________________
मूलं-८१
१०१ कल्पपादसम्पाद्योपभोगसम्पदः प्रकृत्यैव शुभचेतसो विनीताः प्रतनुक्रोधमानमायालोभाः सन्तोषिणो निरौत्सुक्या: कामचारिणोऽनुलोमवायुवेगाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादिक ममत्वकारिणि ममत्वाभिनिवेशरहिताः सर्वथापगतवैरानुबन्धाः परस्परप्रेष्यादिभावविनिर्मुक्ता अत एवाहमिन्द्रा हस्त्यश्वकरभगोमहिष्यादीनां सद्भावेऽपि तत्परिभोगपरांमुखाः पादविहारचारिणो रोगवेदनादिवकिला वर्तन्ते चतुर्थाहारमेते गृह्णन्ति चतुःषष्टिश्च पृष्टकरण्ड-कास्तेषां, पण्मासावशेषायुपश्चामी स्त्रीपुरुषयुगलं प्रसुवते एकोनाशीतदिनानि च तत् परिपाल-यन्ति स्तोकस्नेहकषायतया च ते मृत्वा देवलोकमुपसर्पन्ति, उक्तं च -
"अंतरदीवेसु नरा धनुसयअट्ठसिया सयामुइया। पालंति मिहुणधम्म पल्लस्स असंखभागाउ ।। चउसट्ठी पिट्टिकरंडयाण मणुआण तेसिमाहारो।
भत्तस्स चउत्थस्स य अनुसीति दिनानि पालणया॥" इत्यादि, तिर्यञ्चोऽपि च तत्र व्याघ्रसिंहसर्पादयो रौद्रभावरहिततया न परस्परंहिंस्यहिंसकभावे वर्तन्ते, तत एव तेऽपि देवलोकगामिनो भवन्ति, तेपुच द्वीपेषु शाल्यादीनि धान्यानि विस्त्रसात एव समुत्पद्यन्ते परं न ते मनुष्यादीनां परिभोगाय जायन्ते, तेषु च द्वीपेषु दंशमशकयुकामत्कुणादयः शरीरोपद्रवकारिणोऽनिष्टसूचकाच चन्द्रसूर्योपरागादयो न भवन्ति, भूमिरपि तत्र रेणुपङ्ककण्टकादिरहिता सकलदोषपरित्यक्ता सर्वत्र समतला रमणोया च वर्तत इति।।
तथा 'संखेज्जवासाउय'त्ति सङ्घयेयवर्षायुषः पूर्वकोट्यदिजीविनः असङ्ख्येयवर्षायुषःपल्योपमादिजीविनः, तथा 'पज्जत्तग'त्ति पर्याप्ति:-आहारादिपुद्गलग्रहणपरिणामनहेतुरात्मनः शक्तिविशेषः, स च पदगलोपचयात, किमुक्तं भवति?-उत्पत्तिदेशमागतेन येन गृहीता आहारदिपुद्गलास्तेषां तथा अन्येषां च प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतः तद्रूपतया जातानामुपष्टम्भेन यः शक्तिविशेषो जीवस्याहारादिपुद्गलानां खलरसादिरूपतया परिणमनहेतुर्यर्थो दरान्तर्गतानां पुद्गलविशेषाणामवष्टम्भेनाहारपुदगलखलरसरूपतयापादनहेतुः शक्तिविशेषः सा पर्याप्तिः, सा च षोढा, तद्यथा___ आहारपर्याप्तिः शरीरपर्यासिः इन्द्रियपर्याप्तिः प्राणापानपर्याप्ति: भाषापर्याप्तिः मन:पर्याप्तिश्चेति, तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः ?, यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्ति: २, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः ३, यया पुनरुच्छ्वासप्रयोग्यवर्गणादलिकमादायोच्छ्वासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा उच्छासपर्याप्तिः ४, यया तु भाषाप्रयोग्यवर्गणादलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः ५, यया पुनर्गनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः ६,
एताश्च यथाक्रममेकेन्द्रियाणां संजिवर्जानां द्वीन्द्रिवादीनां संजिनां च चतुःपञ्चष्ट्सङ्ख्या भवन्ति, उत्पत्तिप्रथमसमय एव चैता यथायथं सर्वा अपि युगपन्निष्पादयितुमारभ्यन्ते क्रमेण च निष्ठामुपयान्ति, तद्यथा-प्रथममाहारपर्याप्तिः ततः शरीरपयांप्तिः तत इन्द्रियपर्याप्तिरित्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org