________________
मूलं-११४
१६९ कारादिविशपचिन्ताविकलोऽनिर्देश्यसामान्यमाचिन्तात्मको बोधो नाइन्द्रियार्थांवग्रहः ॥
मू.(११५)तस्सणं इमे एगद्विआ नानाघोसा नानावंजणा पंचनामधिज्जा भवति, तंजहाओगेण्हणया उवधारणया सवणया अवलंबणया मेहा। सेत्तं उगहे।
वृ.'तस्य' सामान्येनावग्रहस्य 'ण'मिति वाक्यालङ्कारे 'अमूनि वक्ष्यमाणानि एकाथिकानि 'नानाघोसाणि'त्ति घोषाः-उदात्तादयः स्वरविशेषाः, आह च चूणिकृत्-"घोसा उदात्तादओ सरविसेसा" नाना घोपा येषां तानि नानाघोपाणि, तथा नाना व्यञ्जनानि-कदानि येषां तानि नानाव्यञ्जनानि, पञ्च नामान्येव नामधेयानि भवन्ति. 'तद्यथे'ति तेषामेवोपदर्शने, 'ओगिण्हणया' इत्यादि, यदा पुनरवग्रहविशेषानपेक्ष्यामूनि पञ्चापि नामधेयानि चिन्त्यन्ते तदा परस्परं भिन्नानि वेदितव्यानि, तथाहि-इहावग्रहस्त्रिधा, तद्यथा-व्यञ्जनावग्रह: सामान्यार्थावग्रहो विशेषसामान्यार्थावग्रहश्च, तत्र विशेपसामान्यार्थावग्रह औपचारिकः,स चानन्तरमेवाग्रे दर्शायप्यते, तत्र'ओगिण्हय'त्ति अवगृह्यतऽनेति अवग्रहणं, करणेऽनट, व्यञ्जनावग्रहः-प्रथमसमयप्रविष्ट-- शब्दादिपुद्गलादानपरिणामः, तद्भावोऽवग्रहणता। । .' तथा 'उवधारणय'त्ति धार्यतेऽनेनेति धारणं, उप सामीप्येन धारणं उपधारणं व्यञ्जनावग्रहेऽपि द्वितीयादिसमयेषु प्रतिसमयपूर्वापूर्वशब्दादिपुद्गलादानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीतशब्दादिपुद्गलधारणपरिणाम: तद्भाव उपधारणता, तथा 'सवणय'त्ति श्रूयतेऽनेनेति श्रवणमेकसामयिक: सामान्यर्थावग्रहरूपो बोधपरिणाम: तद्भावः श्रवणता, तथा अवलंबणय'त्ति अवलम्ब्यते इति अवलम्बनं, 'कुद्बहुल मिति वचनात्कर्मण्यनट, विशेषसामान्यार्थावग्रहः, कथं विशेपसामान्यार्थावग्रहोऽवलम्बनमिति?, चेत्, उच्यते-इह शब्दोऽयमित्यपि ज्ञानं विशेषावगमन• रूपत्वादवायज्ञानं, तथाहि-शब्दोऽयं नाशब्दो रूपादिरिति शब्दस्वरूपावधारणं विशेषावगमः, ततोऽस्मात् यत्पूर्वनिर्देश्यसामान्यमात्रग्रहणमेकसामयिकं स पारमार्थिकार्थावग्रहः, तत ऊर्ध्वं तु यत्किमिदमिति विमर्शनं साईहा, तदनन्तरंतु यच्छब्दस्वरूपावधारणं शब्दोऽयमिति तदवायज्ञानं, तत्रापि यदा उत्तरधर्मजिज्ञासा भवति-किमयं शब्दः शाङ्खः किंवा शाङ्गः?
इति तदा पाश्चात्यं शब्द इति ज्ञानं विशेपावगमापेक्षया सामान्यमात्रालम्बनमित्यवग्रह इत्युपचर्यते, सच परमार्थतः सामान्यविशेषरूपार्थालम्बन इति विशेषसामान्यार्थावग्रह इत्युच्यते, इदमेव च शब्द इति ज्ञानमवलम्ब्य किमयं शाङ्कः? किंवा शाङ्गः? इति ज्ञानमदयते, ततो विशेषसामान्यार्थावग्रहोऽवलम्बन इत्युक्तः ततोऽवलम्बनस्य भावोऽवलम्बनता ततोऽप्यूर्व किमयंशाङ्कः? किंवा शाङ्गः इतीहित्वा यच्छाङ्खएव शाङ्गः एव वेति ज्ञानं तदवायज्ञानं, तदपि चकिमयंशाङ्खोऽपिशब्द: मन्द्रः किं वा तार? इत्युत्तरविशेषजिज्ञासायां पाश्चात्यं पाश्चात्यमवायज्ञानमुत्तरोत्तरविशेषावगापेक्षया सामान्यावलम्बनमित्यवग्रह इत्युपचर्यते, किं मन्द्रः?, किंवा तारः? इतीह मन्द्र एवायं तारएवायमित्यवायः, एवमुत्तरोत्तरविशेषजिज्ञासायां पाश्चात्यं पाश्चात्यमवायज्ञानमुत्तरोविशेषावगमापेक्षया सामान्यर्थावलम्बनमित्यवग्रह इत्युपचर्यते, यदा उत्तरधर्मजिज्ञासा न भवति तदा तदत्यन्तविशेषज्ञानमवायज्ञानमेव, नावग्रह इत्युपचर्यते, उपचारानिबन्धना - भावात्, उत्तरविशेषाकांक्षाया अपगमात्, . ततस्तदनन्तरमविच्युतिरूपा धारणा प्रवर्तते, वासनास्मृती तु सर्वेष्वपि विशेषावगमेषु द्रष्टव्ये,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org