________________
१५०
नन्दी - चूलिकासूत्रं
राज्ञे, राज्ञा च न प्रतिपन्नं, यतोऽवश्यमेकः पूर्वस्यां दिशि प्रेषणीयोऽपरोऽपरस्यां दिशि, ततः कथमेष विशेपो गम्यते ?, ततः पुनरपि मन्त्रिणा लेखप्रदानेन सा महेलोक्ता - द्वावपि निजपति तयोरेव ग्रामयोः समकं प्रेषणीय, तया च तौ तथैव प्रेषितौ, मन्त्रिणा च द्वौ पुरुषौ तस्याः समीपे समकं तयोः शरीरापाटवनिवेदकौ प्रषितौ द्वाभ्यामपि च सा समकमाकारिता, ततो यो मन्दवल्लभशरीरापाटवनिवेदक: पुरुषस्तं प्रत्याह-सदैवमन्दशरीरो द्वितीयोऽत्यातुरश्च वर्तते प्रत्यहं गमिष्यामि, तथैव कृतं, ततो निवेदितं राज्ञो मन्त्रिणा, प्रतिपन्नं राज्ञा तथेति । मन्त्रिणः औत्पत्तिकी बुद्धिः १६ ।
'पुत्त 'त्ति पुत्रदृष्टान्तः, तद्भावना - कोऽपि वणिक् तस्य द्वे पत्यौ, एकस्याः पुत्रोऽपरा वन्ध्या, परं सापि तं पुत्रं सम्यक् पालयति, ततः स पुत्रो विशेषं न जानीते यथा इयं मे जननी इयं नेति सोऽपि वणिक् सभार्यापुत्रो देशान्तरं गतो, गतमात्र एव परासुरभूत ततो द्वयोरपि तो: कलहोऽजायत, एका भणति ममैष पुत्रस्तताऽहं गृहस्वामिनी, द्वितीया ब्रूते - का त्वं ?, ममैष पुत्रः ततोऽहमेव गृहस्वामिनीति, एवं च तयोः परस्परं कलहे जाते राजकुले व्यवहारो बभूव, ततोऽमात्यः प्रतिपादयामास निजपुरुषान् भोः पूर्वं द्रव्यं समस्तं विभजत, विभज्य ततो दारकं करपत्रेण कुरुत द्वौ भागौ, कृत्वा चैकं खण्डमेकस्यै समर्पयत द्वितीयं द्वितीयस्यै, तत एतदमात्मवाक्यं शिरसि महाज्वालासहस्त्रावलीढजो पनिपातकल्पं पुत्रमाता श्रुत्वा सोत्कम्पहृदया हृदयान्तः प्रविष्टतिर्यक्शल्येव सदुःखं वक्तुं प्रवृत्ता - हा स्वामिन्! महामात्य ! न ममैष पुत्रो, न मे किञ्चिदर्थेन प्रयोजनं, एतस्या एव पुत्रो भवतु गृहस्वामिनी च, अहं पुनरमुं पुत्रं दूरस्थितापि परगृहेषु द्रारिद्रयमपि कुर्वति जीवन्तं द्रक्ष्यामि, तावता च कृतकृत्यमात्मानं प्रपत्स्ये, पुत्रेण विना पुनरधुनापि समस्तोऽपि मे जीवलोकोऽस्तमुपयाति, इतरा च न किमपि वक्त, ततोऽमात्येन तां सदुःखां परिभाव्योक्तम्-तस्याः पुत्रो नास्या इति, सेव सर्वस्वस्वामिनी कृता, द्वितीया तु निर्द्धाटिता । अमात्यस्यौत्पत्तिकी बुद्धिः १७ ।
मू. (९९)
-
भरह सिल मिंढ कुक्कुड वालुअ हत्थी अगड वनसंडे
यस अइआ पत्ते खाडहिला पंच पिअरो अ ||
वृ. ' भरहसिलमेंढे 'त्यादिका च गाथा रोहकसंविधानसूचीका, सा च प्रागुक्तकथानकानुसारेण स्वयमेव व्याख्येया ।
मू. ( १०० )
Jain Education International
महसित्थ मुद्दि अंके नाणए भिक्खु चेडगनिहाणे सिक्खा अत्थसत्थे इच्छा य महं सयसहस्से ॥
वृ. मधयुक्तं सित्थं - मधुसित्थं तद्दृष्टान्तभावना - कश्चित्कौलकस्तस्य भार्या स्वैरिणी, सा चान्यदा केनापि पुरुषेण सह कस्मिंश्चित्प्रदेशे जालिमध्ये मैथुनं सेवितवती, मैथुनस्थितया च तया उपरि भ्रामरं समुत्पन्नं दृष्टं, क्षणमात्रानन्तरं च समागता गृहे, द्वितीये च दिवसे स्वभर्त्ता मदनं क्रीणस्तया निवारितो - मा क्रीणाहि मदनं, अहं ते भ्रामरमुत्पन्नं दर्शयिष्यामि, ततः स क्रयाद्विनिवृत्तो, गतौ च तौ द्वावपि तां जालि, न पश्यति सा कथमपि कौलिकी, भ्रामरं, ततो येन संस्थानेन मैथुनं सेवितवती तेनैव संस्थानेन स्थिता, ततो दृष्टवती भ्रामरं दर्शयामास च कौलिकाय, कौलिकोऽपि तथारूपं संस्थानभवलोक्य ज्ञातवान् नूनमेषा दुश्चारिणीति ।
For Private & Personal Use Only
www.jainelibrary.org
-