Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 177
________________ १७४ नन्दी-चूलिकासूत्रं तत्र यदा व्यञ्जनं उपकरणेन्द्रियमधिक्रियते तदा पूरितमिति कोऽर्थः?-परिपूर्णं भृतं व्याप्तमित्यर्थः, यदा व्यञ्जनं द्रव्यमभिगृह्यते तदा पूरितमिति-प्रभूतीकृतं स्वप्रमाणमानीतं स्वव्यक्तौ समर्थीकृतमित्यर्थः, यदा तु व्यञ्जनं द्वयोरपि सम्बन्धो गृह्यते तदा पूरितमिति किमुक्तं भवति?तावत् सम्बन्धोऽभूत् यावति सति ते शब्दादिपुद्गला ग्रहणमागच्छन्ति, आह चूर्णिकृत्-“यदा पुग्गलदव्वा वंजणं तया पूरियंति-पभूया ते पुग्गलदव्वा जाया-स्वं प्रमाणमानीता: सविसयपडिबोहसमत्था जाया" इत्यादि, जया उवगरणिदियं वंजणं तथा परियंति कहं?, उच्यते, जाहे तेहि पोग्गलेहिं तं दविदियं आवृतं भरियं वापितं तया पूरियंति भण्णइ, जया उभयसंबंधो वंजणं तया पूरियंति कहं?, उच्यते, दविदियस्स पोग्गला अंगीभावमागता, पोग्गल्ला दव्विदिये अभिषिक्ता इत्यर्थः, तदा पूरियंति भन्नइ इति, एवं च यदा पूरितं भवति व्यञ्जनं तदा हुँ इति करोति-अर्थावग्रहरूपेण ज्ञानेन तमर्थं गृह्णाति, किं च?, नामजात्यादिकल्पनारहितं, तथा चाह 'नो चेवणं जाणइ के वेस सद्दाइ'त्ति न पुनरेवं जानाति क एव शब्दादिरर्थ इति, स्वरूपद्रव्यगणक्रियाविशेषकल्पनारहितमनिर्देश्यं सामान्यमात्रं गृह्णातीत्यर्थः, एवंरूपसामान्यमात्रग्रहणकारणत्वादर्थावग्रहस्य, एतस्माच्च पूर्वः सर्वोऽपि व्यञ्जनावग्रहः, एषा मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा, हुंकारकरणं चार्थावग्रहबलप्रवर्तितं, तत ईहां प्रविशति-किमिदं किमिदमिति विमर्श कर्तुमारभते, 'ततः ईहानन्तरं क्षयोपशमविशेषभावात् जानाति-अमुक एष शब्दादिरिति, 'ततः एवंरूपे ज्ञानपरिणामे प्रादुर्भवति सति सोऽपायं प्रविशति, ततोऽपायानन्तरमन्तर्मुहूर्त्तकालं यावदुपगतं भवति-सीमाप्येनात्मनि शब्दादिज्ञानं परिणतं भवति, अविच्युतिरन्तर्मुहूर्त्तकालं यावत्प्रवर्तते इत्यर्थः, ततो धारणां प्रविशति, सा च धारणा वासनारूप द्रष्टव्या, अत आह-'तत्तो ण'मित्यादि, ततो धारणायां प्रवेशात् 'ण'मिति वाक्यालङ्कारे संङ्घयेयं वा असङ्खयेयं वा कालं हृदि धारयति, तत्र सङ्घयेयवर्षायुषः सङ्खयेयकालं, असङ्ख्येयवर्षायुषस्त्वसङ्घयेयं कालम्। ___ अत्राह-सुप्तमङ्गीकृत्य पूर्वोक्तः प्रकार सर्वोऽपिघटते, जाग्रतस्तु शब्दश्रवणसमनन्तरमेवावग्रहेहाव्यतिरेके णावायज्ञानमुपजायते, तथाप्रतिप्राणिसंवेदनात्, तनिषेधार्थमाह-'से जहानामए' इत्यादि, सयथानामकः कश्चिज्जाग्रदपि पुरुषोऽव्यक्तं शब्दंशृणुयात्, अव्यक्तमेव प्रथमं शब्दं शृणोति, अव्यक्तं नाम अनिर्देश्यस्वरूपं नामजात्यादिकल्पनारहितं, अनेनावग्रहमाह, अर्थावग्रहश्च श्रोत्रेन्द्रियस्य सम्बन्धी व्यञ्जनावग्रहमन्तरेण न भवति ततो व्यञ्जनावग्रहोऽप्युक्तो वेदितव्यः, अत्राह-नन्वेवंक्रमो न कोऽप्युपलभ्यते, किन्तु प्रथमत एव शब्दापायज्ञानमुपजायते, सूत्रेऽपि चाव्यक्तमिति शब्दविशेषणं कृतं, ततोऽयमर्थो व्याख्येयः- अव्यक्तम्-अनवधारितशाशादिविशेषं शब्दं शृणुयादिति, इदं च व्याख्यानमुत्तरसूत्रमपि संवादयति__'तेण सद्दोत्ति उग्गहिए' तेन-प्रमात्रा शब्द इत्यवगृहीतं, 'नो चेवणं जाणइ के वेस सद्दाइ' न पुनरेवं जानाति-क: एष शब्दः शाङ्घः शाङ्ग इति वा?, शब्द इत्यत्रादिशब्दाद्रसादिष्वप्ययमेव न्याय इति ज्ञापयति, तत ईहां प्रविशति तत्यादि सर्वं सम्बद्धमेव, तदेतयुक्तं, सम्यग वस्तुतत्त्वापरिज्ञानात्, इह हि यत्किमपि वस्तु निश्चीयते तत्सर्वमीहापूर्वकम्, अनीहितस्य सम्यगमिश्चितत्वायोगात्, न खलु प्रथमाक्षिसत्रिपाते सत्यधूदर्शनेऽपि यावत् न विनिश्चिनोति तावत्स Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265