Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 154
________________ मूलं - १०० कौलिकस्योत्पत्तिकी बुद्धिः १८ । 'मुद्दिय'त्ति मुद्रिकोदाहरणं, तद्भावना- कस्मिश्चित्पुरे कोऽपि पुरोधाः सर्वत्र ख्यातसत्यवृत्तिः - यथा परकीयानिक्षेपानादायादाय प्रभूतकालातिक्रमेऽपि तथास्थितानेव समयतीति एतच्च ज्ञात्वा कोऽपि द्रमकः तस्मै स्वनिक्षेपं समर्प्य देशान्तरमगमत् प्रभूतकालातिक्रमे च भूयोऽपि तत्रागतो याचते च स्वं निक्षेपं पुरोधसं, पुरोधाश्च मूलत एवापलपति--कस्त्वं कीदृशो वा तव निक्षेप इति ?, ततः स रङ्को वराकः स्वं निक्षेपमलभमानः शून्यचित्तो बभूव, अन्यदा च तेनामात्यो गच्छन् दृष्टो याचितश्च देहि मे पुरोहित! सुवर्णसहस्रप्रमाणं निक्षेपमिति, तत एतदाकर्ण्य अमात्यस्तद्विषयकृपापरीतचेता बभूव, ततो गत्वा निवेदितं राज्ञः, कारितश्च दर्शनं द्रमको, राज्ञापि भणित: पुरोधा: - देहि तस्मै दमकाय स्वं निक्षेपमिति, पुरोहितोऽवादीत्देव ! न किमपि तस्याहं गृह्णामि, ततो राजा मौनमधात्, पुरोधसि च स्वगृहं गते राजा विजने तं द्रमकमाकार्य पृष्टवान्-रे ! कथय सत्यमिति, ततस्तेन सर्वं दिवसमुहूर्त्तस्थानपार्श्ववर्त्तिमानुपादिकं कथितं, ततोऽन्यदा राजा पुरोधसा समं रन्तुं प्रावर्त्तत, परस्परं नाममुद्रा च सञ्चारिता, ततो राजा यथा पुरोधा न वेत्ति तथा कस्यापि मानुषस्य हस्ते नाममुद्रां समर्प्य तं प्रति बभाण-रे पुरोधसो गृहं गत्वा तद्भार्यामेवं ब्रूहि यथाऽहं पुरोधसा प्रप्तः, इयं च नाममुद्राऽभिज्ञानं, तस्मिन् दिने तस्यां वेलायां यः सुवर्णसहस्त्रनवलको द्रमकसत्कस्त्वत्समक्षममुकप्रदेशे मुक्तोऽस्ति झटिति मे समर्पय, तेन पुरुषेण तथैव कृतं, सापि च पुरोधसो भार्या नाममुद्रां दृष्ट्वाऽभिज्ञानमिलनतश्च सत्यमेष पुरोधसा प्रेषित इति प्रतिपन्नवती, ततः समर्पयामास तं द्रमकनिक्षेपं, तेन च पुरुषेणानीय राज्ञः समप्पितो, राज्ञा चान्येषां बहूनां नवलकानां मध्ये स द्रमकनवलकः प्रक्षिप्तः, आकारितो द्रमकः, पार्श्वे चोपवेशितः पुरोधाः द्रमकोऽपि तमात्मीयं नवलकं दृष्टवा प्रमुदितहृदयो विकसितलोचनोऽपगतचित्तशून्यताभावः सहर्षो राजानं विज्ञपयितुं प्रवृत्त:देव ! देवपादानां पुरत एवमाकारो मदीयां नवलकः, ततो राजा तं तस्मै समर्पयामास, पुरोधसश्च जिह्वाच्छेदमचीकरत् । राज्ञ औत्पत्तिकी बुद्धिः १९ । J 'अंके 'त्ति अङ्कदृष्टान्तभावना, कोऽपि कस्यापि पार्श्वे रूपकसहस्रनवलकं निक्षिप्तवान्, तेन च निक्षेपग्राहिणा तं नवलकमधः प्रदेशे छित्वा कूटरूपकाणां सहस्रेण स भृतः, तथैव च सीवितः, ततः कालान्तरे तस्य पार्श्वान्निक्षेपस्वामिना स्वनिक्षेपो गृहीतः, परिभावितः, सर्वतस्तथैव दृश्यते मुद्रामिकं तत उद्घाटीता मुद्रा यावत् रूपकान् परिभावयति तावत्सर्वानपि कूटान् पश्यति, ततो जातो राजकुले तयोर्व्यवहारः, पृष्टः कारणिकैर्निक्षेपस्वामी- भोः ! कतिसङ्ख्यास्तव नवलके रूपका आसीरन् ?, स प्राह-सहस्रं ततो गणयित्वा रूपकाणां सहस्रं तेन भृतः स नवलकः स च परिपूर्णं भृतः केवलं यावन्मात्रमधस्ताच्छिन्नस्तावन्यन् इत्युपरि सीवितुं न शक्यते, ततो ज्ञातं कारणिकैः, नूनमस्यापहृता रूपकाः, ततो दापितो रूपकसहस्रमितरो नवलकस्वामिनः । कारणिकानाभौत्पत्तिकी बुद्धिः २० । १५१ Jain Education International - 'नाणं 'ति कोऽपि कस्यापि पार्श्वे सुवर्णपणभृतं नवलकं निक्षिप्तवान्, ततो गतो देशान्तरं, प्रभूते च कालेऽतिक्रान्ते निक्षेपग्राही तस्मान्नवलकात् जात्यसुवर्णमयान् पणान् गृहीत्वा हीनवर्णकसुवर्णपणान् तावत्सङ्ख्याकान् तत्र प्रक्षिप्तवान्, तथैव च स नवलकस्तेन सीवितः, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265