________________
१७०
नन्दी-चूलिकासूत्रं तथा चाह प्रवचनोपनिपटेदी भगवान् जिनभद्रगणिक्षमाश्रमण:
"सामन्नमेत्तगहणं निच्छयओ समयमोग्गहो पढमो। तत्तोऽनंतरमीहियवत्थुर्विसेसस्स जोऽवाओ ||१|| सो पुनरीहावायाविक्खाओ उग्गहत्ति उवयरिओ।
एस विसेसावेक्खा सामन्नं गेण्हए जेन ॥२॥ तत्तोऽनंतरमीहा तओ अवाओ यतव्विसेसस्स। इह सामनविसेसाऽवेक्खा जावंतिमो भेओ।।३।।
सव्वत्थेहावाया निच्छयओ मोत्तुमाइसामन्त्रं । संववहारत्थं पुन सव्वत्थावग्गहोऽवाओ॥४॥ तरतमजोगाभावेऽवाओ च्चिय धारणा तदंतंमि।
सव्वत्थ वासना पुन भणिया कालंतरसइय॥५॥ त्ति, तथा 'मेह'त्ति मेधा प्रथमं विशेषसामान्यार्थावग्रहमतिरिच्योत्तर: सर्वोऽपि विशेषसामान्याविग्रहः । तदेवमुक्तानि पञ्चापि नामधेयानि भिन्नार्थानि, यत्र तु व्यञ्जनावग्रहो न घटते तत्राद्यं भेदद्वयं न द्रष्टव्यं, 'सेत्तं उग्गहो'त्ति निगनमनं ।
मू. (११६)से किं तं ईहा!, ईहा छब्विहा पत्रत्ता, तंजहा-सोइंदिअईहा चक्खिदियईहा पाणिदिअईहा जिभिदिअईहा फासिदिअईहा नोइंदिअईहा, तीसे णं इमे एगडिआ नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहा-आभोगणया मग्गणया गवेसणयाचिंता विमंसा,
वृ.अथ केयमीहा?, ईहा पड्विधा प्रज्ञप्ता, तद्यथा- श्रोत्रेन्द्रियेहा इत्यादि, तत्र श्रोत्रेन्द्रियेणेहा श्रोत्रेन्द्रियेहा श्रोत्रेन्द्रियार्थावग्रहमधिकृत्य या प्रवृत्ता ईहा सा श्रोत्रेन्द्रियेहा इत्यर्थः, एवं शेषा अपि साधनीयाः, 'तीसे ण'मित्यादि सुगम, नवरं सामान्यत एकर्थिकानि, विशेषचिन्तायां पुनर्भिन्नार्थानि, तत्र 'आभोगणय'ति आभोग्यतेऽनेनेति आभोगनं-अर्थावग्रहसमनन्तरमेव सद्भूतार्थविशेषाभिमुखामालोचनं तस्य भाव आभोगनता, तथा मार्यतेऽनेनेति मार्गणं-सद्भूतार्थविशेषाभिमुखमेव व्यतिरेकधर्मत्यागतोऽन्वयधर्माध्यासालोचनं तद्भावो गवेषणता, ततो मुहुर्मुहुः क्षयोपशमविशेषतः स्वधर्मानुगतसद्धृतार्थविशेषचिन्तनं चिन्ता, तत ऊर्ध्वं क्षयोपशमविशेषात्स्पष्टतरं सद्भूतार्थविशेषभिमुखमेव व्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोऽन्वयधर्मविमर्शनं विमर्शः 'सेत्तं ईहे ति निगमनम्।
मू.(११७) से कितं अवाए?, अवाए छविहे पन्नत्ते, तंजहा-सोइंदिअअवाए, चक्खिदिअअवाए घाणिंदिअअवाए जिभिदिअअवाए फासिदिअअवाए नोइंदिअअवाए, तस्स णं इमे एगडिआ नानाघोसा नानावंजणा पंच नामधिज्जा भवंति, तंजहा-आउट्टणया पच्चाउट्टणया अवाए बुद्धि वित्राणे, सेतं अवाए।।
वृ. अत्र श्रोत्रेन्द्रियेणावायः श्रोत्रेन्द्रियावायः, श्रोत्रेन्द्रियनिमित्तमर्थावग्रहमधिकृत्य यः प्रवृत्तोऽपायः स श्रोत्रेन्द्रियापाय इत्यर्थः, एवं शेषा अपि भावनीयाः । 'तस्स ण' मित्यादि प्राग्वत्, अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां पुनर्नानार्थानि, तत्र आवर्तते -ईहाओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org