Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 152
________________ मूलं-९८ १४९ तस्या एवं कर्तुमशक्यत्वात्, ततः क्षुल्लक: कायिक्या पद्ममालिखितवान्, सा कत्तुं न शक्नोति, ततो जिता परिव्राजिका । क्षुल्लकस्योत्पत्तिकी बुद्धिः १३। 'मग्ग'त्ति मार्गोदाहरणं, तद्भावना कोऽपि पुरुषो निजभायां गृहीत्वा वाहनेन ग्रामान्तरं व्रजति, अपान्तराले च कचित् प्रदेशे शरीरचिन्तानिमित्तं तद्भार्या वाहनादुत्तीर्णवत्ती, तस्यां च शरीरचिन्तानिमित्तं कियद्भूभागं गतायां तत्प्रदेशवर्तिनी काचिद्वयन्तरी पुरुषस्य रूपसौभाग्यादिकमवलोक्य कामानुरागतस्तद्रूपेणागत्य वाहनं विलग्ना, सा च तद्भार्या शरीरचिन्तयां विधाय यावद्वाहनसमीपमागच्छति तावदन्या स्त्रियमात्मसमानरूपांवाहनमधिरूढां पश्यति, सा च व्यन्तरी पुरुषं प्रत्याह-एषा काचिद्व्यन्तरी मदीयं रूपमारचय्य तव सकाशमभिलपति तत: खेटय २ सत्वरं सौरभेयाविति, ततः स पुरुषस्तथैव कृतवान्, सा चारटन्ती पश्चालग्ना समागच्छति, पुरुषोऽपि तामारटन्ती दृष्ट्वा मूढचेता मन्दं मन्दं खेटयामास, ततः प्रावर्त्तत तयोस्तद्भार्याव्यन्तोनिष्ठुरभाषणादिकः परस्परं कलहः, ग्रामे च प्राप्ते जातस्तयो राजकुले व्यवहारः, पुरुषश्च निर्णयमकुर्वनुदासीनो वर्तते, तत: कारणिकै: पुरुषो दूरेव्यवस्थापितो, भणितो च ते द्वे अपि च स्त्रियौ-युवयोर्मध्ये या काचिदमुं प्रथम हस्तेन संस्पृश्यति तस्याः पतिरेषन शेषायाः, ततो व्यन्तरी हस्तं दूरतः प्रसार्य प्रथमं स्पष्टवती, ततो ज्ञातं कारणिकेरेषा व्यन्तरीति, ततो निर्धाटिता, द्वितीया च समपिता स्वपतेः । कारणिकानामौत्पत्तिकी बुद्धिः १४। ___ 'इस्थि 'त्ति स्त्र्युदाहरणं, तद्भावना-मूलदेवपुण्डरीको सह पन्थानं गच्छतः इतश्च कोऽपि सभार्याकः पुरुषस्तेनैव पथा गन्तुं प्रावर्त्तत, पुण्डरीकश्च दूरस्थितस्तद्भार्यागतमतिशायिरूपं दृष्टवा साभिलाषो जातः, कथितं च तेन मूलदेवस्य-यदीमां मे सम्पादयसि तदहं जीवामि, नान्यथेति, ततो मूलदेवोऽवादीम्-मा आतुरीभूः, अहं ते नियमतः सम्पादयिष्यामि, ततस्तौ द्वावप्यलक्षितौ सत्वरं दूरतो गतौ, ततो मृलदेवः पुण्डरीकमेकस्मिन् वननिकुञ्जे संस्थाप्य पथि ऊर्ध्वस्थितो वर्तते, ततः क्षणमात्र निजमहेलां विसर्जय, विसर्जितातेन, गता सा पुण्डरीकपार्वं, ततः क्षणमात्रं स्थित्वा समागता "आगंतूण य तत्तो पडयं घेत्तूण मूलदेवस्य। धुत्ती भणइ हसन्ती पियं खु ते दारओ जाओ॥ द्वयोरपि तयोरौत्पत्तिकी बुद्धिः १५" । 'पइ 'त्ति पतिदृष्टान्त, तद्भावना-द्वयोर्धात्रोरेका भार्या, लोके च महत्कौतुमकम्-अहो द्वयोरप्येषा समानरागेति, एतच्च श्रुतिपरम्परया राज्ञाऽपि श्रुतं, परं विस्मयमुपागतो राजा, मन्त्री ब्रूते-देव ! न भवति कदाचिदप्येतद्, अवश्यं विशेषः कोऽपि भविष्यति, राज्ञोक्तंकथमेतदवसेयं?, मन्त्री ब्रूते-देव! अचिरादेव यथा ज्ञास्यते तथा यतिष्यते, व्रतो मन्त्रिणा तस्याः स्त्रिया लेखः प्रेषितो यथा-तौ द्वावपि निजपती ग्रामद्वये प्रेषणीयौ-एक; पूर्वस्यां दिशि विवक्षिते ग्रामेऽपरोऽपरस्यां दिशि, तस्मिन्नेव च दिने द्वाभ्यामपि स्वगृहे समागन्तव्यं, ततस्तया यो मन्दवल्लभः स पूर्वस्यां दिशि प्रेषितोऽपरोऽपरस्यां दिशि, पूर्वस्यां च दिशि यो गतस्तस्य गच्छत आगच्छतश्च संमुखः सूर्यो, य: पुनरपरस्यां गतस्तस्य गच्छत आगच्छतश्च पृष्ठतः, एवं कृते च मन्त्रिणा ज्ञातम्-अयं मन्दवल्लभः अपरोऽत्यन्तवल्लभः, ततो निवेदितं च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265