________________
नन्दी-चूलिकासृत्रं ___'से कि तमित्यादि, अथ कोऽयं हेतूपदेशेन संजी?, हेतुः कारणं निमित्तमित्यनर्थान्तरं उपदेशनमुपदेशः तोरुपदेशनं हेतुपदेशस्तेन, किमक्तं भवति ? कोऽयं संज्ञित्वनिबन्धनहंतुमुपलभ्य कालिक्युपदशेनासंज्यपि संजीति व्यवहियते?, आचार्य आह-हेतृपदेशेन संजा यस्य प्राणिनोऽस्ति-विद्यतेऽभिसन्धारणम्-अव्यक्तेन व्यक्तन वा विज्ञानेनालांचनं तत्पूर्विकातत्काणिका करणशक्तिः करप क्रिया तस्यां शक्तिः--प्रवृत्तिः स प्राणी 'ण'मिति वाक्यालङ्कार हेतुपदेशन संज्ञीति भण्यते. एतदुव वति--या बुद्धिपूर्वकं स्वदेहपरिपालनार्थमिष्टेप्वाहारादिषु वस्तुपु प्रवर्नत अनिएभ्यश्च निवती संहतृपदेशेन संजी, सच द्वीन्द्रियादिपि वेदितव्यः, तथाहिधानिष्टविपयप्रतिनिनिश्चिन्तनं न मनोव्यापारमन्तरण सम्भवति, मनसा पर्यालोचनं संजा, सा च द्वीन्द्रियादरपि विद्यते, तस्यापि प्रतिनियतष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात, ततो द्वीन्द्रियादिरपि हतपदेशेन संजी लभ्यते, नवरमस्य चिन्तनं प्रायो वर्तमानकालविपयं न भूतभविष्यद्विपमिति न कालिक्युपदेशेन संज्ञी लभ्यते, यस्य पुनर्नास्त्यभिसन्धारणापृविका करणशक्तिः स प्राणी 'ण'मिति वाक्यालङ्कार हेतुपदेशेनाप्यसंज्ञी लभ्यते, सच पृथिव्यादिरेकन्द्रियो वेदितव्यः, तस्याभिसन्धिपूर्वकमिष्टानिष्टप्रवृत्तिनिवृन्यसम्भवात्, या अपि चाहारादिसंज्ञाः पृथिव्यादीनां वर्तन्ते ता अप्यत्यन्तमव्यक्तरूपा इति तदपेक्षवाऽपि न तपां संज्ञित्वव्यपदेशः, उक्तं च भाष्यकृता
"जे' पुन संचितेउं इट्टानिटेसु विसयवत्थूसुं।
वत्तंति नियत्तंति य सदेहपरिपालनाउं ।।१।। पाएण संपइच्चिय कालंमि न याइदीहकालण्णू।
ते हेउवायसण्णी निच्चिट्टा होति अस्सण्णी॥२॥" अन्यत्रापि हेतृपदेशेन संज्ञित्वमाश्रित्योक्तं
कृमिकीटपतङ्गाद्याः समनस्का: जङ्गमाश्चतुर्भेदाः।
अमनस्काः पञ्चविधाः पृथिवीकायादयो जीवाः॥" 'सत्त'मित्यादि, सोऽयं हेतृपदेशेन संज्ञी। 'से किंत'मित्यादि, अथ कोऽयं दृष्टिवादोपदेशेन संज्ञी?, दृष्टिः दर्शनं-सम्यक्त्वादि वदनं वाद: दृष्टीनां वादो दृष्टिवादस्तदुपदेशेन, तदपेक्षयेत्यर्थः, आचार्य आह-दृष्टिवादोपदेशेन संज्ञि श्रुतस्य क्षयोपशमेन संज्ञी लभ्यते, संज्ञानं संज्ञा-सम्यग्ज्ञानं तदस्यास्ताति(स) संज्ञी -सम्यगदृष्टिस्तस्य यच्छ्रतं तत्संज्ञि श्रुतं, सम्यक् श्रतमिति भावार्थः तस्य क्षयोपशमेन-तदावारकस्य कर्मण: क्षयोपशमभावने संज्ञी लभ्यते, किमुक्तं भवति? सम्यग्दृष्टिः क्षायोपशमिकज्ञानयुक्तो दृष्टिवादोपदेशेन संज्ञी भवति, स च यथाशक्ति रागादिनिग्रहपरो वेदितव्यः, सहि सम्यग्दृष्टिः सम्यग्ज्ञानो वा यो रागादीन निगृह्णाति, अन्यथा हिताहितप्रवृत्तिनिवृत्त्यभावतः सम्यग्दृष्टिवाद्ययोगात्, उक्तं च..
"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः।
तमसः कुतोऽस्ति शक्तिदिनकरकिरणाग्रतः रथातुम्।।" अन्यस्तु मिथ्यादृष्टिरसंज्ञी, तथा चाह 'असंज्ञिश्रुतस्य' मिथ्या श्रुतस्य क्षयोपशमेनासंज्ञीति लभ्यते, 'से तमित्यादि निगमनं, सोऽपं दृष्टिवादोपदेशेन संजी । तदेवं संजिनस्त्रिभेदत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविधमुपन्यस्तं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org