Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३३६
आवश्यक मूलसूत्रम् - २-६/९२
प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकत्वादस्य, ज्ञान तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः ।
उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्त्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं ?, पक्षद्वयेऽपि युक्ति सम्भवाद्, आचार्यः पुनराह --
'सव्वेसिं' गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयत्राह'सव्वेसिंपि' गाहा व्याख्या- 'सर्वेषामिति मूलनयानां अपिशब्दात् तद्भेदानां च नयानां - द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एव उभयमेवानपेक्षं इत्यादिरूपां अथवा नामादीनां नयानां कः कं साधमिच्छतीत्यादिरूपां निशम्य श्रुत्त्वा तत सर्वनयविशुद्धं सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः यस्मात् सर्वे नया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ॥ अध्ययनं -६- समाप्तम्
·
व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् । शुद्धं प्रत्याख्यानं लभतां भव्यो जनस्तेन ||१||
समाप्ता चेयं शिष्यहितानामावश्यकटीका !! कृतिः सिताम्बरराचार्यजिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य । यदिहोत्सूत्रज्ञानाद्, व्याख्यातं तद् बहुश्रुतैः ।
क्षन्तव्यं कस्य सम्मोहः, छद्मस्थस्त न जायते ? ॥१॥
यदर्जितं विरच (मंच ) यता सुबोध्यां पुण्यं मयाऽऽवश्यकशास्त्रटीकाम् । भवे भवे तेन ममैवमेवं भूयाजिनोक्तानुमते प्रयासः ||२|| अन्यच्च सन्त्यज्य समस्तसत्त्वा, मात्सर्यदुःखं भवबीजभूतम् । सुखात्मकं मुक्तिपदावहं च सर्वत्र माध्यस्थमवाप्नुवन्तु || ३ ||
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता आवश्यकसूत्रस्य भद्रबाहुस्वामिविरचिता नियुक्तिः पूर्वाचार्यविरचितं भाष्यं एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता ।
४० प्रथमं मूलसूत्रं आवश्यकं समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808