Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
________________
१८६
नी-चूलिकामृत्रं यद्येवं तहिं उत्पत्रज्ञानज्ञानदर्शनधरित्येतावदेवास्त्मलं भगवदिभारतिविशेपणांगदानेन, तदयक्तम् उत्पत्रज्ञानदर्शनधरा हि सामान्यकेवलिनाऽपि भवन्ति न च तपामवश्यं समग्ररूपादिसामव: ततस्तत्कल्पनाहतो मा ज्ञासपुरभीविनयजना इति समग्ररूपादिगणप्रतिपत्त्यर्थं भमदिति विशेषणोपादानं. तदेवं शुद्धद्रव्यास्तिकनयमतानुसारिकल्पितमुक्तव्यवच्छेदः कृतः, सम्पति पर्यायास्तिकनयमतानसारिपरिकल्पितमक्तव्यवच्छेदार्थं विशेषणान्तरमाह___'त्रैलोक्यनिरीक्षितहितपूजितः' त्रयो लोकास्त्रिलाकाः भवनातव्यन्तर्रावद्याधरज्योतिप्कवैमानिकाः त्रिलोका एक त्रैलोक्यं भेपजादित्वात स्वार्थे ध्याग् प्रत्ययः, निरीशेताश्च ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपूजिता: त्रैलोक्यन निरीक्षितमहितपूजिताः त्रैलोक्य - निरीक्षितमहितपूजिताः, तत्र निरीक्षिताः- मनोरथपरम्परासम्पतिसम्भवविनिश्चयसमुत्य - सम्मविकाशिलोचनैरालोकिता महिता-यथावस्थितानन्यसाधारणगुणोत्कोर्ननलक्षणने भावस्तवनाचिताः पूजिताः- सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेन. तत्र सुगता अपि पर्यायास्तिकनयमतानुसारिभिस्त्रैिलोक्यनिरीक्षितमहितपूजिता इष्यन्ते, तथा चाह स्वयम्भः
"देवागमनभीयानचामरादिविभृतयः।
मायाविष्वपि दृश्यन्ते. नातस्त्वमसिनो महान।।" इति, - ततस्तद्रयवच्छेदार्थं विशेषणान्तरमाह-'अतीतप्रत्युत्पन्नानागतज्ञैः' नचातीतानागतज्ञाः मुगताः सम्भवन्ति, तेपामेकान्तक्षणिकत्वाभ्युपगमेन सर्वथाऽतीतानागतयोरसत्त्वाद, असतां च ग्रहणासम्भवादित्यत्र बहु वक्तव्यं तच्च प्रायः प्रागेवोक्तमन्यत्र(च) धर्मसंग्रहणीटीकादाविति नोच्यने, इह व्यवहारनयमतानुसारिभिः कश्चिद्दपयोऽप्यतीतप्रत्युत्पन्नानागतज्ञा इष्यन्त, तथा च तद्ग्रन्थः -
"ऋषयः संयतात्मानः, फलमूलानिलाशनाः। तपसैव प्रपश्यन्ति, त्रैलोक्यं सचराचरम् ॥१॥
अतीतानागतान् भावान्. वर्तमानांश्च भारत!!
ज्ञानालोकेन पश्यन्ति, त्यक्तसङ्गा जितेन्द्रियाः ।।२।।" इत्यादि, ततस्तद्वयवच्छेदार्थमाह-'सर्वज्ञैः सर्वदर्शिभिः' ते तु ऋपयः सर्वज्ञाः सर्वदर्शिनश्च न भवन्ति, ततस्तेषां व्युदासः। __तदेवं द्रव्यास्तिकपर्यायास्तिकनयमतव्यवच्छेदफलतया विशेषणसाफल्यमुक्तं, विचित्र - नयमताभिज्ञेन तु अन्यथापि विशेषणसाफल्यं वाच्यं, न कश्चिद्विरोधः, प्रणीतम्- अर्थकथनद्वारण प्ररूपितं, किं तदित्याह
'द्वादशाङ्ग' श्रुतरूपस्य परमपुरुपस्याङ्गानीवाङ्गानि द्वादशाङ्गानि-आचाराङ्गादीनि यस्मिन् तत् द्वादशाङ्ग 'गणिपिडगं'ति गणो- गच्छो गुणगणो वाऽस्यास्तीति गणी-आचार्यस्तस्य पिटकमिव पिटकं, सर्वस्वमित्यर्थः, गणिपटिकं, अथवा गणिशब्दः परिच्छेदवचनाऽ(प्यास्ति, तथा चोक्तम्
"आयामि अहोए जं नाओ होइ समणधम्मो उ।
तम्हा आयारधरो भन्नइ पढमं गणिट्टाणं।" ततश्च गणीनां पिटकं गणिपिटकं परिच्छेदसमूह इत्यर्थः, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265