________________
१४८
नन्दी-चूलिकासूत्रं तोलयति तस्मै राजा महती वृत्ति प्रयच्छतीति, इमां च घोषणां श्रुत्वा कश्चिदेकः पुमान्, तं हस्तिनं महासरसि नावमारोहयामास, अस्मिश्चारूढे यावत्प्रमाणा नौर्जले निमग्ना तावत्प्रमाणां रेखामदात्, ततः समुत्तारितो हस्ती तटे, प्रक्षिप्ता गण्डशैलकल्पा नावि ग्रावाणः, ते च तावत्प्रक्षिप्ता यावनेखां मर्यादीकृत्य जले निमग्ना नौः ततस्तोलिताः सर्वे ते पाषाणाः, कृतमेकत्र पलप्रमाणं निवेदितं च राज्ञे-देव ! एतावत्पलप्रमाणो हस्ती वर्त्तते, ततस्तुतोष राजा, कृतो मन्त्रिमण्डलमूर्धाभिषिक: परममन्त्री । तस्यौत्पत्तिको बुद्धिः ९। ___ 'घयण ति भाण्डः, तदुदाहरणं-विटो नाम कोऽपि पुरुषो राज्ञः प्रत्यासत्रवत्ती, तं प्रति राजा निजदेवी प्रशंसति-अहो निरामया मे देवी या न कदाचिदपि वातनिसर्ग विदधाति, विटः प्राह-देव! न भवतीदं जातुचित्, राजाऽवादीत्कथं? विट आह-देव! धूती देवी, ततो यदा सुगन्धीनि पुष्पाणि चूर्णयित्वा वासान् समर्पयति नासिकाग्रे तदा ज्ञातव्यं-वातं विमुञ्चतीति, ततोऽन्यदा राज्ञा तथैव परिभावितं, सम्यगवगते च हसितं, ततो देवी हसननिमित्तकथनाय निर्बन्धं कृतवती, ततो राजाऽतिनिर्बन्धे कृते पूर्ववृत्तान्तमचीकथत्, ततश्चकोप देवी तस्मै विटाय, आज्ञप्तो देशत्यागेन, तेनापिजज्ञे-ननमकथयत् पूर्ववृत्तान्तं देवो देव्याः, तेन मे चकोप देवी, ततो महान्तमुपानहा भरमादया मतो देवीसकाशं, विज्ञापयामास देवी-देवि ! यामो देशान्तराणि, देवी उपानहां भरंपार्वे स्थितं दृष्टवा पृष्टवती -रेकिमेष उपानहाम्भरः?,सोऽवादीत्-देवि ! यावन्ति देशान्तराण्येतावतीभिरुपानद्भिर्गन्तुं शक्ष्यामि तावत्सु देव्याः कीर्तिविस्तारणीया, तत एवमुक्ते मा मे सर्वत्रापकीर्तिर्जायेतेति परिभाव्य देवी बलात्तं धारयामास विटस्यौत्पत्तिकी बुद्धिः १०। । ___ 'गोलो'त्ति गोलकोदाहरणं, तद्भावना-लाक्षागोलकः कस्यपि बालकस्य कथमपि नासिकामध्ये प्रविष्टः, ततस्तन्मातापितरावतीवा? बभूवतुः, दर्शितो बालकः सुवर्णकारस्य, तेन सुवर्णकारेण प्रतप्ताग्रभागया लोहशकलाकया शनैः शनैर्यत्नतो लाक्षागोलको मनाक्प्रताप्य सर्वोऽपि समाकृष्टः । सुवर्णकारस्यौत्पत्तिकी बुद्धिः ११।
'खंभ'त्ति स्तम्भोदाहरणं, तद्भावना-राजा मन्त्रिणमेकं गवेषयन् महाविस्तीर्णतटाकमध्ये स्तम्धमेकं निक्षेपयामास, तत एवं घोषणां कारितवान्-यो नाम तटे स्थितोऽमुंस्तम्भं दवरकेण बन्धाति तस्मै राजा शतहस्रं प्रयच्छतीति, तत एवं घोषणां श्रुत्वा कोऽपि पुमान् एकस्मिन् तटप्रदेशे कोलकं भूमौ निक्षिप्य दवरकेण बद्ध्वा तेन दवरकेण सह सर्वतस्तटे परिभ्रमन् मध्यस्थितं तं स्तम्भं बद्धवान्, लोकेन च बुद्धतिशयसम्पन्नतया प्रशंसितो, निवेदितश्च राज्ञो राजनियुक्तैः पुरुषैः, तुतोष राजा, ततस्तं मन्त्रिणमकार्षीत् । तस्य पुरुषस्यौत्पत्तिकी बुद्धिः
'खुल्लग'ति क्षुल्लकोदाहरणं, तद्भावना-कस्मिंश्चित्पुरे काचित् परिवाजिका, सा यो यत्करोति तदहं कुशलकर्मा सर्वं करोमीति राज्ञः समक्ष प्रतिज्ञां कृतवती, राजा च तत्प्रतिज्ञासूचकं पटहमुद्घोषयामास, तत्र च कोऽपि क्षुल्लको भिक्षार्थमटन् पटहशब्दं श्रुतवान्, श्रुतश्च प्रतिज्ञार्थः, ततो धृतवान् पटहं, प्रतिपन्नो राजसमक्षं व्यवहारो, गतो राजकुलं क्षुल्लकंः, ततस्तं लधुं दृष्टवा सा परिवाजिकाऽऽत्मीयं मुखं विकृत्यावज्ञयाऽभिधत्ते-कथय कुतो मिलाभि?, तत एवमुक्ते क्षुल्लक: स्वं मेण्द्रं दर्शितवान्, ततो हसितं सर्वैरपि जनैः, उद्घष्टं च-जिता जिता परिवाजिका,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org