________________
मूलं-९८
१४९ तस्या एवं कर्तुमशक्यत्वात्, ततः क्षुल्लक: कायिक्या पद्ममालिखितवान्, सा कत्तुं न शक्नोति, ततो जिता परिव्राजिका । क्षुल्लकस्योत्पत्तिकी बुद्धिः १३।
'मग्ग'त्ति मार्गोदाहरणं, तद्भावना कोऽपि पुरुषो निजभायां गृहीत्वा वाहनेन ग्रामान्तरं व्रजति, अपान्तराले च कचित् प्रदेशे शरीरचिन्तानिमित्तं तद्भार्या वाहनादुत्तीर्णवत्ती, तस्यां च शरीरचिन्तानिमित्तं कियद्भूभागं गतायां तत्प्रदेशवर्तिनी काचिद्वयन्तरी पुरुषस्य रूपसौभाग्यादिकमवलोक्य कामानुरागतस्तद्रूपेणागत्य वाहनं विलग्ना, सा च तद्भार्या शरीरचिन्तयां विधाय यावद्वाहनसमीपमागच्छति तावदन्या स्त्रियमात्मसमानरूपांवाहनमधिरूढां पश्यति, सा च व्यन्तरी पुरुषं प्रत्याह-एषा काचिद्व्यन्तरी मदीयं रूपमारचय्य तव सकाशमभिलपति तत: खेटय २ सत्वरं सौरभेयाविति, ततः स पुरुषस्तथैव कृतवान्, सा चारटन्ती पश्चालग्ना समागच्छति, पुरुषोऽपि तामारटन्ती दृष्ट्वा मूढचेता मन्दं मन्दं खेटयामास, ततः प्रावर्त्तत तयोस्तद्भार्याव्यन्तोनिष्ठुरभाषणादिकः परस्परं कलहः, ग्रामे च प्राप्ते जातस्तयो राजकुले व्यवहारः, पुरुषश्च निर्णयमकुर्वनुदासीनो वर्तते, तत: कारणिकै: पुरुषो दूरेव्यवस्थापितो, भणितो च ते द्वे अपि च स्त्रियौ-युवयोर्मध्ये या काचिदमुं प्रथम हस्तेन संस्पृश्यति तस्याः पतिरेषन शेषायाः, ततो व्यन्तरी हस्तं दूरतः प्रसार्य प्रथमं स्पष्टवती, ततो ज्ञातं कारणिकेरेषा व्यन्तरीति, ततो निर्धाटिता, द्वितीया च समपिता स्वपतेः । कारणिकानामौत्पत्तिकी बुद्धिः १४। ___ 'इस्थि 'त्ति स्त्र्युदाहरणं, तद्भावना-मूलदेवपुण्डरीको सह पन्थानं गच्छतः इतश्च कोऽपि सभार्याकः पुरुषस्तेनैव पथा गन्तुं प्रावर्त्तत, पुण्डरीकश्च दूरस्थितस्तद्भार्यागतमतिशायिरूपं दृष्टवा साभिलाषो जातः, कथितं च तेन मूलदेवस्य-यदीमां मे सम्पादयसि तदहं जीवामि, नान्यथेति, ततो मूलदेवोऽवादीम्-मा आतुरीभूः, अहं ते नियमतः सम्पादयिष्यामि, ततस्तौ द्वावप्यलक्षितौ सत्वरं दूरतो गतौ, ततो मृलदेवः पुण्डरीकमेकस्मिन् वननिकुञ्जे संस्थाप्य पथि ऊर्ध्वस्थितो वर्तते, ततः क्षणमात्र निजमहेलां विसर्जय, विसर्जितातेन, गता सा पुण्डरीकपार्वं, ततः क्षणमात्रं स्थित्वा समागता
"आगंतूण य तत्तो पडयं घेत्तूण मूलदेवस्य। धुत्ती भणइ हसन्ती पियं खु ते दारओ जाओ॥ द्वयोरपि तयोरौत्पत्तिकी बुद्धिः १५" । 'पइ 'त्ति पतिदृष्टान्त, तद्भावना-द्वयोर्धात्रोरेका भार्या, लोके च महत्कौतुमकम्-अहो द्वयोरप्येषा समानरागेति, एतच्च श्रुतिपरम्परया राज्ञाऽपि श्रुतं, परं विस्मयमुपागतो राजा, मन्त्री ब्रूते-देव ! न भवति कदाचिदप्येतद्, अवश्यं विशेषः कोऽपि भविष्यति, राज्ञोक्तंकथमेतदवसेयं?, मन्त्री ब्रूते-देव! अचिरादेव यथा ज्ञास्यते तथा यतिष्यते, व्रतो मन्त्रिणा तस्याः स्त्रिया लेखः प्रेषितो यथा-तौ द्वावपि निजपती ग्रामद्वये प्रेषणीयौ-एक; पूर्वस्यां दिशि विवक्षिते ग्रामेऽपरोऽपरस्यां दिशि, तस्मिन्नेव च दिने द्वाभ्यामपि स्वगृहे समागन्तव्यं, ततस्तया यो मन्दवल्लभः स पूर्वस्यां दिशि प्रेषितोऽपरोऽपरस्यां दिशि, पूर्वस्यां च दिशि यो गतस्तस्य गच्छत आगच्छतश्च संमुखः सूर्यो, य: पुनरपरस्यां गतस्तस्य गच्छत आगच्छतश्च पृष्ठतः, एवं कृते च मन्त्रिणा ज्ञातम्-अयं मन्दवल्लभः अपरोऽत्यन्तवल्लभः, ततो निवेदितं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org