________________
१६८
नन्दी-चूलिकासूत्रं सम्बन्धाभावात्, अथ च श्रोत्रेन्द्रियाकाशसम्बन्धतया तच्छ्रवणमभ्युपगम्यते, तत्राकाशगुणत्वाभ्युपगमः शब्दस्य श्रेयान् नन्वाकाशगुणत्वमन्तरेणशब्दस्यावस्थानमेव नोपपद्यते, अवश्य हि पदार्थेन स्थितिमता भवितव्यं, तत्र रूपरसस्पर्शगन्धानां पृथिव्यादिमहाभूतचतुष्टयमारयः, शब्दस्य त्वाकाशमिति, तदयुक्तम्, एवं सति पृथिव्यादीनामप्याकाशगुणत्वप्रसक्तेः, तेयामप्याकाशाश्रितत्वात्, न खल्वाकाशमन्तरेण पृथिव्यादीनामप्यन्यदाश्रयः, अगुणत्वात्पृथिव्यादीनामाकाशगुणत्वमनुपपन्नमिति चेत् न आकाशाश्रितत्वेन भवन्नीत्या बलादपि तद्गुणत्वप्रसक्तः, अथ नाश्रयणमात्रं तद्गुणत्वनिबन्धनं किन्तु समवायः स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति, ननु कोऽयं समवायो नाम?, एकत्र लोलीभावेनावस्थानं यथा पृथिव्यादिरूपाद्योरिति चेत्, न तहि शब्दस्याकाशगुणत्वमाकाशेन सहकत्र लोलीभावेन तस्याप्रतिपत्तेः, अथाऽऽकाशे उपलभ्मयानत्वात्तद्गुता शब्दस्य, तूलकादेरपितह्याकाशे उपलभ्यमानत्वात्तद्गुणत्वं प्राप्नोति, अथ तूलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वादवसेयं, तथाहि- यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलशब्दस्या श्रवणात्, उक्तं च
"यथा च प्रेर्यते तूलमाकाशे मातरिश्वना।
तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि शब्दवित् ? ॥" तत्राकाशगुण: शब्द:, किन्तु पुद्गलमय इति स्थितं ।
मू.(११४ )से कितं अत्थुग्गहे.?, अत्थुग्गहे छविहे पत्रत्ते, तंजहा-सोइंदिअअत्थुग्गहे चविखदिअअत्थुग्गहे घाणिदिअअत्धुग्गहे जिभिदियअत्थुग्गहे फासिंदिअअत्थुग्गहे नोइंदिअअत्थुग्गहे।
वृ.अथ कतिविधोऽयमर्थावग्रह:?, सूरिराह-अर्थावग्रह: पड्विधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियार्थावग्रह इत्यादि श्रोत्रेन्द्रियार्थावग्रहः, ( श्रोत्रेन्द्रियेण) व्यञ्जनावग्रहोत्तरकालमेकसामायिकनिर्देश्यसामान्यरूपार्थावग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवं घ्राणजिह्वास्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोः प्रथममेव स्वरूपद्रव्यगुणक्रियाविकल्पनातीतमनिर्देश्यं सामान्यमात्ररूपार्थावग्रहणमर्थावग्रहोऽवसेयः। ___ तत्र 'नोइंदियअस्थावग्गहो'त्ति नोइन्द्रियं-मनः, तच्च द्विधा-द्रव्यरूपं भावरूपंच, तत्र मनः पर्याप्तिनामकर्मोदयतो यत् मन:प्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिमितं तद्रव्यरूपं मनः, तथा चाह चूणिकृत.. "मनपज्जत्तिनामकम्मोदयओ तज्जोग मनोदब्वे धेत्तुं मनत्तण परिणामिया दव्वा दव्वमनो भण्णइ।"
तथा द्रव्यमनोऽवष्टम्भेनजीवस्य यो मननपरिणामः स भावमनः, तथा चाह चूर्णिकारएव"जीवो पुण मननपरिणामकियापन्नो भावमनो, किं भणियं होइ.?, मनदव्वालंबणो जीवस्य मननवावारो भावमनो भण्णइ" तत्रेह भावमनसा प्रयोजनं, तदग्रहणे ह्यवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसम्भवात्, भावमनो विनापि च द्रव्यमनो भवति, यथा भवस्थकेवलिनः, तत उच्यते-भावमनसेह प्रयोजनं, तत्र नोइन्द्रियेण-भावमनसाऽर्थावग्रहो द्रव्येन्द्रिव्यापारनिरपेक्षो घटाद्यर्थस्वरूपपरिभावनाभिमुखः प्रथममेकसामयिको रूपाद्यर्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org