Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 186
________________ मूलं - १३२ १८३ भू. ( १३३ ) से किं तं सपिणसुअं?. २ तिविहं पन्नत्तं, तंजहा- कालि ओवएसेणं हेऊलएसेणं दिडिवाओवएसेणं, से किं तं कालि ओवएसेणं?, कालिओवरसेणं जस्स णं अत्थि ईहा अवोहो मरगणा गर्वणा चिंता वीमंसा से णं असन्नीति लब्भड़ से तं कालिओवरसेणं । से किं ते हेऊवएसंणं ?, जस्स णं अस्थि अभिसंधारणपुव्विआ करणसत्ती से णं सण्णीति लब्भइ, जस्स णं नत्थि अभिसंधारणपुव्विआ करणसत्ती से णं असण्णीत्ति लब्भइ, से तं हेऊवएसेणं । से किं तं दिदिवा ओवएसेणं ? दिट्टिवाओवएसंणं सण्णिसुअस्स खओवसमेणं सण्णी लब्भइ. असणिसुअस्स अखोवसमेणं असण्णी लब्धइ, से तं दिडिवाओवएसेणं, से तं सण्णिसुअं से तं असण्णिसुअं । वृ. ' से कि त 'मित्यादि, अथ किं तत्संजिश्रुतं ?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संज्ञिश्रुतं, आचार्य आह- संज्ञिश्रुतं त्रिविधं प्रज्ञतं, संज्ञिनस्त्रिभेदत्वात्, तदेव त्रिभेदत्वं संज्ञिनो दर्शयति तद्यथा - कालिक्युपदेशेन १ हेतुपदेशेन २ दृष्टिवादापदेशेन ३, तत्र कालिक्युपदेशेनेत्यत्रादिपदलोपाद्दीर्घकालिक्युपदेशनेति द्रष्टव्यं । 'से कि त 'मित्यादि, अथ कोऽयं कालिक्युपदेशेन संज्ञी ?, इह दीर्घकालिकीसंज्ञा कालिकीति व्यपदिश्यते, आदिपदलोपादुपदेशनमुपदेशः - कथर्नामत्यर्थः दीर्घकालिक्या उपदेश: दीर्घकालिक्युपदेशस्तेन, आचार्य आह-कालिक्युपदेशेन संज्ञी स उच्यते यस्य प्राणिनोऽस्ति-विद्यते ईहासदर्थपर्यालोचनमपोहो- निश्चयो मार्गणा-अन्वयधम्र्म्मान्वेषणरूपा गवेषणा-व्यतिरेकधर्म्मस्वरूपपर्यालोचनं चिन्ता- कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चैतद्भविष्यतीति पर्यालोचनं विमर्शनं विमर्शः - इतमित्थमंत्र घटते इत्थं वा तद्भुतमित्थमेव वा तद्भावीति यथावस्थितवस्तुस्वरूपनिर्णयः स प्राणी 'ण'मिति वाक्यालङ्कारे संज्ञीति लभ्यते, स च गर्भव्युत्क्रान्तिकपुरुषादिरौपपातिकश्च देवादिर्मन पर्याप्तियुक्तो विज्ञेयः, तस्यैव त्रिकालविपयचिन्तात्रिमर्शादिसम्भवाद्, आह च भाष्यकृत्- "इह दीहकालिगि कालिगित्ति सन्ना जया सुदीहंपि । संभरइ भूयमेम्स चितेइ य किह नु कायव्वं ॥ १ ॥ कालियसत्रित्ति तओं जस्स मई सो य तो मनोजोगे । खनं धत्तुं मन्त्रइ तल्लद्धिसंपत्तो ॥ २॥" एष च प्राय: सर्वमप्यर्थं स्फुटरूपलभते, तथाहि यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुटमर्थमुपलभते तथैपोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भसमुत्थविमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थितं स्फुटमर्थमुपलभते यस्य पुनर्नास्ति ईहा अपोही मार्गणा गवेषणा चिन्ता विमर्शः सोऽसंज्ञीति लभ्यते, स च सम्मूर्च्छिमपञ्चेन्द्रियविकलेन्द्रियादिविज्ञेयः, सहि स्वल्पस्वल्पतरमनोलब्धिसम्पन्नत्वादस्फुटमस्फुटतरमर्थं जानाति, तथाहि संज्ञिपञ्चेन्द्रियापेक्षया सम्मूच्छिमपञ्चेन्द्रियो ऽस्फुटमर्थं जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः, ततोऽप्यस्फुटतरं त्रीन्द्रियः, ततोऽप्यस्फुटतमं द्वीन्द्रियः ततोऽप्यस्फुटतममंकेन्द्रियः, तस्य प्रायो मनोद्रव्यासम्भवात्, केवलमव्यक्तमेव किञ्चिदतीवाल्पतरं मनो द्रव्यं, यदशादाहारदिसंज्ञा अव्यक्तरूपाः प्रादुष्यन्ति, 'सेत्त' मित्यादि, सोऽयं कालिक्युपदेशेन संज्ञा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265