________________
१००
. नन्दी-चूलिकासूत्रं तत एतेपामेकोरुकादीनां चतुर्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं २ चत्वारि २ योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कम्भाः किञ्चिन्यूनपञ्चषष्टयधिकद्वादशयोजनशतपरिक्षेपाः यथोक्तपद्मवरवेदिकावनखण्डमण्डितपरिसरा: हयकपर्णगजकर्णगोकर्णशुष्कुलोकर्णनामानश्चत्वारो द्वीपाः, तद्यथा-एकोरुकस्य परतो हयकर्णः, आभासिकस्य परतो गजकर्णः, वैषाणिकस्य परतो गोकर्णो, नङ्गोलोकस्य परतो शुष्कुलीकपर्ण इति ।
ततः एतेषामपि हयकर्णादीनां चतुण्ाँ द्वीपानां परत: पुनरपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येक पञ्च योजनशतनि व्यतिक्रम्य पञ्चयोजनशतायामविष्कम्भा एकाशीत्यधिक पञ्चदशयोजनशतपरिक्षेपा: पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितबाह्यप्रदेशा आदर्शमुखमण्दमुखायोमुखगोमुखनामानश्चत्वारो द्वीपाः तद्यथा-हयकण्णस्य परतः आदर्शमुखो, गजकर्णस्य परतो मेण्द्रमुखो, गोकर्णस्य परतो अयोमुखः, शुष्कुलीकर्णस्य परतो गोमुख,
एवमग्रेऽपि भावना कार्या। ततः एतेषामप्यादर्शमुखादीनां चतुण्णां द्रीपानां परतो भूयोऽपि यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं षड्योजनशतान्यतिक्रम्य षयोजनशतायामविष्कम्भाः सतनवत्यधिकाष्टादशयोजनशतपरिक्षेया यथोक्तप्रमाणपद्मवरवेदिकावनखण्डमण्डितपरिसरा अश्वमुखहस्तिमुखसिंहमुखव्याघ्रमुखनामानश्चत्वारो द्वीपाः । तत एतेषामप्यश्वमुखादीनां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं सप्त २ योजनशतानि अतिक्रम्य सप्त २ योजनशतायामविष्क भास्त्रयोदशाधिकद्वाविंशतियोजनशतपरिधयः पूर्वोक्तप्रमाणपद्मवरवेदिकावनखण्डसमवगूढा अश्वकर्णहरिकपर्णहस्तिकर्णकर्णप्रावरणनामानश्चत्वारो द्वीपाः।
तत एतेषामप्यश्वकर्णादीनां चतुण्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकमष्टावष्टौ योजनशतान्यतिक्रम्य अष्ट र योजनशतायामविष्कम्भा एकोनत्रिंशदधिकपञ्चविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणपावरवेदिकावनखण्डमण्डितपरिसरा उल्कामुखमेधसुखविद्युन्मुखविद्युदन्ताभिधानाश्चत्वारो द्वीपा: । ततोऽमीषामपि उल्कामुखादीनां चतुण्णा द्वीपानां परतो यथाक्रमं पूर्वोत्तरादिविदिक्षु प्रत्येकं नव नव योजनशतान्यतिक्रम्य नवनवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाष्ठाविंशतियोजनशतपरिक्षेपा यथोक्तप्रमाणापद्मवरवेदिकावनखण्डसमवगूढाः समदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः । एवमेते हिमवति पर्वते चतसृषु विदिक्षु व्यवस्थिताः सर्वसङ्घयया अष्टाविंशतिसङ्ख्या द्वीपाः । __ एवं हिमवत्तुल्यवर्णप्रमाणे पाहूदप्रमाणायामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि पर्वते लवणार्णवजलसंस्पर्शादारभ्य चतुसृषु विदिक्षुव्यवस्थिता: एकोरुकादिनामानोऽक्षूणापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा वक्तव्याः। ततः सर्वसङ्ख्यया षट्पञ्चाशदन्तरद्वीपाः।
एतेषु च वर्तमाना मनुष्या अपि एवंनामानो भवन्ति, भवति च निवासयोगत: तथाव्यपदेशो यथा पञ्चालजनपदनिवासिनः पुरुषाः पञ्चाला इति, तेऽपि चान्तरद्वीपवासिनो मनुष्या वर्षभनाराचसंहनिनः समचतुरस्रसंस्थानसंस्थिताः समग्रशुभलक्षणतिलकमषपरिकालिता देवलोकानुकारिरूपलावण्यालङ्कारशोभितविग्रहाअष्टधनुःशतप्रमाणशरीरच्छायाः, स्त्रीणां त्विदमेव किञ्चिन्न्यूनं द्रष्टव्यं, तथा पल्योपमासङ्खयेयभागप्रमाणायुषः स्त्रीपुरुषयुगलव्यवस्थिता: दशविध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org