Book Title: Agam Sutra Satik 40 Aavashyak MoolSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३१८
आवश्यक मूलसूत्रम्-२-६/८१
न केवलं भत्ते अन्नेसुवि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, साधुस्सवि पुण्णे पञ्चक्खाणे किं अपञ्चक्खाणी अच्छउ ? तम्हा तेनवि कातव्वं सङ्केतमिति ।
व्याख्यातं सङ्केतद्वारं, साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाहनि. (१५७८) अद्धा पच्चक्खाणं जं तं कालप्पमाणछेएणं ।
परिमडपोरिसीए मुहत्तमासद्धमासेहिं ।।। वृ- अद्धा-काले प्रत्याख्यानं यत् कालप्राणच्छेदेन भवति, पुरिरमार्द्धपौरुषीभ्यां मुहूर्तमासार्द्धमासैरिति गाथासक्षेपार्थः ।। अवयवत्थो पुन अद्धा नाम कालो कालो जस्स परिमाणं तं कालेनावबद्धं कालियपच्चक्खाणं, तं जथा-णमोक्कार पोरिसि पुरिरमड्डएकासणग अद्धमासमासं, चशब्देन दोन्नि मासा वा जाव छम्मासित्ति पञ्चक्खाणं, एतं अद्धापञ्चक्खाणं ।
गतमद्धाप्रत्याख्यानं, इदानीं उपसंहररन्नाहनि. (१५७९) भणियं दसविहमेयं पञ्चक्खाणं गुरूवएसेणं ।
कयपच्चक्खाणविहिं इत्तो पुच्छं समासेणं ।। वृ-भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं 'अतः' ऊर्द्धं वक्ष्ये 'समासेन’ सङ्केपेणेति गाथार्थः । नि. (१५८०) आह जह जीवघाए पच्चक्खाए न कारए अन्नं ।
भंगभयाऽसनदाने धुव कारवणे य ननु दोसे ।। वृ- प्रत्याख्यानाधिकार एवाह परः, किमाह ?-यथा जीवधाते-प्राणातिपाते प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति - न कारयति जीवघातं अन्यप्राणिनमिति, कुतः ?. भङ्गभयात्-प्रत्याख्यानभङ्गभयादित्यर्थ, भावार्थः-अश्यत इत्याशनम्-ओदनादि तस्य दानम्अशनदानं तस्मिन्नशनदाने, अशनशब्दः पानाधुपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं कारणमिति-अवश्यं भुजिक्रियाकारणं, अशनादिलाभेसति भोक्तु- जिक्रियासद्भावात्, ततः किमिति चेत्, ननु दोषः-प्रत्याख्यानभङ्गदोष इति गाथार्थः॥ नि. (१५८१) नो कयपचक्खाणो, आयरियाईण दिज्ज असनाई ।
नय विरईपालणाओ वेयावच्चं पहाणयरं ।। वृ-अतः-'नो कयपच्चक्खाणो आयरियाईण दिज्ज असनाई यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्यादिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृधदिपरिग्रहः दद्यात्, किम् ? - अशनादि, स्यादेतद्-ददतो वैयावृत्य लाभ इत्यत आह-न च विरतिपालनाद् वैय्यावृत्त्यं प्रधानतरमतः सत्यपि च लाभे किं तेनेति गाथार्थः ॥ नि. (१५८२) नो तिविहंतिविहेणं पञ्चक्खइ अन्नदानकारणवणं ।
सुद्धस्स तओ मुणिणो न होइ तब्भंगहेउत्ति ।। वृ एवं विनेयजनहिताय पराभिप्रायमाशङ्कय गुरुराह-न 'त्रिविधं' करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाक्काययोगत्रयेण 'प्रत्याख्याति' प्रत्याचष्टे प्रक्रान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवम् अन्यस्मै दानमशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्य-आशंसादिदोषरहितस्य ततः-तस्मात् मुनेः-साधोः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808