Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 763
________________ आवश्यक मूलसूत्रम्-२-६/७७ वागदुष्प्रणिधानं कृतसामायिकस्यासभ्यनिष्ठुरसावधवाक्प्रयोग इति, उक्तं च "कडसामइओ पुव्वं बुद्धीए पेहितूण भासेज्जा । सइ निरवजं वयणं अन्नह सामाइयं न भवे ॥२॥" कायदुष्प्रणिधान कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापनमिति, उक्तं च __ “अनिरिक्खियापमञ्जिय थंडिल्ले ठाणमादि सेवेन्तो। हिंसाभावेवि न सो कडसामइओ पमादाओ ।।१॥" सामायिकस्य स्मृत्यकरणं-सामायिकस्य सम्बन्धिनी या स्मरणा स्मृतिः-उपयोगलक्षणा तस्या अकरणम्-अनासेवनमिति, एतदुक्तं भवति-प्रबलप्रमादवान् नैव स्मरत्यस्यां वेलायां मया यत्सामायिक कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तं च “न सरइ पमादजुत्तो जो सामइयं कदा तु कातव्वं । कतमकतं वा तस्स हु कयंमि विफलं तयं नेयं ॥१॥" सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणं, अनवस्थितमल्पकालं वा करणानन्तरमेव त्यजति, यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्तं च "कातूण तक्खणं चिय पारेति करेति वा जधिच्छाए । अनवट्ठियं सामइयं अनादरातो न तं सुद्धं ॥१॥" उक्तं सातिचारं प्रथमं शिक्षापदव्रतमधुना द्वितीयं प्रतिपादयन्नाह मू. (७८) दिसिव्वयगहियस्स दिसापरिरमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स समणो० इमे पञ्च०, तं जहा-आणवणप्पओगे पेसवणप्पओगे सदाणुवाए रूवाणुवाए बहिया पुग्गलपक्खेवे ॥ वृ-दिग्व्रतं प्राग व्याख्यातमेव तद्गृहीतस्य दिक्परिमाणस्य दीर्घकालस्य यावजीवसंवत्सरचतुर्मासादिभेदस्य योजनशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिनंप्रतिदिवसमित्येतच्च प्रहरमुहूर्ताद्युपलक्षणं प्रमाणकरणं-दिवसादिगमनयोग्यदेशस्थापनं प्रतिदिनप्रमाणकरणं देशावकाशिकं, दिगव्रतगृहीतदिक्परिमाणस्यैकदेशः-अंशः तस्मिन्नवकाशःगमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं, एतच्चाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसङ्खपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तद्विषयसक्षेपाभावाद् भावे वा पृथशिक्षापदभावप्रसङ्गादित्यलं विस्तरेण ! एत्य य सप्पदिटुंतं आयरिया पण्णवयंति, जधा सप्पस्स पुव्वं से बारसजोयणाणि विसओ आसि, पच्छा विजावादिएण ओसारेंतेन जोयणे दिद्विविसओ से ठवितो, एवं सावओवि दिसिब्बतागारे बहयं अवररज्झियाउ, पच्छा देसावगासिएणं तंपि ओसारेति । अथवा विसदिटुंतो-अगतेन एक्काए अंगुलीए ठवितं, एवं विभासा । __इदमपि शिक्षाव्रतमतिचाररहितमनुपालनीयमित्यत आह-'देसा० देशावकाशिकस्यप्राग्निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा'आनयनप्रयोगः' इह विशिष्टे देशाधि (दि) के भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्यदन्यः For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808