Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 103
________________ १०० . नन्दी-चूलिकासूत्रं तत एतेपामेकोरुकादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं २ चत्वारि २ योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किञ्चिन्यूनपञ्चषष्टयधिकद्वादशयोजनशतपरिक्षेपाः यथोक्तपद्मवरवेदिकावनखण्डमण्डितपरिसरा: हयकपर्णगजकर्णगोकर्णशुष्कुलोकर्णनामानश्चत्वारो द्वीपाः, तद्यथा-एकोरुकस्य परतो हयकर्णः, आभासिकस्य परतो गजकर्णः, वैषाणिकस्य परतो गोकर्णो, नङ्गोलोकस्य परतो शुष्कुलीकपर्ण इति । ततः एतेषामपि हयकर्णादीनां चतुण्ाँ द्वीपानां परत: पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक पञ्च योजनशतनि व्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिक पञ्चदशयोजनशतपरिक्षेपा: पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितबाह्यप्रदेशा आदर्शमुखमण्दमुखायोमुखगोमुखनामानश्चत्वारो द्वीपाः तद्यथा-हयकण्णस्य परतः आदर्शमुखो, गजकर्णस्य परतो मेण्द्रमुखो, गोकर्णस्य परतो अयोमुखः, शुष्कुलीकर्णस्य परतो गोमुख, एवमग्रेऽपि भावना कार्या। ततः एतेषामप्यादर्शमुखादीनां चतुण्णां द्रीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षड्योजनशतान्यतिक्रम्य षयोजनशतायामविष्कम्भाः सतनवत्यधिकाष्टादशयोजनशतपरिक्षेया यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपाः । तत एतेषामप्यश्वमुखादीनां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त २ योजनशतानि अतिक्रम्य सप्त २ योजनशतायामविष्क भास्त्रयोदशाधिकद्वाविंशतियोजनशतपरिधयः पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डसमवगूढा अश्वकर्णहरिकपर्णहस्तिकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपाः। तत एतेषामप्यश्वकर्णादीनां चतुण्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टावष्टौ योजनशतान्यतिक्रम्य अष्ट र योजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपावरवेदिकावनखण्डमण्डितपरिसरा उल्कामुखमेधसुखविद्युन्मुखविद्युदन्ताभिधानाश्चत्वारो द्वीपा: । ततोऽमीषामपि उल्कामुखादीनां चतुण्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं नव नव योजनशतान्यतिक्रम्य नवनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्ठाविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणापद्मवरवेदिकावनखण्डसमवगूढाः समदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः । एवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसङ्घयया अष्टाविंशतिसङ्ख्या द्वीपाः । __ एवं हिमवत्तुल्यवर्णप्रमाणे पाहूदप्रमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि पर्वते लवणार्णवजलसंस्पर्शादारभ्य चतुसृषु विदिक्षुव्यवस्थिता: एकोरुकादिनामानोऽक्षूणापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा वक्तव्याः। ततः सर्वसङ्ख्यया षट्पञ्चाशदन्तरद्वीपाः। एतेषु च वर्तमाना मनुष्या अपि एवंनामानो भवन्ति, भवति च निवासयोगत: तथाव्यपदेशो यथा पञ्चालजनपदनिवासिनः पुरुषाः पञ्चाला इति, तेऽपि चान्तरद्वीपवासिनो मनुष्या वर्षभनाराचसंहनिनः समचतुरस्रसंस्थानसंस्थिताः समग्रशुभलक्षणतिलकमषपरिकालिता देवलोकानुकारिरूपलावण्यालङ्कारशोभितविग्रहाअष्टधनुःशतप्रमाणशरीरच्छायाः, स्त्रीणां त्विदमेव किञ्चिन्न्यूनं द्रष्टव्यं, तथा पल्योपमासङ्खयेयभागप्रमाणायुषः स्त्रीपुरुषयुगलव्यवस्थिता: दशविध Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265