________________
अध्ययनं-१ - [नि.९३७]
३६३ वसायमलरहिता 'सूक्ष्मा' अत्यन्तदुःखावबोधसूक्ष्मव्यवहितार्थपरिच्छेदसमर्था यस्य मतिः' इति यस्यैवंभूता बुद्धिः स बुद्धिसिद्ध इति, यश्चतुर्विधया वा औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या सम्पन्नः स बुद्धिसिद्धो वर्तते, इयं च सा चतुर्विधा बुद्धिरिति गाथार्थः ॥ नि. (९३८) उप्पत्तिओ १ वेणइआ २, कमिया ३ पारिणामिआ ४ ।
बुद्धी चउव्विहा वुत्ता, पंचमा नोवलब्मए॥ वृ-उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह-क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधरण इति न विवक्ष्यते, न चान्यछास्त्रकर्माभ्यासादिकमपेक्षत इति १, विनयः-गुरुशुश्रूषा स कारणमस्यास्तप्रधाना वा वैयनिकी २, अनाचार्यकं कर्म साचार्यकं शिल्पं, कादाचित्कं वा कर्म शिल्पं नित्यव्यापारः, 'कर्मजा' इति कर्मणो जाता कर्मजा ३, परिः-समन्तानमनं परिणामः-सुदीर्घकालपूर्वापराबलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तप्रधान वा पारिणामिकी ४, बुध्यतेऽनयेति-बुद्धिः-मतिरित्यर्थः, सा च चतुर्विधोक्ता तीर्थकरगणधरैः, किमिति?, यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽप्यसत्त्वादिति गाथार्थः ।। औत्पत्तिक्या लक्षणं प्रतिपादयत्राहनि. (९३२) पुबमदिट्टमस्सुअमवेइअ तक्खणविसुद्धगहिअत्था ।
अव्वाहयफलजोगिणि बुद्धी उप्पत्तिआ नाम ।। दृ- 'पूर्वम' इति बुद्ध्युत्पादात् प्राक् स्वयमष्टोऽन्यतश्चाश्रुतः ‘अवेदित' मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धः-यथावस्थितः गृहीतः-अवधारितः अर्थः-अभिप्रेतपदार्थो यया सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं प्रयोजनम्, अव्याहतं च तत्फलं च अव्याहतफलं योगोऽस्या अस्तीति योगिनी अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति-अव्याहतफलयोगा, अव्याहतफलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः ॥ साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयत्राह--
नि. (९४०)भरहसिल १पणिअ २ रुखे३ खुड्डग ४ पड ५ सरड ६ काग ७ उच्चारे ८१ गय ९ घयण १० गोल ११ खंभे १२, खड्डग १३ मग्गित्थि १४ पइ १५ पुत्ते १६ । नि. (९४१)भरहसिल १ मिंढ २ कुक्कुड ३ तिल ४ वालुअ५ हत्यि ६ अगड ७ वनसंडे 01
पायस ९ अइआ १० पत्ते ११ खाडहिला १२ पंचपिअरो अ१३॥ नि. (९४२)महुसित्य १७ मुद्दि १८ अंके १९ अ नाणए २० भिक्खु २१ चेडगनिहाणे।
सिक्खा य २३ अत्थसत्थे २४ इच्छा य महं २५ सयसहस्से २६ ॥ वृ- आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि-उजेनीए नयरीए आसन्नो गामो नडाणं, तत्थेगस्स नडस्स भन्जा मया, तस्स य पुत्तो डहरओ, तेन अन्ना आनीया, सा तस्स दारगस्स न वट्टइ, तेन दारएण भणियं-मम लटुं न वट्टसि, तहा ते करेमि जहा मे पाएसु पडिसित्त, तेन रत्ति पिया सहसा भणिओ-एस गोहो एस गोहोत्ति, तेन नार्य-मम महिला विनट्ठत्ति सिढिलो रागो जाओ, सा भणइ-मा पुत्ता ! एवं करेहि, सो भणइ-मम लटुं न वट्टसि, भणइ-वट्टीहामि, ता लट्ठ करेमि, सा वट्टिउमारद्धा, अत्रया छाहीए चेव एस गोहो एस गोहोत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org