Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
________________
मलं-१३३
१८५ अत्राह-ननु प्रथमं हेतृपदेशन संजी वक्तुं यज्यते, हेतृपदशेनाल्पमनोलब्धिसम्पन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेनाभ्युपगतत्वात् तस्य चाविशुद्धतरत्वात्, ततः कालिक्युपदेशन, हत. पदेशसंज्ञापेक्षया कालिक्युपदेशन मंजिना मनःपर्याप्तियुक्ततया विशद्धत्वात्, तत्किमर्थमुत्क्रमोपन्यासः?. उच्यते, इह सर्वत्र सूत्रे यत्र क्वचित् संज्ञी असंज्ञो वा परीगृह्यते तत्र सर्वत्रापि प्राय: कालिक्युपदेशेन गृह्यत न हेतृपदेशेन नापि दृष्टिवादोपदेशेन, तत एतत्सम्प्रत्ययार्थं प्रथमं कालि. क्युपदेशेन संज्ञिनो ग्रहणं, उक्तं च
"सन्नित्ति असन्नित्ति य सव्वसुए कालिओवएसेणं।
पायं संववहारो कोरइरेनाइआ स क ओ 11" ततोऽनन्तरमप्रधानत्वाद्धेतृपदेशेन संज्ञिनो ग्रहणं, ततः सर्वप्रधानत्वादन्तं दृष्टिवादोपदेश नति। 'संत'मित्यादि. तदेतत्संज्ञिश्रुतम्, असंज्ञिश्रुतमपि प्रतिपक्षाभिधानादेव प्रतिपादितं. तत आह-'सत्तं असन्निसुयं तदेतदसंज्ञिश्रुतं। __ मू.( १३४ ) से किं तं सम्मुसुअं?. जं इमं अरहंतेहिं भगवंतहिं उप्पन्ननाणदंसणधरेहि तेलुक्कनिरिक्खअमहिअपूइएहिं तीयपटुप्पन्नमनागयजाणएहिं सव्वण्णूहि सव्वदरिसीहि पणीअं दुवालसंग गणिपिडग तंजहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपन्नत्ती ५ नायाधम्मकहाओ६ उवासगदसाओ७ अंतगडदसाओ ८ अनुत्तरोववाइयदसाओ९ पण्हावागरणाई १० विवागसुअं११ दिदिवाओ १२, इच्चेअंदुवालसंगं गणिपिडा चोदसपुब्बिस्स सम्मसुअं अभिन्नदसपुव्विस्स सम्मसुअंतेन परंभिन्नेसु भयणा, से तं सम्मसुअं।
वृ. से कित'मित्यादि. अथ किं तत्सम्यक्श्रुतं?. आचार्य आह-सम्यक्श्रुतं यदिदमहभिः .. अशोकाद्यप्यमहाप्रातिहार्यरूपां पृजामर्हन्तीत्यर्हन्तः- तीर्थकरास्तैरहद्भिः, ते चार्हन्तः कैश्चि. च्छुद्धद्रव्यास्तिकनयमतानुसारिभिरनादिसिद्धा एव मुक्तात्मानोऽभ्युपगम्यन्ते, तथा च तं पठन्ति--
"ज्ञानमप्रतिधं यस्य, वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम्॥ इत्यादि, एवंरूपाश्चापि ते बहव इप्यन्ते स्थापनादिद्वारेण च विशिष्टां पूजामर्हन्ति ततोऽर्ह न्तोऽप्युच्यन्ते ततस्तद्वयवच्छेदार्थं विशेषणान्तरमाह-'भगवद्भिः' भगः-समग्रैश्वर्यादिरूपः,
"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः।
धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ।।" भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, इहानादिसिद्धानां रूपमात्रमपि नोपपद्यते कि पुनः समग्रं रूपम्, अशरीरत्वात्, शरीरस्य च रागादिकार्यतया तेषां रागादिरहितानामसम्भवात, ततो भगवद्भिरित्यनेन परपरिकल्पितानादिसिद्धार्हद्वयवच्छेदमाह। ___ अथ मन्येथाः-अनादिशुद्धा अप्यर्हन्तो यदा स्वेच्छया समग्ररूपादिगुणोपेतं शरीरमारचयन्ति तदा तेऽपि भगवन्तो भवन्ति ततः कथं तेषां व्युदास इत्याशङ्कापनोदार्थं भूयोऽपि विशेषणान्तरमाह 'उत्पन्नज्ञानदर्शनधरैः' उत्पन्नं ज्ञानं-केवलज्ञानं दर्शनं केवलदर्शनं धरन्तीति उत्पन्नज्ञानदर्शनधराः, 'लिहादिभ्य' इत्यच्प्रत्ययः, न च येऽनादिविशुद्धास्ते उत्पन्नज्ञानदर्शनधरा भवन्ति, 'ज्ञानमप्रतितं यस्ये' त्यादिवचनविरोधात्. तत उत्पन्नज्ञानदर्शनधरैरिति विशेषणेन तपां व्यवच्छेदो भवति, नन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265