Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 775
________________ ३२० आवश्यक मूलसूत्रम् -२-६/८१ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यद्वारावयवार्थप्रति-पादनायाह[भा.२४६) पञ्चक्खाणं सव्वन्नुदेसिअं जं जहिं जया काले । तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ।। वृ-प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'यदिति यत् सप्तविंशतिविधस्यान्यतमं, सप्तविंशतिविधं च पञ्चविधं साधूमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविधं श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे चतुर्यामे पञ्चयामे वा श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाह्ने पराले वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचारात् तस्यैव तथापरिणतत्वाजानीहि श्रद्धानशुद्धमिति गाथार्थः ॥ [भा.२४७] पच्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्यं । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ।। वृ- ज्ञानशुद्ध प्रतिपाद्यते, तत्र प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषयं तज्जानीहि ज्ञानशुद्धमिति गाथार्थः । विनयशुद्धमुच्यते, तत्रेयं गाथा[भा.२४८] किइकम्मस्स विसोही पउंजई जो अहीनमइरित्तं । मनवयणकायगुत्तो तं जाणसु विनयओ सुद्धं ।। वृ-कृतिकर्मणः-वन्दनकस्येत्यर्थः विशुद्धिं-निरवद्यकरणक्रियां प्रयुङ्क्ते यः सः प्रत्यख्यानकाले अन्यूनातिरिक्तिां विशुद्धिं मनोवाकायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो-विनयेन शुद्धमिति गाथार्थः ।। [भा.२४९] अनुभासइ गुरुवयणं अक्खररपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणणु भासणासुद्धं ।। वृ- अधुनाऽनुभाषणशुद्ध प्रतिपादयत्राह-कृतकृतिकर्मा प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनं, लघुतरेण शब्देन भणतीत्यर्थः, कथमनुभाषते ?-अक्षरपदव्यञ्जनैः परिशुद्धं, अनेनानुभाषणायलमाह, णवरं गुरू भणति वोप्सिरति, इमोवि भणति-वोसिरामो ति, सेस गुरुभणितसरिसं भाणितव्वं । किंभूतः सन् ?, कृतप्राञ्जलिरभिमुखस्तज्ञानीह्यनुभाषणाशुद्धमिति गाथार्थः ।। [भा.२५०] कंतारे दुभिक्खे आयके वा महई समुष्पन्ने । जं पालियं न भग्गं तं जाणणु पालणासुद्धं ।। वृ-साम्प्रतमनुपालनाशुद्धमाह-कान्तारे-अरण्ये दुर्भिक्षेकालविभ्रमे आतङ्के वा-ज्वरादौ महति समुत्पन्ने सति यत् यत्र भग्नं तज्जानीह्यनुपालनाशुद्धमिति । एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसादस एते सव्वे बातालीसं दोसा णिच्चपडिसिद्धा, एते कंतारे दुर्भिक्षादिसु न भऑतित्ति गाथार्थः ।। {भा.२५१] रागेण व दोसेण व परिणामेण व न दूसियं जं तु । तं खलु पञ्चखाण भावविसुद्धं मुणेयव्वं ।। वृ-इदानीं भावशुद्धमाह-रागेण वा-अभिष्वङ्गलक्षणेन द्वेषेण वा-अप्रीतिलक्षणेन, परिणामेन च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा वक्ष्यमाणेन न दूषित-न कलुषितं यत् तु-यदेव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808