________________
मूलं-११३
१६७ तस्मान्नेतत्समीचीनमिति, तदयुक्तं, यत इह चक्षुषो रूपकृतावनुग्रहोपघातौ तोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृत उपघातोऽस्ति, एतच्च प्रागेवोक्तं, ततो नातिप्रसङ्गापादनमुपपत्तिमत्, अन्यच्चप्रत्यासन्नोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति, पवनम॑नि तु वर्तमानो दूरदेशस्थितोऽपिशृणोति, तथा च लोको वक्तारो-नवयं प्रत्यासत्रा अपी त्वदीयं वचः शृणुमः, पवनस्य प्रतिकूलमवस्थानात्, यदि पुनरप्राप्तमेव शब्दं रूपमिव जनाः प्रमिणुयुः तर्हि वातस्य प्रतिकूलमप्यवतिष्ठमानारूपमिवशब्दं प्रमिणुयुः,नच प्रमिण्वन्ति, तस्मात्प्राप्ता एवशब्दपरमाणवः श्रोत्रेन्द्रियेण गृह्यन्ते इति अवश्यमभ्युपगन्तव्यं, तथा च सति पवनस्य प्रतिकूलमवतिष्ठमानानां श्रोत्रेन्द्रियं न शब्दपरमाणवो वैपुल्येन प्राप्नुवन्ति, तेषामन्यथा वातेन नीयमानत्वात्, ततो न ते शृण्वन्तीति न काचित्क्षितिः, यदपि चोक्तं- 'चाण्डालस्पर्शदोषः प्राप्नोति ति, तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनं, स्पर्शास्पर्शव्यवस्थाया लोके काल्पनिकत्वात्, तथाहि-न स्पर्शव्यवस्था लोके पारमार्थिकी, __तथाहि-यामेव भुवमग्ने चाण्डालः स्पृशन् प्रयाति तामेव पृष्ठतः श्रोत्रियोऽपि, तथा यामेव नावमारोहति स्म चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतश्चाण्डालमपि स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्द पुद्गलस्पर्शेऽपि न भवतीति नकश्चिद्दोपः, अपि च-यथा केतकीदलनिचयं शतपत्रादिपष्पनिचयं वा शिरसि निबध्य वपुषि वा मृगमदचन्दनाद्यवलेपनमारचय्य विपणिवीथ्यामागत्य चाण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धापुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालस्पर्शदोषः प्राप्नोतीति तद्दोषभयान्नासिकेन्द्रियमप्राप्यकारि प्रतिपत्तव्यं, न चैतद्भवतोऽप्यागमे प्रतिपाद्यते, ततो बालिशजल्पितमेतदिति कृतं प्रसङ्गेन ।
केचित्पुनः श्रोत्रेन्द्रियस्याप्राप्यकारित्वमभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिपद्यन्ते, तदयुक्तं, आकाशगुणतयां शब्दस्यामूर्त्तत्वप्रसक्तेः, यो हि यद्गुणः स तत्समानधर्मा, यथा ज्ञान-- मात्मनः, तथा हि-अमूर्त आत्मा, ततस्तद्गुणो ज्ञानमप्यमूर्तमेव, एवं शब्दोऽपि यद्याकाशगुणस्त
ाकाशस्यामूर्तत्वाच्छब्दस्यापितद्गुणत्वेनामूर्तता भवेत्, न चासौ युक्तिसङ्गता, तल्लक्षणायोगात्, मूर्तिविरहो ह्यमूर्तताया लक्षणं, न च शब्द्यानां मूर्त्तिविरहः, स्पर्शवत्त्वात्, तथाहि-स्पर्शवन्तः शब्दाः, तत्सम्पर्कादुपघातदर्शनाल्लोष्टवत्, न चायमसिद्धो हेतुः, यतो दृश्यते सद्योजातबालकानां कर्णदेशाभ्यर्णीकृतगाढास्फालितझल्लरीझात्कारश्रवणतः श्रवणस्फोटो, न चेत्थमुपघातकृत्त्वमस्पर्शवत्त्वे सम्भवति, यथा विहायसः, ततो विपक्षे गमनासम्भवान्नानैकान्तिकोऽपि, अतश्च स्पर्शवन्त: शब्दाः, तैरभिधाते गिरिगह्वरभित्त्यादिपुशब्दोत्थानाल्लोष्टवत्, अयमपि हेतुरुभयोरपि सिद्धः, तथाहि-श्रूयन्ते तीव्रप्रयत्नोच्चारितशब्दाभिधाते गिरिगहरीविषु प्रतिशब्दाः प्रतिदिक, ततः स्पर्शवत्त्वान्मूर्ती एव शब्दाः, 'रूपस्पर्शादिसन्निवेशो मूर्ति रिति वचनप्रामाण्यात्, ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत्?, अपि च__ तदाकाशमेकमनेकं वा?, यद्येकं तहि योजनलक्षादपि श्रूयते, आकाशस्यैकत्वेन शब्दस्य च तद्गुणतया दूरासन्नादिभेदाभावात्, अथानेकमेवं सति वदनदेश एव स विद्यते इति कथं भिन्नदेशवर्तिभिः श्रोतृभिः श्रूयते?, वदनदेशाकाशगुणतया तस्य श्रोतृगतश्रोत्रेन्द्रियाकाश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org