि साक्षात्मरतकलकलितमुक्ता-- फलमिव केवलालोकन, प्रतिक्षणमवलोकेत भगवान् त च येन स्वभावनैकं पर्यायं परिच्छिनति तनव स्वभावेन पर्यायान्तरमपि, तयोः पर्याययोरेकत्वप्रसक्तेः. तथाहि
घटपर्यायपरिच्छेदनस्वभावं यज्ज्ञानं तद्यदा पटपर्यायं परिच्छेत्तुमलं तदा पटपर्यायस्यापि घटपायरूपताऽऽपत्तिः, अन्यथा तस्य तत्परिच्छेदनकत्वानुपयतः, तथारूपस्वभावाभावत्, ततो यावन्तः परिच्छेद्याः पर्यायास्तावन्तः परिच्छेदकास्तस्य केवलज्ञानस्य स्वभावा वेदितव्याः, स्वाभावश्च पर्यावास्तत: पर्यायानधिकृत्य सर्वद्रव्यपर्यायपरिमाणं केवलज्ञानमुपपद्यते. यदकारादिकं वणजातं तत्कथं सर्वद्रव्यपर्यायपरिमाणं भवितुमर्हति?, तत्पर्यायराशेः सर्वद्रव्यपर्यायाणामनन्ततम भाग वर्तमानत्वात्, तदयुक्तं, अकारादेरपिस्वपरपर्यायभेदभिन्नतया सर्वद्रव्यपर्यायपरिमाणतुल्यत्वाद्, आह च भाष्यकृत
__ "एक्कक्कमक्खरं पुण सपरपज्जायभेयओ भित्रं !
सव्वदव्धपज्जायरासिमाणं मनेयव्यं।" ___ अथ कथं स्वपरपर्यायापेक्षया सर्वद्रव्यपर्यायराशितुल्यता?, उच्यते. इह अ अ अ इत्युदातोऽनुदात्तः स्वरितश्च, पुनरप्येकैको द्विधा- सानुनासिको निरनुनासिकश्चेत्यकारस्य पड्भेदातांश्च पड् भेदानकारः केवलो लभते, एवं ककारेणापि संयुक्तो लभते पडे भदानेवं खकारेण एवं यावद्भकारेण, एवमेकैककेवलव्यञ्जनसंयोगे यथा पट २ भेदान् लभते तथा सजातीयविजातीव्यञ्जनद्विकसंयोगेऽपि, एवं स्वरान्तरसंयुक्ततत्तव्यञ्जनसहितोऽप्यनेकान भेदान लभते, अपिचएकेकोऽप्युदात्तादिको भेदः स्वविशेषादनेकभेदो भवति. वाच्यभेदादपि च समानवर्णश्रेणीकस्यापि शब्दस्य भेदो जायते, तथाहि-न येनैव स्वभावेन करशब्दः हस्तमाचष्टे तेनैव स्वभावेन किरणमति, किन्तु स्वभावमेदेन, तथाऽकाराऽपि तेन तेन ककारादिना संयुज्यमानस्तं तमर्थ ब्रुवाणो भिन्नस्वभावो वेदितव्यः, ते च स्वभावा अनन्ता ज्ञातव्याः, वाच्यस्यानन्तत्वात्, एते च सर्वेऽप्यकारस्य स्वपर्यायाः,शेपास्तु सर्वेऽपि घटादिपर्याया आकारादिपर्यायाश्च परपर्यायाः, न च स्वपर्यायेभ्योऽनन्तगुणाः, तेऽपि चाकारस्य सम्बन्धिनो द्रष्टव्याः, आह
ये स्वपर्यायास्ते तस्य सम्बन्धिनो भवन्तु, ये तु परपर्यायास्ते विभिन्नवस्त्वाश्रयत्वात् कथं तम्य सम्बन्धिना व्यपदिश्यन्ते?, उच्यते, इह द्विधा सम्बन्धः-अस्तित्वेन नास्तित्वेनच, तत्रास्तिचन सम्बन्धः स्वपर्यायैर्यथा घटस्य रूपादिभिः, नास्तित्वेन सम्बन्धः परपर्यायैः, तेषां तत्रासम्भवात्, यथा घटावस्थायां मृदः पिण्डाकारेण पर्यायेण, यत एव च ते तस्य न सन्तीति नास्तित्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org