Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
________________
मूलं-१२०
१७५ धूमो निश्चितो भवति, अनिवर्तितशङ्कतया तस्य सम्यग्निश्चितत्वायोगात्, तस्मादवश्यं स वस्तुविशेषनिश्चयः स ईहापूर्वकः, शब्दोऽयमिति च निश्श्चचयो वस्तुविशेषनिश्चयो, रूपादिव्यवच्छेदात्, ततोऽवश्यमित: पूर्वमीहया भवितव्यं, ईहा च प्रथमतः सामान्यरूपेणावगृहीते भवति, नानवगृहीते, न खलु सर्वथा निरालम्बनमोहनं कापि भवदुपलभ्यते, न चानुपलभ्यमानं प्रतिपत्तुं शक्नुमः, सर्वस्या अपि प्रेक्षावतां प्रतिपत्तेः प्रमाणमूलत्वाद्, अन्यथा प्रेक्षावत्ताक्षिपिप्रसक्तः, तस्मादीहायाः प्रागवग्रहोऽपि नियमात्प्रतिपत्तव्यः, अमुमेवार्थं भाष्यकारोऽपि द्रढयति
___ "ईहिज्जइ नागहियं नज्जइ नानीहियं न यानायं ।
धारिज्जइ तं वत्धुं तेन कमो उग्गहाईओ॥" । अवग्रहश्च शब्दोऽयमिति ज्ञानात्पूर्व प्रवर्त्तमानोऽनिर्देश्यसामान्यमात्रग्रहणरूप एवोपपद्यते, नान्यः, अत एवोक्तं सूत्रकृता-'अव्यक्तं शब्दं शृणुयादिति, स हि परमार्थतः शब्द एव, ततः प्रज्ञापकस्तं शब्दमन्द्य तद्विशेषणमाचष्टे-अव्यक्तमिति, तं शब्दमव्यक्तं शृणोति, किमुक्तं भवति? -शब्दव्यक्त्यापि व्यक्तं न शृणोति, किन्तु सामान्यमात्रनिद्देश्यं गृह्णातीत्यर्थः, यदपि चोक्तं-तेन प्रमात्रा शब्द इत्यवगृहीतमिति, तत्र शब्द इति प्रतिपादयति प्रज्ञापकः सूत्रकारो, न पुनः तेन प्रमात्रा शब्द इति अवगृह्यते, शब्द इति ज्ञानस्यापायरूपत्वात्, तथाहि-शब्दोऽयमिति, किमुक्तं भवति?-न शब्दाभावो, न च रूपादिः, किन्तुशब्द एवायमिति, ततो विशेषनिश्चयरूपत्वादयमवगमोऽपायरूप एव, नावग्रहरूपः, अथच अवग्रहप्रतिपादनार्थमिदमुच्यमानं वर्तते ततः शब्द इति प्रज्ञापक; सूत्रकारो वदति, न पुनस्तेन प्रमात्रा शब्द इत्यवगृह्यते इति स्थितं, तथा चाह सूत्रकृत्-'नो चेव णमि'त्यादि, न पुनरेवं जानाति-कएष शब्दादिरर्थ इति, शब्दादिरूपतया तमर्थं न जानातीति भावार्थः, अनिद्देश्यसामान्यमात्रप्रतिभासात्मकत्वादर्थावग्रहस्य, अर्थावग्रहश्च श्रोत्रेन्द्रियघ्राणेन्द्रियादीनां व्यञ्जनावग्रहपूर्वक इति पूर्वव्यञ्जनावग्रहोऽपिद्रष्टव्यः, तदेवं सर्वत्राप्यवग्रहेहापूर्वमवायज्ञानमुपजायते, केवलमभ्यासदशामापन्नस्य शीघ्रं शीघ्रतरमवग्रहादयः प्रवर्त्तन्ते इति कालसौक्ष्मयाते स्पष्टं न संवेद्यन्ते इति स्थितं ! ___ तत ईहां प्रविशति, इह केचिदीहां संशयमात्रं मन्यन्ते, तदयुक्तं, संशयो हि नामाज्ञानमिति, ज्ञानांशरूपा चेहा, ततः सा कथमज्ञानरूपा भवितुमर्हति ?, नन्वीहापि किमयं शाङ्घः किंवा शार्ङ्गः? इत्येवंरूपतया प्रवर्त्तते, संशयोऽपि चैवमेव, ततः कोऽनयोः प्रतिविशेषः?, उच्यते, इह यत् ज्ञानं शाङ्कुशाङ्गादिविशेषाननेकानालम्बते न चासद्भूतं विशेषमपासितुं शक्नोति, किन्तु सर्वात्मना शयानमिव वर्त्तते-कुण्ठीभूतं तिष्ठतीत्यर्थः, तदसद्भूतविशेषापर्युदासपरिकुण्ठितं संशयज्ञानमुच्यते, यत्पुनः सद्भूतार्थविशेषविषये हेतूपपत्तिव्यापारतया सद्भूतार्थविशेषोपादानाभिमुखमसद्भूतविशेषत्यागाभिमुखं च तदीहा, आह च भाष्यकृत
"जमणेगत्थालंबणमपज्जुदासकुंठियं चित्तं । सयइव सव्वप्पणओ तं संसयरूवमन्नाणं ।।१।। जं पुन सयत्थहेऊववत्तिवाबारतप्परममोहं।
भूयाभूयविसेसादानच्चायाभिमुहमीहा॥२॥" इह यदि वस्तु सुबोधं भवति विशिष्टश्च मतिज्ञानावरणक्षयोपशमो वर्तते ततोऽन्तर्मुहूर्त्तकालेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265