Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 111
________________ १०८ नन्दी-चूलिकासूत्रं कारणं यस्य तद्गुणप्रत्ययं, चारित्रवतोऽप्रमत्तसंयतस्य। मू.(८४) सेत्तं मनपज्जवनाणं ।। वृ. 'सेत्तं मनपज्जवनाणं' तदेतत् मनःपर्यायज्ञानं ।। मू.(८५)से किं तं केवलनाणं?, केवलनाणं दुविहं पन्नत्तं, तंजहा- भवत्थकेवलनाणं चसिद्धकेवलनाणं च। सेकिंतं भवत्थकेवलनाणं?, भवत्थकेवलनाणंदुविहं पन्नतं, तंजहासजोगिभवत्थकेवलनाणं च अयोगिभवत्थकेवलनाणं च । से किं तं सजोगिभवत्थकेवलनाणं?, सयोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहापडमसमयसयोगिभवत्थकेवलनाणं च अपढमसमवसजोगिभवत्थकेवलनाणं च, अहवा चरमसमयसयोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थकेवलनाणंच, सेतं सजोगी भवत्थकेवलनाणं। से किं तं अयोगिभवत्थकेवलनाणं?, अयोगिभवत्थकेवलनाणं दुविहं पनत्तं, तंजहापढमसमयअयोगिभवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च, अहवा चरमसमयअजोगिभवत्थकेवलनाणं च अचरमसमयअजोगिभवत्थकेवलनाणं च, से तं अजोगिभवत्थकेवलनाणं। व.अथकिं तत्केवलज्ञानं?, सरिराह-केवलज्ञानं द्विविधं प्रज्ञप्सम, तद्यथा-भवस्थकेवलज्ञानं च सिद्धकेवलज्ञानं च, भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिानिति भवो-नारकादिजन्म, तत्रेह भवो मनुष्यभव एव ग्राह्योऽन्यत्र केवलोत्पादाभावात्, भवे तिष्ठन्तीति भवस्थाः 'स्थादिभ्यः क' इति कः प्रत्ययः तस्य केवलज्ञानं, चशब्दः स्वगतानेकभेदसूचकः, तथा 'षिधू संराद्धौ' सिध्यति स्म सिद्धः-यो येन गुणेन परिनिष्ठतो न पुनः साधनीयः स सिद्ध उच्यते, यथा सिद्ध ओदनः, स च कर्मसिद्धादिभेदादनेकविधः, उक्तं च "कम्मे सिप्पे य विज्जाए, मंते जोगे स आगमे। अत्थजत्ताअभिप्पाए, तवे कम्मकखए इअ । अत्र कर्मक्षयसिद्धेनाधिकारोऽन्यस्य केवलज्ञानासम्भवाद्, अथवा सितं-बद्धं ध्यातंभस्मीकृतमष्टप्रकारं कर्म येन स सिद्धः पृषोदरादय इति रूपसिद्धिः, सकलकर्मविनिर्मुक्तो मुक्तावस्थामुपागत इत्यर्थः, तस्य केवलज्ञानं सिद्धकेवलज्ञानं, अत्रापि चशब्दः स्वगतानेकभेदसूचकः। अथ किं तद्भवस्थकेवलज्ञानं ?, भवस्थकेवलज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथासयोगिभवस्थकेवलज्ञानं च अयोगिभवस्थकेवलज्ञानं च, तत्र योजनं योगो-व्यापारः, उक्तं च-'कायवाङ्मनःकर्म योगः, इह औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः . काययोगः, औदारिकवैक्रियाहारकव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वागयोगः, उक्तं च "अहवा तनुजोगाहियवयदवसमूहजीववावारो। सो वयजोगो भन्नइ वाया निसिरिज्जए तेणं ॥" तथा औदारिकवैक्रियाहारकशीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनोयोगः उक्तं "तह तनुवावाराहियमणदवसमृहजीववावारो। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265