Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 32
________________ मूलं-३ कथं श्रद्धेयम्?, न खलु लङ्घनमभ्यासत: तारतम्यवदप्युपलभ्यमानं सकललोकविपयमुपलभ्यते, तदसद्, दृष्टान्तदान्तिकयोर्वैषम्यात्, तथाहि-नलङ्घनमभ्यासादुपजायते, किन्तु बलविशेषतः, तथाहि-समानेऽपि गरुत्मन्छाखामृगशावक्योभ्यासे न समानं लङ्घनम्, उक्तं च "गरुत्मच्छाखामृगयोर्लङ्घनाभ्याससम्भवे । समानेऽपि समानत्वं, लङ्घनस्य न विद्यते।।" अपि च-पुरुषयोरपि द्वयोः समानप्रथमयौवनयोपि समानेऽप्यभासे एकः प्रभूतं लवयितुं शक्नोति अपरस्तु स्तोकं, तस्माइलसापेक्ष लङ्घनं नाभ्यासमात्रहेतुकम्, अभ्यासस्तु केवलं देहवैगुण्यमात्रमपनयति, तच्च बलं वीर्यान्तरायकर्मक्षयोपशमात्, क्षयोपशमश्च जातिभेदापेक्षी द्रव्यक्षेत्राद्यपेक्षी च, ततो यम्य यावलं तस्य तावदेव लङ्घनमिति तन्त्र सकललोकविषयं, जीवस्तु शशाङ्कइव स्वरूपेण सकलजगत्प्रकाशनस्वभावः, केवलमावरणधनपटलतिरस्कृतप्रभावत्वात् न तथा प्रकाशते, उक्तं च-- "स्थितः शीतांजुवज्जीवः, प्रकृत्या भावशुद्धया। चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवत्।।" ततो यथा प्रचण्डनैर्ऋतपवनप्रहता धनपटलपरमाणवः शनैः शनैनिःस्नेहीभूयापगच्छन्ति, तदपगमनानुसारेण च चन्द्रस्य प्रकाशो जगति वितनुते, तथा जीवस्यापि रागादिभ्यः चित्तं विनिवर्त्य कायावाकचेष्टासु संयतस्य सम्यकशास्त्रानुसारेण च यथावस्थितं वस्तु परिभावयतो ज्ञानादिभावनाप्रभावतो ज्ञानावरणीयादिकम्मपरमाणवः शनैः शनैनि:स्नेहीभूयात्मन: प्रच्यवन्ते, कथमेतत्प्रत्येयमिति चेत् ?, उच्यते, इहाज्ञानादिनिमित्तकं ज्ञानावरणीयादि कर्म, ततः तत्प्रतिपक्षज्ञानाद्यासेवनेऽवश्यं तदात्मनः प्रच्यवते, उक्तं च "बंधइ जहेव कम्म अन्नाणाईहिं कलुसियमणो उ। तह चेव तव्विवक्खे सहावओमुच्चइ जेणं॥" ज्ञानावरणीयकर्मपरमाणुप्रच्यवनानुसारेण चात्मनः शनैः शनैर्ज्ञानमधिकमधिकतरमुल्लसति, यदातु ज्ञानादिभावनाप्रकर्षवशेनाशेषज्ञानावरणीयादिकर्मपरमाण्वपगमः तदा सकलाभ्रपटलविनिर्मुक्तशशाङ्क इव आत्मा लब्ययथावस्थितात्मस्वरूप: सकलस्यापि जगतोऽवभासकः, ततो ज्ञानस्य प्रकर्षः सकललोकविषयः, अथवा सर्वं वस्तु सामान्येन शास्त्रेऽपि प्रतिपाद्यते यथा पञ्चास्तिकायात्मको लोकः आकाशास्तिकायात्मकश्चालोकः, किञ्चिद्विशेषतश्च ऊर्ध्वाधिस्तिर्यग्लोकाकाशानां सविस्तरंतत्राभिधानात्, शास्त्रानुसारेण च ज्ञानाभ्यास: ततः तरतमभावोऽपि ज्ञानस्य सकलवस्तुविषय एवेति प्रकर्षभावः तद्विषयो न विरुध्यते, लङ्गनंत सामान्यतोऽपि न सकललोकविषयमिति कथमभ्यासतः, तत्प्रकर्षः सकललोकविषयो भवेत् ?, स्यादेतद्यद्यपि सामान्यतः शास्त्रानुसारेण सकलवस्तुविषयं ज्ञानमुपजायते तथाऽप्यभ्यासातः तत्प्रकर्षः सकलवस्तुगताशेपविशेषविषय इति कथं ज्ञायते?, न ह्यत्र किञ्चित् प्रमाणमस्ति, न चाप्रमाणकं वचो विपश्चितः प्रतिपद्यन्ते विपश्चित्ताक्षितिप्रसङ्गात्, तदसत्, अनुमानप्रमाणसद्भावात्, तच्चानुमानमिदं-जलधिजलपलप्रमाणादयो विशेषाः कस्यचित्प्रत्यक्षाः, ज्ञेयत्वात्, घटादिगतरूपादिविशेषवत्, ज्ञेयत्वं हि ज्ञानविषयतया व्याप्तं, न च जलधिजलपलप्रमाणादिरूपेषु विशेषेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265