________________
मूलं - १३२
१८३
भू. ( १३३ ) से किं तं सपिणसुअं?. २ तिविहं पन्नत्तं, तंजहा- कालि ओवएसेणं हेऊलएसेणं दिडिवाओवएसेणं, से किं तं कालि ओवएसेणं?, कालिओवरसेणं जस्स णं अत्थि ईहा अवोहो मरगणा गर्वणा चिंता वीमंसा से णं असन्नीति लब्भड़ से तं कालिओवरसेणं । से किं ते हेऊवएसंणं ?, जस्स णं अस्थि अभिसंधारणपुव्विआ करणसत्ती से णं सण्णीति लब्भइ, जस्स णं नत्थि अभिसंधारणपुव्विआ करणसत्ती से णं असण्णीत्ति लब्भइ, से तं हेऊवएसेणं । से किं तं दिदिवा ओवएसेणं ? दिट्टिवाओवएसंणं सण्णिसुअस्स खओवसमेणं सण्णी लब्भइ. असणिसुअस्स अखोवसमेणं असण्णी लब्धइ, से तं दिडिवाओवएसेणं, से तं सण्णिसुअं से तं असण्णिसुअं ।
वृ. ' से कि त 'मित्यादि, अथ किं तत्संजिश्रुतं ?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संज्ञिश्रुतं, आचार्य आह- संज्ञिश्रुतं त्रिविधं प्रज्ञतं, संज्ञिनस्त्रिभेदत्वात्, तदेव त्रिभेदत्वं संज्ञिनो दर्शयति तद्यथा - कालिक्युपदेशेन १ हेतुपदेशेन २ दृष्टिवादापदेशेन ३, तत्र कालिक्युपदेशेनेत्यत्रादिपदलोपाद्दीर्घकालिक्युपदेशनेति द्रष्टव्यं ।
'से कि त 'मित्यादि, अथ कोऽयं कालिक्युपदेशेन संज्ञी ?, इह दीर्घकालिकीसंज्ञा कालिकीति व्यपदिश्यते, आदिपदलोपादुपदेशनमुपदेशः - कथर्नामत्यर्थः दीर्घकालिक्या उपदेश: दीर्घकालिक्युपदेशस्तेन, आचार्य आह-कालिक्युपदेशेन संज्ञी स उच्यते यस्य प्राणिनोऽस्ति-विद्यते ईहासदर्थपर्यालोचनमपोहो- निश्चयो मार्गणा-अन्वयधम्र्म्मान्वेषणरूपा गवेषणा-व्यतिरेकधर्म्मस्वरूपपर्यालोचनं चिन्ता- कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चैतद्भविष्यतीति पर्यालोचनं विमर्शनं विमर्शः - इतमित्थमंत्र घटते इत्थं वा तद्भुतमित्थमेव वा तद्भावीति यथावस्थितवस्तुस्वरूपनिर्णयः स प्राणी 'ण'मिति वाक्यालङ्कारे संज्ञीति लभ्यते, स च गर्भव्युत्क्रान्तिकपुरुषादिरौपपातिकश्च देवादिर्मन पर्याप्तियुक्तो विज्ञेयः, तस्यैव त्रिकालविपयचिन्तात्रिमर्शादिसम्भवाद्, आह च भाष्यकृत्-
"इह दीहकालिगि कालिगित्ति सन्ना जया सुदीहंपि । संभरइ भूयमेम्स चितेइ य किह नु कायव्वं ॥ १ ॥ कालियसत्रित्ति तओं जस्स मई सो य तो मनोजोगे । खनं धत्तुं मन्त्रइ तल्लद्धिसंपत्तो ॥ २॥"
एष च प्राय: सर्वमप्यर्थं स्फुटरूपलभते, तथाहि यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुटमर्थमुपलभते तथैपोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भसमुत्थविमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थितं स्फुटमर्थमुपलभते यस्य पुनर्नास्ति ईहा अपोही मार्गणा गवेषणा चिन्ता विमर्शः सोऽसंज्ञीति लभ्यते, स च सम्मूर्च्छिमपञ्चेन्द्रियविकलेन्द्रियादिविज्ञेयः, सहि स्वल्पस्वल्पतरमनोलब्धिसम्पन्नत्वादस्फुटमस्फुटतरमर्थं जानाति, तथाहि संज्ञिपञ्चेन्द्रियापेक्षया सम्मूच्छिमपञ्चेन्द्रियो ऽस्फुटमर्थं जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः, ततोऽप्यस्फुटतरं त्रीन्द्रियः, ततोऽप्यस्फुटतमं द्वीन्द्रियः ततोऽप्यस्फुटतममंकेन्द्रियः, तस्य प्रायो मनोद्रव्यासम्भवात्, केवलमव्यक्तमेव किञ्चिदतीवाल्पतरं मनो द्रव्यं, यदशादाहारदिसंज्ञा अव्यक्तरूपाः प्रादुष्यन्ति, 'सेत्त' मित्यादि, सोऽयं कालिक्युपदेशेन संज्ञा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org