Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 171
________________ १६८ नन्दी-चूलिकासूत्रं सम्बन्धाभावात्, अथ च श्रोत्रेन्द्रियाकाशसम्बन्धतया तच्छ्रवणमभ्युपगम्यते, तत्राकाशगुणत्वाभ्युपगमः शब्दस्य श्रेयान् नन्वाकाशगुणत्वमन्तरेणशब्दस्यावस्थानमेव नोपपद्यते, अवश्य हि पदार्थेन स्थितिमता भवितव्यं, तत्र रूपरसस्पर्शगन्धानां पृथिव्यादिमहाभूतचतुष्टयमारयः, शब्दस्य त्वाकाशमिति, तदयुक्तम्, एवं सति पृथिव्यादीनामप्याकाशगुणत्वप्रसक्तेः, तेयामप्याकाशाश्रितत्वात्, न खल्वाकाशमन्तरेण पृथिव्यादीनामप्यन्यदाश्रयः, अगुणत्वात्पृथिव्यादीनामाकाशगुणत्वमनुपपन्नमिति चेत् न आकाशाश्रितत्वेन भवन्नीत्या बलादपि तद्गुणत्वप्रसक्तः, अथ नाश्रयणमात्रं तद्गुणत्वनिबन्धनं किन्तु समवायः स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति, ननु कोऽयं समवायो नाम?, एकत्र लोलीभावेनावस्थानं यथा पृथिव्यादिरूपाद्योरिति चेत्, न तहि शब्दस्याकाशगुणत्वमाकाशेन सहकत्र लोलीभावेन तस्याप्रतिपत्तेः, अथाऽऽकाशे उपलभ्मयानत्वात्तद्गुता शब्दस्य, तूलकादेरपितह्याकाशे उपलभ्यमानत्वात्तद्गुणत्वं प्राप्नोति, अथ तूलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वादवसेयं, तथाहि- यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलशब्दस्या श्रवणात्, उक्तं च "यथा च प्रेर्यते तूलमाकाशे मातरिश्वना। तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित् ? ॥" तत्राकाशगुण: शब्द:, किन्तु पुद्गलमय इति स्थितं । मू.(११४ )से कितं अत्थुग्गहे.?, अत्थुग्गहे छविहे पत्रत्ते, तंजहा-सोइंदिअअत्थुग्गहे चविखदिअअत्थुग्गहे घाणिदिअअत्धुग्गहे जिभिदियअत्थुग्गहे फासिंदिअअत्थुग्गहे नोइंदिअअत्थुग्गहे। वृ.अथ कतिविधोऽयमर्थावग्रह:?, सूरिराह-अर्थावग्रह: पड्विधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियार्थावग्रह इत्यादि श्रोत्रेन्द्रियार्थावग्रहः, ( श्रोत्रेन्द्रियेण) व्यञ्जनावग्रहोत्तरकालमेकसामायिकनिर्देश्यसामान्यरूपार्थावग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवं घ्राणजिह्वास्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव स्वरूपद्रव्यगुणक्रियाविकल्पनातीतमनिर्देश्यं सामान्यमात्ररूपार्थावग्रहणमर्थावग्रहोऽवसेयः। ___ तत्र 'नोइंदियअस्थावग्गहो'त्ति नोइन्द्रियं-मनः, तच्च द्विधा-द्रव्यरूपं भावरूपंच, तत्र मनः पर्याप्तिनामकर्मोदयतो यत् मन:प्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिमितं तद्रव्यरूपं मनः, तथा चाह चूणिकृत.. "मनपज्जत्तिनामकम्मोदयओ तज्जोग मनोदब्वे धेत्तुं मनत्तण परिणामिया दव्वा दव्वमनो भण्णइ।" तथा द्रव्यमनोऽवष्टम्भेनजीवस्य यो मननपरिणामः स भावमनः, तथा चाह चूर्णिकारएव"जीवो पुण मननपरिणामकियापन्नो भावमनो, किं भणियं होइ.?, मनदव्वालंबणो जीवस्य मननवावारो भावमनो भण्णइ" तत्रेह भावमनसा प्रयोजनं, तदग्रहणे ह्यवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसम्भवात्, भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थकेवलिनः, तत उच्यते-भावमनसेह प्रयोजनं, तत्र नोइन्द्रियेण-भावमनसाऽर्थावग्रहो द्रव्येन्द्रिव्यापारनिरपेक्षो घटाद्यर्थस्वरूपपरिभावनाभिमुखः प्रथममेकसामयिको रूपाद्यर्था Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265