________________
मूलं - ८१
९९
मिच्छादिट्ठी अन्नाणी सव्वाहि पज्जतीहि अपज्जत्तगा अंतमुहुत्ताउया चेव कालं करेंति" । तथा गर्भे व्युत्क्रान्तिः - उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, अथवा गर्भाद् व्युत्क्रान्ति:व्युत्क्रमणं निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः, उभयत्रापि गर्भजा इत्यर्थः, भगवानाह - नो सम्मूच्छिममनुष्याणामुत्पद्यते, तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात्, किन्तु गर्भव्यत्क्रान्तिकमनुष्याणां एवं सर्वेपामपि प्रश्ननिर्वचनसूत्राणां भावार्थो भावनीयः,
नवरं कृषिवाणिज्य तप: संयमानुष्ठानादिकर्मप्रधाना भर्मयः कर्मभूमयो- भरतपञ्चकैरवतपञ्चकमहाविदेहपञ्चकलक्षणा: पञ्चदश तासु जाताः कर्मभूमिजा:, कृष्यादिकर्म्मरहिताः कल्पपादफलोपभोग प्रधाना भूमयो हमत्तपञ्चक हरिवर्षपञ्चकदेवकुरुपञ्चकोत्तरकुरुपञ्चकरम्यक.. पञ्चकैरण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमयः तासु जाता अकर्मभूमिजा:, तथा अन्तरे - लवणसमुद्रस्य मध्ये द्वीपा अन्तरद्वीपा :- एकोरुकादयः षट्पञ्चाशत् तेषु जाताः अन्तरद्वीपजाः ।
अथ लवणसमुद्रस्य मध्ये षट्पञ्चाशदन्तरद्वीपा वर्तन्ते किंप्रमाणा वा ते किंस्वरूपा वा तत्र मनुष्या इति ?, उच्यते, इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिमग्नपञ्चविंशतियोजनो योजनशतोच्छ्रायप्रमाणां भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्चीनपट्टवर्णो नानावर्णाविशिष्टद्युतिमणिनिकरपरिभण्डितपार्श्वः सर्वत्र तुल्यविस्तरो गगनमण्डलोल्लिखितरत्नमयैकादशकूटोपशोभितः तपनीयमयतलविविधमणिकनकमण्डिततटदशयोजनावगाढपूर्वपश्चिमयोजन सहस्त्रायामदक्षिणोत्तरयोजनापञ्चशतविस्तृतपद्महूदोपशोभितशिरोमध्यभागः कल्पपादपश्रेणिरमणीय: पूर्वापरपर्यन्ताभ्यां लवणार्णवजलसंस्पर्शी हिमवत्रामा पर्वतः तस्य लवणार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चिमायां च दिशि प्रत्येकं द्वे द्वे गजदन्ताकारे दंष्ट्रे विनिर्गते, तत्र ऐशान्यां दिशि या विनिर्गता दंष्ट्रा तस्यां हिमवतः पर्यन्तादारभ्य त्रीणि योजनशतानि लवलसमुद्रवगाह्य अत्रान्तरे योजनशतत्रयायामविष्कम्भः किञ्चिन्यूनैकोनपञ्चाशदधिकनवयोजनशतपरिरय एकोरुकनामा द्वीपो वर्त्तते, अयं च पञ्चधनुः शतप्रमाणविष्कम्भया गव्यूतद्वयोच्छ्रितया पद्मवरवेदिकवा वनखण्डेन च सर्वतः परिमण्डितः,
एवं तस्यैव हिमवतः पर्वतस्य पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि योजनशतानि लवणसमुद्रमवगाह्यं द्वितीयदंष्ट्रायामुपरि एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्त्तते, तथा तस्यैव हिमवतः पश्चिमायां दिशि पर्यन्तादारभ्य दक्षिणपश्चिमायां, नैर्ऋतकोणानुसारेण इत्यर्थः, त्रीणि योजनशतानि लवणसमुद्रे दंष्ट्रामतिक्रमयात्रान्तरे यथोक्त प्रमाणो वैषाणिकनामा द्वीपो वर्त्तते, तथा तस्यैव हिमवतः पश्चिमायामेव दिशि पर्यन्तादारभ्य पश्चिमोत्तरस्यां दिशि, वायव्यकोणानुसारेण इत्यर्थः, त्रीणि शतानि योजनानां लवणसमुद्रमध्ये चतुर्थीदंष्ट्रामतिक्रम्यात्रान्तरं पूर्वोक्तप्रमाणो नङ्गोलिकनामा द्वीपो वर्त्तते, एवमेते चत्वारो द्वीपा हिमवतः चतसृष्वपि विदिक्षु तुल्यप्रमाणा अवतिष्ठन्ते, उक्तं च
Jain Education International
"चुल्लहिमवंतपुवावरेण विदिसासु सागरं तिसए। गंतूनंतरदीवा तिनि सए होंति विच्छिन्ना ।। अउणापत्रनवस किंचूने परिहि एसिमे नामा | एगोरुअ आभासिय वेसाणी चेव नंगली ॥
For Private & Personal Use Only
-
www.jainelibrary.org