________________
१०२
नन्दी-चूलिकासूत्रं आहारपर्याप्तिश्च प्रथमसमय एव निप्पद्यते, शेषास्तु प्रत्येकमन्तर्मुहर्तेन कालेन, अथाहारपर्याप्ति: प्रथमसमय एव निष्पद्यते इति कथमवसीयते?, उच्यते, इह भगवता आर्यश्यामेन प्रज्ञापनाया-- माहारपदे द्वितीयोद्देशके सूत्रमिदमपाठि-'आहारपज्जत्तीए अपज्जत्तएणं भंते ! किं आहारए अनाहारए वा?. गोयमा ! नो आहारए अनाहारए'त्ति तत आहार पर्याप्ता अपर्याप्तो विग्रहगताववोपपद्यते, नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रमागतस्य प्रथमसमय एवाहारकत्वात्, तत एकसामायिकी आहारपर्याप्तिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रमागतोऽपि आहारपर्याप्त्या अपर्याप्त: स्यात् तत एवं सति व्याकरणसूत्रमित्थं पठेत्-'सिय आहारए सिय अनाहारए' यथा शरीरादिपर्याप्तिपु, सर्वासामपि च पर्याप्तानां परिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः पर्याप्तयो विद्यन्ते येषां ते पर्याप्ता 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः ।
ये पुनः स्वयोग्यपर्याप्तिसमाप्तिविकलाः ते अपर्याप्ताः, त च द्विधा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव सन्तो भ्रियन्ते न पुनः स्वयोग्यपर्याप्तिः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, तेऽपिनियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते, नार्वाक, यस्मादागमिभवायुर्बद्ध्वा म्रियन्ते सर्व एव देहिनः, तच्चाहारशरीरेन्द्रियपर्याप्तिपर्याप्सनामेव बध्यत इति, ये पुनः करणानि-शरीरन्द्रियादीनि न तावनिर्वर्त्तयन्ति अथ चावश्यं निर्वर्तयिष्यन्ति ते करणापर्याप्तकाः, इहोभयेषामप्यपर्याप्तानां प्रतिषेधः, उभयेषामपि विशिष्टचारित्रप्रतिपत्त्यसम्भवात, __ तथा 'सम्मद्दिट्ठी'त्ति सम्यक्-अविपरीता दृष्टि:-जिनप्रणीतवस्तुप्रतिपत्तिर्येषां ते सम्यग्दृष्टयः, मिथ्या-विपरीतार्याये वा मतिदौर्बल्यादिना एकान्तेन सम्यकपरिज्ञानमिथ्याज्ञानाभावतो न सम्यक् श्रद्धानं नाप्येकान्ततो विप्रतिपत्तिः ते सम्यग्मिध्यादृष्टयः, उक्तं च शतकबृहच्चूण्णी'जहां नालिकेरदीववासिस्स सुहाइयस्सवि एत्थ समागयस्स ओयणाइए अनेगविहे ढोइए तस्स उरिन रुई न य निंदा, जओ तेन सो ओयणाईओ आहारो न कयाइ दिट्ठो नावि सुओ, एवं सम्ममिच्छद्दिट्ठिस्स वि जीवाइपयत्थाणं उवरिन य रुई नाविनंदि'त्ति, तथा 'संजय'त्ति 'यम' उपरमे संयच्छन्ति स्म सर्वसावधयोगेभ्यस्सम्यगपरमन्ते स्मेति संयताः, “गत्यर्थ-कर्मण्याधारे"ति कतरिक्तप्रत्ययः, संयताः-सकलचारित्रिणः असंयता-अविरतसम्यग्दृष्टयः संयतासंयता:-देवशविरतिमन्तः, तथा 'पमत्त'त्ति प्रमाद्यन्ति स्म मोहनीयादिकर्मोदयप्रभावतः सञ्जवलनकषायनिद्राद्यन्यतमप्रमादयोगत: संयमयोगेषु सीदन्ति स्मेति प्रमात्ताः, पूर्ववत् कर्तरि क्तप्रत्ययः, ते च प्रायो गच्छवासिनः, तेषां क्वचिदनुपयोगसम्भवात्, तद्विपरीता अप्रमत्ताः, ते च प्रायो जिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिकप्रतिमाप्रतिपन्नाः, तेषां सततोपयोगसम्भवाद्, इह तु ये गच्छवासिन तन्निर्गता वा प्रमादरहिताः तेऽप्रमत्ता दृष्टव्याः, तथा 'इड्डिपत्तस्से'त्यादि, ऋद्धी:-आमोषध्यादिलक्षणाः प्राप्ता ऋद्धिप्राप्ताः तद्विपरीता अनृद्धिप्राप्ताः, ऋद्धीश्च प्राप्नुवन्ति विशिष्टमुत्तरोत्तरमपूर्वापूर्वार्थप्रतिपादकं श्रुतमवगाहमानाः श्रुतसामर्थ्यतस्तीवां तीव्रतरां शुभभावनामधिरोहन्तोऽप्रमत्तयतयः, तथा चोक्तम्
'अवगाहते च स श्रुतजलधि प्राप्नोति चावधिज्ञानम् ।
मानसपर्यायं वा ज्ञानं कोष्ठादिबुद्धिर्वा । चारणवैक्रियसौंपधताद्या वा लब्धयस्तस्य् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org