________________
मूलं-११७
१७१ निवृत्यापायभावं प्रत्यभिमुखो वर्तते येन बोधपरिणामेन स आवर्तनस्तद्भाव आवर्तनता, तथा
आवर्तनं प्रति ये गता अर्थविशेषेपूत्तरोत्तरेषु विवक्षिता अपायप्रत्यासनतरा बोधविशेषास्ते प्रत्यावर्तनाः तद्भावः प्रत्यावर्त्तनता, तथा अपायो-निश्चयः सर्वथाईहाभावद्विनिवृत्तस्यावधारणाअवधारितमर्थमवगच्छतो यो बोधविशेषः सोऽपाय इत्यर्थः, ततस्तमेवावधारितम) क्षयोपशमविशेषात्स्थिरतया पुनः, पुन: स्पष्टतरमवबुध्यमानस्य वा बोधपरिणतिः सा बुद्धिः, तथा विशिष्टं ज्ञानं विज्ञानं-क्षयोपशमविशेषादेवावधारितार्थविपय एव तीव्रतरधारणाहेतुर्बोधविशेषः, 'सेत्तं अवाए'। इति निगमनम्।
मू.(११८ ) से किंतं धारणा?, धारणा छब्बिहा पन्नत्ता, तंजहा-सोइंदिअधारणा चक्खिदिअधारणा घाणिदिअधारणा जिभिदिअधारणा फासिंदिअधारणा नोइंदिअधारणा, तीसेणं इमे एगडिआ नानाधोसा नानावंजणा पंचनामधिज्जा भवंति, तंजहा-धारणा साधारणाठवणा पइट्ठा कोटे, से तं धारणा।।
वृ.'से कि तं'मित्यादि सुगम, यावद्धारणा इत्यादि, अत्रापि सामान्यत एकार्थानि विशेषार्थचिन्तायां पुनभिन्नार्थानि तत्रापायानन्तरमवगतस्यार्थस्याविच्युत्याऽन्तर्मुहूर्तकालं यावद्धरणं धारणा, ततस्तमेवार्थमुपयोगात् च्युतं जघन्यतोऽन्तर्मुहूर्तादुत्कर्षतोऽसंख्येययकालात् परतो यत्स्मरणं सा धारणा, तथा स्थापना, अपायावधारितस्यार्थस्य हृदि स्थापनं, वासनेत्यर्थः, अन्ये तु धारणास्थापनयोय॑त्यासेन स्वरूपमाचक्षते, तथा प्रतिष्ठिापनं प्रतिष्ठा-अपायावधारितस्यैवार्थस्य हदि प्रभेदेन प्रतिष्ठापनमित्यर्थः, कोष्ठ इव कोष्ठः अविनष्टसूत्रार्थधारणामित्यर्थः । 'सेत्तं धारणा' सेयं धारणा । सम्प्रति अवग्रहादे: कालप्रमाणप्रतिपादनार्थमाह
मू.(११९) उग्गहे इक्कसमइए, अंतोमुहुतिआईहा, अंतोमुहुत्तिए अवाए, धारणा संखेज्ज वाकालं असंखेज्जं वा कालं।
वृ.अवग्रहः-अर्थावग्रहएकसामयिकः, आन्तर्मुहूर्तिकी ईहा, आन्तर्मुहूर्तिकोऽवायः, धारणा संख्येयं वा कालमसङ्खयेयं वा, तत्र सङ्ख्येयवर्षायुषां सङ्खयेयकालमसङ्खयेयं कालं, सा च धारणा सङ्ख्येयमसङ्खयेयं वा कालं यावद्वासनारूपा द्रष्टव्या, अविच्युतिस्मृत्योरजधन्योत्कर्षेणान्तर्मुहूर्तप्रमाणत्वात्, यत उक्तं भाष्यकृता
___"अत्थोग्गहो जहन्नं समओ सेसोग्गहादओ वीसुं।
अंतोमुहुत्तमेगं तु वासना धारणं मोत्तुं॥" मू. (१२०) एवं अट्ठावीसइविहस्स आभिनिबोहिअनाणस्स, वंजणुग्गहस्स परूवणं करिस्सामि पडिबोहगादिट्ठतेण मल्लगदिढ़तेण य।
से किं तं पडिबोहगदिटुंतेणं ?, पडिबोहगदिलुतेण से जहानामाए केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहिज्जा अमुगा अमुगत्ति, तत्थ चोअगे पत्रवर्ग एवं क्यासी-किं एगसमयपविट्ठा पुग्गला गहणमागच्छति दुसमयपविट्ठा पुग्गला गहणमागच्छंति जाव दससमयपविट्ठा पुग्गला गहणमागच्छंति संखिज्जासमयपविट्ठा पुग्गला गहणमागच्छति असंखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति ?. एवं वदंतं चोअगं पनवए एवं वयासी-नो एगसमयपविट्ठा पुग्गला गहणमागच्छंति नो दुसमयपविट्ठा पुग्गला गहणमागच्छति जाव नो दससमयपविट्ठा पुग्गला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org