________________
३२०
आवश्यक मूलसूत्रम् -२-६/८१
अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राद्यद्वारावयवार्थप्रति-पादनायाह[भा.२४६) पञ्चक्खाणं सव्वन्नुदेसिअं जं जहिं जया काले ।
तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ।। वृ-प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'यदिति यत् सप्तविंशतिविधस्यान्यतमं, सप्तविंशतिविधं च पञ्चविधं साधूमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविधं श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे चतुर्यामे पञ्चयामे वा श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाह्ने पराले वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचारात् तस्यैव तथापरिणतत्वाजानीहि श्रद्धानशुद्धमिति गाथार्थः ॥ [भा.२४७] पच्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्यं ।
मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ।। वृ- ज्ञानशुद्ध प्रतिपाद्यते, तत्र प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषयं तज्जानीहि ज्ञानशुद्धमिति गाथार्थः । विनयशुद्धमुच्यते, तत्रेयं गाथा[भा.२४८] किइकम्मस्स विसोही पउंजई जो अहीनमइरित्तं ।
मनवयणकायगुत्तो तं जाणसु विनयओ सुद्धं ।। वृ-कृतिकर्मणः-वन्दनकस्येत्यर्थः विशुद्धिं-निरवद्यकरणक्रियां प्रयुङ्क्ते यः सः प्रत्यख्यानकाले अन्यूनातिरिक्तिां विशुद्धिं मनोवाकायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो-विनयेन शुद्धमिति गाथार्थः ।। [भा.२४९] अनुभासइ गुरुवयणं अक्खररपयवंजणेहिं परिसुद्धं ।
पंजलिउडो अभिमुहो तं जाणणु भासणासुद्धं ।। वृ- अधुनाऽनुभाषणशुद्ध प्रतिपादयत्राह-कृतकृतिकर्मा प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनं, लघुतरेण शब्देन भणतीत्यर्थः, कथमनुभाषते ?-अक्षरपदव्यञ्जनैः परिशुद्धं, अनेनानुभाषणायलमाह, णवरं गुरू भणति वोप्सिरति, इमोवि भणति-वोसिरामो ति, सेस गुरुभणितसरिसं भाणितव्वं । किंभूतः सन् ?, कृतप्राञ्जलिरभिमुखस्तज्ञानीह्यनुभाषणाशुद्धमिति गाथार्थः ।। [भा.२५०] कंतारे दुभिक्खे आयके वा महई समुष्पन्ने ।
जं पालियं न भग्गं तं जाणणु पालणासुद्धं ।। वृ-साम्प्रतमनुपालनाशुद्धमाह-कान्तारे-अरण्ये दुर्भिक्षेकालविभ्रमे आतङ्के वा-ज्वरादौ महति समुत्पन्ने सति यत् यत्र भग्नं तज्जानीह्यनुपालनाशुद्धमिति । एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसादस एते सव्वे बातालीसं दोसा णिच्चपडिसिद्धा, एते कंतारे दुर्भिक्षादिसु न भऑतित्ति गाथार्थः ।। {भा.२५१] रागेण व दोसेण व परिणामेण व न दूसियं जं तु ।
तं खलु पञ्चखाण भावविसुद्धं मुणेयव्वं ।। वृ-इदानीं भावशुद्धमाह-रागेण वा-अभिष्वङ्गलक्षणेन द्वेषेण वा-अप्रीतिलक्षणेन, परिणामेन च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा वक्ष्यमाणेन न दूषित-न कलुषितं यत् तु-यदेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org