Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 119
________________ नन्दी-चूलिकासूत्रं "बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धवा। चुलसीई छनउई दुरहियमट्ठत्तरसयं च ।।" अत्राष्टसामायिकेभ्य आरभ्य द्विसामायिकपर्यन्ता निरन्तरं सिद्धाः एकैकस्मिश्च विकल्पे उत्कर्षत: शतपृथक्त्वं सङ्घयापरिमाणं, गणनाद्वारमल्पबहुत्वद्वारं च प्रागिव द्रष्टव्यं, तथा च सिद्धप्राभतेऽपि द्रव्यप्रमाणचिन्तायामेतयोद्वारयोः सत्पदप्ररूपणोक्तैव गाथा भूयोऽपि परावर्त्तिता "संखाए जहन्नेणं एक्को उक्कोसएण अट्ठसयं । सिद्धा नेगा थोवा एक्कगसिद्धा उ संखगुणा ।।" तदेवमुक्तं द्रव्यप्रमाणं, सम्प्रति क्षेत्रप्ररूपणा कर्त्तव्या-तत्र पूर्वभावमपेक्ष्य सत्पदप्ररूपणायामेव कृता, सम्प्रति प्रत्युत्पननयमतेन क्रियते-तत्र पञ्चदशस्वप्यनुयोगद्वारेषु पृच्छा, इह सकलकर्मक्षयं कृत्वा कुत्र गतो भगवान् सिध्यति?, उच्यते, ऋजुगत्या मनुष्यक्षेत्रप्रमाणे सिद्धिक्षेत्रे गतः सिध्यति, यदुक्तं- "इह बोंदि चइत्ता णं तत्थ गंतूण सिज्झइ" गतं क्षेत्रद्वार, सम्प्रति स्पर्शनाद्वारं-स्पर्शना च क्षेत्रावगाहादतिरिक्ता यथा परमाणोः, तथाहि-परमाणोरेकस्मिन् प्रदेशेऽवगाहः सप्तप्रादेशिकी च स्पर्शना, उक्तं च-“एगपएसोगाढं सत्तपएसा य से फुसणा" सिद्धानां तु स्पर्शना एवमवगन्तव्या ___ "फुसइ अनंते सिंद्धे सव्वपएसेहिं नियमसो सिद्धो। ते उ असंजेज्जगुणा देसपएसेहिं जे पुट्ठा।" गतं स्पर्शनाद्वारं । सम्प्रति कालद्वारं, तत्र चेयं परिभाषा सर्वेष्वपि द्वारेषु यत्र २ स्थानेऽष्टशतमेकसमयेन सिध्युक्तं तत्र तत्राष्टौ समया निरन्तरं कालो वक्तव्यः, यत्र २ पुनर्विशतिर्दश वा तत्र २ चत्वारः समयाः, शेषेषु स्थानेषु द्वौ समयौ, उक्तं "जहिं अट्ठसयं सिज्झइ अट्ठ उ समया निरंतरं कालो। ___ वीसदसएसु चउरो सेसा सिझंति दो समए ।" सम्प्रति एतदेव मन्दविनेयजनानुग्रहाय विभाव्यते, तत्र क्षेत्रद्वारे-जम्बूद्वीपे धातकीखण्डे पुष्करवरद्वीपे च प्रत्येकं भरतैरावतमहाविदेहेषूत्कर्तोऽष्टौ समयान, यावनिरन्तरं सिध्यन्तः प्राप्यन्ते, हरिवर्षादिष्वधोलोके च चतुरचतुरः समयान, नन्दनवने पण्डकवने लवणसमुद्रे च द्वौ द्वौ समयौ, कालद्वारे-उत्सपिण्यामवसमिण्यांच प्रत्येक तृतीयचतुर्थास्कयोरष्टावष्टौ समयान्, शेषेषु चारकेषु चतुरश्चतुरः समयान्, गतिद्वारे-देवगतेरागता उत्कर्षतोऽष्टौ समयान, शेषगतिभ्य आगताश्चतुरः समयानिति, वेदद्वारे-पश्चात्कृतपुरुषवेदा अष्टौ समयान, पश्चात्कृतस्त्रीवेदनपुंसकवेदाः प्रत्येकं चतुरश्चतुर: समयान्, पुरुषचेदेभ्य उद्धृत्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान्, शेषेषु चाष्टसु भङ्गेषु चतुरश्चतुरः समयानिति, __ तीर्थद्वारे-तीर्थकरतीर्थे तीर्थकरीतीर्थे वाऽतीर्थकरसिद्धा उत्कर्षतोऽष्टौ समयान्, तीर्थकराः तीर्थकर्यश्च द्वौ द्वौ समयौ, लिङ्गद्वारे-स्वलिङ्गेऽष्टौ समयान्, अन्यलिङ्गेचतुर: समयान्, गृहलिने द्वौ समयौ, चारित्रद्वारे-अनुभूतपरिहारविशुद्धचारित्राश्चतुरः समयान्, शेषा अष्टावष्टौ समयान्, बुद्धद्वारे-स्वयंबुद्धा द्वौ समयौ, बुद्धबोधिता अष्टौ समयान्, प्रत्येकबुद्धा बुद्धीबोधिताः स्त्रियो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265